SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १२० भगवतीअङ्गसूत्रं २/-/१/११० “नो निरुद्धभवेत्ति अनिरुद्धातजन्मा, चरमभवाप्राप्त इत्यर्थः, अयं च भवद्वयप्राप्तव्यमोक्षोऽपि स्यादित्याह-'नो निरुद्धभवपवंचे'त्ति प्राप्तव्यभवविस्तार इत्यर्थः, अयं च देवमनुष्यभवप्रपञ्चापेक्षयाऽपि स्यादित्यत आह-'नो पहीणसंसारे त्ति अप्रहीणचतुर्गतिगमन इत्यर्थः, यत एवमत एव 'नो पहीणसंसारवेयणिज्जे त्ति अप्रक्षीणसंसारवेद्यका , अयं च सकृच्चतुर्गतिगमनतोऽपि स्यादित्य आह-'नो वोच्छन्नसंसारे'त्ति अत्रुटितचतुर्गतिगमनानुबन्ध इत्यर्थः, अत एव 'नो वोच्छिन्नसंसारवेयणिज्जेत्ति 'नो' नैव व्यवच्छिन्नम्-अनुबन्धव्यवच्छेदेन चतुर्गतिगमनवेद्यं कर्म यस्य स तथा, अत एव 'निट्ठयडे'त्ति अनिष्ठितप्रयोजनः। __ अत एव 'नो निट्ठियट्ठकरणिज्जे'त्ति 'नो' नैव निष्ठितार्थानामिव करणीयानि-कृत्यानि यस्य स तथा, यत एवंविधोऽसावतः पुनरपीति,अनादौसंसारे पूर्वंप्राप्तमिदानीं पुनर्विशुद्धचरणावाप्तेः सकाशादसम्भावनीयम् 'इत्थत्थं ति 'इत्यर्थम्' एनमर्थम्-अनेकशस्तिर्यङ्नरनाकिनारकगतिगमनलक्षणम् इत्थत्त'मिति पाठान्तरंतत्रानेन प्रकारेणेत्यंतद्भाव इत्थत्वं, मनुष्यादित्वमिति भावः, अनुस्वारलोपश्चप्राकृतत्वात्, ‘हव्वं'तिशीघ्रम् 'आगच्छइत्ति प्राप्नोति, अभिधीयतेचकषायोदयात्प्रतिपतितचरणानांचारित्रवतां संसारसागरपरिभ्रमणं, यदाह-"जइ उवसंतकसाओ लहइअनंतंपुणोविपडिवायं"ति।सचसंसारचक्रगतोमुनिजीवःप्राणादिनानामषट्केन कालभेदेन युगपच्च वाच्यः स्यादिति बिभणिषुः प्रश्नयन्नाह मू. (११०) सेणंभंते! किंवत्तव्वं सिया? गोयमा! पाणेति वत्तव्वं सिया भूतेति वत्तव्वं सिया जीवेत्ति वत्तव्वं० सत्तेत्ति वत्तव्वं० विन्नूत्ति वत्तव्वं० वेदेति वत्तव्यं सिया पाणे भूए जीवे सत्ते विन्नू वेएति वत्तव्वं सिया। से केणतुणं भंते ! पाणेत्ति वत्तव्वं सिया जाव वेदेति वत्तव्वं सिया?, गोयमा ! जम्हा आ० पा० उ० नी० तम्हा पाणेत्ति वत्तव्वं सिया, जम्हा भूते भवति भविस्सति य तम्हा भूएत्ति वत्तव्वं सिया, जम्हा जीवे जीवइ जीवत्तं आउयं च कम्मं उवजीवइ तम्हा जीवेत्ति वत्तव्वं सिया, जम्हा सत्ते सुहासुहेहिं कम्मेहिं तम्हा सत्तेत्ति वत्तव्वं सिया, जम्हा तित्तकडुयकसायअंबिलमहुरे रसे जाणइ तम्हा विन्नूत्ति वत्तव्वं सिया, वेदेइ य सुहृदुक्खं तम्हा वेदेति वत्तव्वं सिया। से तेणटेणं जाव पाणेत्ति वत्तव्वं सिया जाव वेदेति वत्तव्वं सिया। वृ. 'सेणमित्यादि, तत्र ‘सः' निर्ग्रन्थजीवः किंशब्दः प्रश्ने सामान्यवाचित्वाच्च नपुंसकलिङ्गेन निर्दिष्ट: 'इति' एवमन्वर्थयुक्ततयेत्यर्थः, वक्तव्यः स्यात्, प्राकृतत्वाच्च सूत्रे नपुसकलिङ्गताऽस्येति, अन्वर्थयुक्तशब्दैरुच्यमानः किमसौ वक्तव्यः स्यात् ? इति भावः । अत्रोत्तरं-'पाणेत्ति वत्तव्व'मित्यादि, तत्र प्राण इत्येतत्तं प्रति वक्तव्यं स्यात् यदोच्छसादि- मत्त्वमात्रमाश्रित्य तस्य निर्देशः क्रियते, एवं भवनादिधर्मविवक्षया भूतादिशब्दपञ्चकवाच्यता तस्य कालभेदेन व्याख्येया, यदा तूच्छसादिधर्मैर्युगपदसौ विवक्ष्यते तदा प्राणो भूतो जीवः सत्त्वो विज्ञो वेदयितेत्येतत्तं प्रति वाच्यं स्यात्, अथवा निगमनवाक्यमेवेदमतो न युगपत्पक्षव्याख्या कार्येति । ___'जम्हा जीवे' इत्यादि, यस्मात् ‘जीवः' आत्माऽसौ ‘जीवति' प्राणान् धारयति, तथा 'जीवत्वम्' उपयोगलक्षणम् आयुष्कं च कर्म 'उपजीवति' अनुभवति तस्माजीव इति वक्तव्यं स्यादिति । 'जम्हाते सुभासुभेहिंति सक्तः-आसक्तः शक्तो वा-समर्थः सुन्दरासुन्दरासुचेष्टासु, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy