________________
शतकं-१, वर्गः-, उद्देशकः-१०
११५
भाषेति, तदसङ्गततरम्, एवं हि सिद्धस्याचेतनस्य वा भाषाप्राप्तिप्रसङ्ग इति ।
एवं क्रियाऽपि वर्तमानकाल एव युक्ता, तस्यैव सत्त्वादिति, यच्चानभ्यासाभ्यासादिकं कारणमुक्तं तच्चानैकान्तिकम्, अनभ्यासादावपि यतः काचित्सुखादिरूपैव, तथा यदुक्तम्अकरणतः क्रिया दुःखेति, तदपि प्रतीतिबाधितं, यतः करणकाल एव क्रिया दुःखा वा सुखा वा दृश्यते, न पुनः पूर्वं पश्चाद्वा, तदसत्त्वादिति ।
तथा यदुक्तम् ‘अकिच्च' मित्यादि यदृच्छदमताश्रयणात्, तदप्यसाधीयो, यतो यद्यकरणादेवकर्मदुःखं सुखं वा स्यात् तदा विविधैहिकपारलौकिकानुष्ठानाभावप्रसङ्गः स्यात्, अभ्युपगतं च किञ्चित्पारलौकिकानुष्ठानं तैरपि चेति, एवमेतत्सर्वमज्ञानविजृम्भितम्, उक्तं च वृद्धैः॥१॥ “परतित्थियवत्तव्वय पढमसए दसमयंमि उद्देसे ।
विभंगीणादेसा मइभेया वावा सा सव्वा ।। ॥२॥ सब्भूयमसब्भूय भंगा चत्तारि होति विभंगे
उम्मत्तवायसरिसं तो अण्णाणंति निद्दिष्ठं । सद्भूते-परमाणौ असद्भूतं-अर्धादि १, असद्भूते-सर्वगात्मनि सद्भूतं चैतन्यं २, सद्भूतेपरमाणौ सद्भूतं-निष्प्रदेशत्वम् ३, असद्भूते-सर्वगात्मनि असद्भूतं कर्तृत्वमिति ४ । 'अहं पुण गोयमा ! एवमाइक्खामी" त्यादि तु प्रतीतार्थमेवेति, नवरं 'दोण्हं परमाणुपोग्गलाणं अत्थि सिणेहकाए'त्ति एकस्यापि परमाणोः शीतोष्णस्निग्धरूक्षस्पर्शानामन्यतरदविरूद्धं स्पर्शद्वयमेकदैवास्ति, ततोद्वयोरपितयोः स्निग्धत्वभावात् स्नेहकायोऽस्त्येव, ततश्चतौ विषमस्नेहात्संहन्येते, इदं च परमतानवृत्त्योक्तम्, अन्यथा रूक्षावपि रूक्षत्ववैषम्ये संहन्येते एव, यदाह॥१॥ “समनिद्धयाए बंधो न होइ समलुक्खयाएविन होइ ।
वेमायनिध्धलुक्खत्तणेण बंधो उ खंधाणं ॥ 'खंधेविणं से असासए'त्ति उपचयापचयिकत्वात्, अत एवाह-‘सया समिय'मित्यादि, 'पुट्विं भासाअभास'त्ति भाष्यतइतिभाषाभाषणाच्च पूर्वंन भाष्यते इति नभाषेति भासिज्जमाणि भासा भास'त्तिशब्दार्थोपपत्तेः ‘भासियाअभास'त्तिशब्दार्थवियोगात्। 'पुट्विं किरियाअदुक्ख'त्ति करणात्पूर्वं क्रियैव नास्तीत्यसत्त्वादेवचन दुःखा, सुखापिनासौ, असत्त्वादेव, केवलंपरमतानुवृत्त्याऽदुःखेत्यक्तं 'जहा भास'त्तिवचनात्, ‘कज्जमाणि किरिया दुक्खा' सत्त्वात्, इहापि यक्रियमाणा क्रिया दुःखेत्युक्तं तत्परमतानवृत्त्यैव, अन्यथा सुखाऽपि क्रियमाणैव क्रिया, तथा 'किरियासमयवितिक्कंतं च ण' मित्यादि दृश्यमिति ।
किचंदुक्ख'मित्यादि, अनेन च कर्मसत्ताऽऽवेदिता, प्रमाणसिद्धत्वादस्य, तथाहि-इह यद्वयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य दुःखलक्षणं फलमन्यस्येतरत् न तद्विशिष्टहेतुमन्तरेण संभाव्यते, कार्यत्वाद्, घटवत्, यश्चासौ विशिष्टो हेतुः स कर्मेति, आह च॥१॥ “जो तुलसाहणाणं फले विसेसो न सो विणा हेउं ।
कज्जत्तणओ गोयम! घडो व हेऊ य से कम्मं ॥ पुनरप्यन्ययूथिकान्तरमतमुपदर्शयन्नाह
मू. (१०३) अन्नउत्थियाणंभंते ! एवमाइक्खंति जाव-एवं खलु एगेजीवे एगेणं समएणं दो किरियाओ पकरेंति, तंजहा-इरियावहियं च संपराइयं च, [जं समयं इरियावहियं पकरेइ तं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org