________________
शतकं -२, वर्गः, उद्देशकः-१
गतानि स्थितानि यस्य स तथा, 'पहारेत्थ 'त्ति 'प्रधारितवान्' सङ्कल्पितवान् 'गमनाय' गन्तुं ।
'गोयमाइ' त्ति गौतम इति एवमामन्त्रेयति शेषः, अथवाऽयीत्यामन्त्रणार्थमेव । ' से काहे व'त्ति अथ कदा वा ? कस्यां वेलायामित्यर्थः 'किह व 'त्ति केन वा प्रकारेण ? साक्षाद्दर्शनतः श्रवणतो वा 'केवच्चिरेण व' त्ति कियतो वा कालात् ?, 'सावत्थी नामं नयरी होत्थ' त्ति विभक्तिपरिणामादस्तीत्यर्थः, अथवा कालस्यावसर्पिणीत्वाव्यसिद्धगुणा कालान्तर एवाभवन्नेदानीमिति । 'अदूराइगए' त्ति अदूरे आगतः, स चावधिस्थानापेक्षयाऽपि स्यात् अथवा दूरतरमागपेिक्षया क्रोशादिकमप्यदूरं स्यादत उच्यते 'बहुसंपत्ते' ईषदूनसंप्रप्तो बहुसंप्राप्तः, स च विश्रामादिहेतोरारामादिगतोऽपि स्यादत उच्यते- 'अद्धाणपडिवन्ने' त्ति मार्गप्रतिपन्नः ।
१२७
किमुकतं भवति ? ' अंतापहे वट्टइ' त्ति विवक्षितस्थानयोरन्तरालमार्गे वर्त्तत इति । अनेन च सूत्रेण कथं द्रक्ष्यामि ? इत्यस्योत्तरमुक्तं कथं ?, यतोऽदूरागतादिविशेषणस्य साक्षादेव दर्शनं संभवति, तथा ‘अज्जेव णं दच्छसि' इत्यनेन कियच्चिरादित्यस्योत्तरमुक्तं, 'काहे ' इत्यस्य चोत्तरं सामर्थ्यगयं, यतो यदि भगवता मध्याह्नसमये इयं वार्त्ताऽभिहिता तदा मध्याह्नस्योपरि मुहूर्त्ताद्यतिक्रमणे या वेला भवति तस्यां द्रक्ष्मसीति सामथ्यार्युक्तम्, अदूरागतादिविशेषणस्य हि तद्देशप्राप्तौ मुहूर्त्तादिरेव कालः संभवति न बहुतर इति ।
‘अगाराओ’त्ति निष्क्रम्येतिशेषः 'अनगारितां' साधुतां 'प्रव्रजितुं' गन्तुम्, अथवा विभक्तिपरिणामादनगारितया ‘प्रव्रजितुं' प्रव्रज्यांप्रतिपत्तुम्, 'अब्भुट्ठेति त्ति आसनं त्यजति, यच्चभगवतो गौतमस्यासंयतं प्रत्यभ्युत्थानं तद्भाविसंयतत्वेन तस्य पक्षपातविषयत्वाद् गौतमस्य चाक्षीणरागत्वात्, तथा भगवदाविष्कृततदीयविकल्पस्य तत्समीपगमनतस्तकथनाद् भगवज्ज्ञानातिशयप्रकाशनेन भगवत्यतीव बहुमानोत्पादनस्य चिकीर्षितत्वादिति ।
'हे खंदय'त्ति सम्बोधनमात्रं 'सागयं खंदय'त्ति 'स्वागतं' शोभनमागमनं तव स्कन्दक ! महाकल्याणनिधेर्भगवतो महावीरस्य संपर्केण तव, कल्याणनिबन्धनत्वात्तस्य, 'सुसागयं' ति अतिशयेन स्वागतं, कथञ्चिदेकार्थो वा शब्दावेतौ, एकार्थशब्दोच्चारणं च क्रियमाणं न दुष्टं, संभ्रमनिमित्तत्वादस्येति, 'अनुरागयं खंदय ! 'त्ति रेफस्यागमिकत्वाद् 'अन्वागतम्' अनुरूपमागमनं स्कन्दक! तवेति दृश्यं, 'सागयमनुरागयं' ति शोभनत्वानुरूपत्वलक्षणधर्मद्वयोपेतं तवागमनमित्यर्थः
'जेणेव इहं'ति यस्यामेव दिशीदं भगवत्समवसरणं 'तेणेव 'त्ति तस्यामेव दिशि " अत्थे समत्थे”त्तिअस्त्येषोऽर्थः। 'अट्ठे समट्ठे' त्ति पाठान्तरं, काक्वा चेदमध्येयं, ततश्चार्थः किं 'समर्थः’ सङ्गतः ? इति प्रश्नः स्यात्, उत्तरं तु 'हंता अत्थि' सद्भूतोऽयमर्थ इत्यर्थः । 'नाणी' त्यादि, अस्यायमभिप्रायः-ज्ञानी ज्ञानसामर्थ्याज्जानाति तपस्वी च तपः सामथ्यद्दिवतासान्नि- ध्याज्जानातीति प्रश्नः कृतः ‘रहस्सकडे’त्ति रहः कृतः प्रच्छन्नकृतो, हदय एवावधारितत्वात्
'धम्मायरिए 'त्ति कुत एतत् ? इत्याह- 'धम्मोवएसए' त्ति, उत्पन्नज्ञानदर्शनधरो न तु सदा संशुद्धः, अर्हद्वन्दनाद्यर्हत्वात्, जिनो रागादिजेतृत्वात्, केवली असहायज्ञानत्वात्, अत एवातीतप्रत्युत्पन्नानागतविज्ञायकः, स च देशज्ञोऽपि स्यादित्याह ।
सर्वज्ञः सर्वदर्शी, 'वियट्टभोइ' त्ति व्यावृत्ते २ सूर्ये भुङ्क्ते इत्येवंशीलो व्यावृत्तभोजी प्रतिदिनभोजीत्यर्थः, ‘ओरालं’ति प्रधानं 'सिंगारं' ति श्रृङ्गारः - अलङ्कारादिकृता शोभा तद्योगात् श्रृङ्गारं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org