________________
११९
शतकं-२, वर्गः-, उद्देशकः-१
अथैकेन्द्रियाणामुच्छसादिभावादुच्छसादेश्च वायुरूपत्वात् किं वायुकायिकानामप्युच्छसादिना वायुनैव भवितव्यमुतान्येन केनापिपृथिव्यादीनामिव तद्विलक्षणेन? इत्याशङ्कयां प्रश्नयन्नाह-'वाउया एण'मित्यादि, अथोच्छसस्यापि वायुत्वादन्येनोच्छसवायुना भाव्यंतस्याप्यन्येनैवमनवस्था, नैवमचेतनत्वात्तस्य, किंच योऽयमुच्छसवायुः स वायुत्वेऽपि न वायुसंभाव्यौदारिकवैक्रियशरीररूपः तदीय पुद्गलानामानप्राणसज्ज्ञितानामौदारिकवैक्रियशरीरपुद्गलेभ्योऽनन्तगुणप्रदेशत्वेन सूक्ष्मतर्यंतच्छरीराव्यपदेश्यत्वात्, तथा च प्रत्युच्छसादीनामभाव इति नानवस्था
मू. (१०८) वाउयाए णं भंते ! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता २ तत्थेव भुञ्जो भुजो पच्चायाति?, हंता गोयमा! जाव पञ्चायाति । से भंते किं पुढे उद्दाति अपुढे उद्दाति?, गोयमा! पुढे उद्दाइ नो अपुढे उद्दाइ।
सेभंते! किं ससरीरि निक्खमइ असरीरी निक्खमइ?, गोयमा! सिय ससरीरी निक्खमइ सिय असरीरी निक्खमइ । से केणद्वेणं भंते ! एवं वुच्चइ सिय ससरीरी निक्खमइ सिय असरीरी निक्खमइ ?, गोयमा ! वाउयायस्स णं चत्तारि सरीरया पन्नत्ता, तंजहा-ओरालिए वेउविए तेयए कम्मए, ओरालियवेउब्वियाई विप्पजहाय तैयकम्मएहिं निक्खमति ।
से तेणटेणं गोयमा ! एवं वुच्चइ-सिय ससरीरी सियअसरीरी निक्खमइ।
वृ. 'वाउकाए णं भंते'इति, अयं च प्रश्नो वायुकायप्रस्तावाद्विहितोऽन्यथा पृथिवीकायिकादीनामपि मृत्वा स्वकाये उत्पादोऽस्त्येव, सर्वेषामेषां कायस्थितेरसङ्ख्याततयाऽनन्ततया चोक्तत्वात्, यदाह॥१॥ "अस्सङ्घोसप्पिणीउस्सप्पिणीओ एगिदियाण उ चउण्हं ।
ताचेव ऊ अनंता वणस्सईए उ बोद्धव्वा ।। तत्र वायुकायो वायुकाय एवानेकशतसहकृत्वः ‘उद्दाइत्त'त्ति अपहृत्य' मृत्वा तत्थेव'त्ति वायुकाय एव ‘पच्चायाइ'त्ति 'प्रत्याजायते' उत्पद्यते।
'पुढे उद्दाइ'तति स्पृष्टः स्वकायशस्त्रेण परकायशस्त्रेण वा 'अपद्रवति' भ्रियते नो अपुढे'त्ति सोपक्रमापेक्षमिदं, 'निक्खमइत्ति स्वकडेवरान्निःसरति, 'सिय ससरीरी'त्ति स्यात्-कथञ्चित् 'ओरालियवेउब्वियाई विप्पजहाये'त्यादि, अयमर्थःऔदारिकवैक्रियापेक्षयाऽशरीरी तैजसकार्मणापेक्षया तु सशरीरी निष्कामतीति ।
वायुकायस्य पुनः पुनस्तत्रैवोत्पत्तिर्भवतीत्युक्तम्, अथ कस्यचिन्मुनेरपि संसारचक्रापेक्षया पुनः पुनस्तत्रैवोत्पत्ति स्यादिति दर्शयन्नाह
मू. (१०९) मडाई णं भंते नियंठे नो निरुद्धभवे नो निरुद्धभवपवंचे नो पहीणसंसारे नो पहीणसंसारवेयणिज्जे नो वोच्छिन्नसंसारे णो वोच्छिन्नसंसारवेयणिजे नो निट्ठियढे नो निट्ठियट्ठकरणिज्जे पुनरवि इत्यत्तं हव्वमागच्छति?
हंता गोयमा! मडाई णं नियंठे जाव पुनरवि इत्थत्तं हव्वमागच्छइ ।
वृ. 'मडाई णं भंते ! नियंठे' इत्यादि, मृतादी-प्रासुकभोजी, उपलक्षत्वादेषणीयादी चेति दृश्यं, 'निर्ग्रन्थः-' साधुरित्यर्थः 'हव्वं' शीघ्रमागच्छतीति योगः। किंविधः सन् ? इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org