________________
भगवतीअङ्गसूत्रं १/-/१०/१०२
अकृत्वाऽकृत्वा, आभीक्ष्णये द्विर्वचनं, दुःखमिति प्रकृतमेव, के ? इत्याह-प्राणभूतजीवसत्त्वाः,
प्राणादिलक्षणं चेदम्
119 11
११४
“प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः ॥
'वेयणं 'ति शुभाशुभकर्म्मवेदनां पीडां वा 'वेदयन्ति' अनुभवन्ति, इत्येतद्वक्तव्यं स्यात्, एतस्यैवोपपद्यमानत्वाद्, याच्छिकं हि सर्वं लोके सुखदुःखमिति, यदाह“अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिधातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः ॥
11911
'से कहमेयं' ति अथ कथमेतद् भदन्त ! 'एवम् ? ' अन्ययूथिकोक्तन्यायेन ? इति प्रश्नः 'जंणं ते अण्उत्थिया' इत्याद्युत्तरं, व्याख्या चास्य प्राग्वत्, मिथ्या चैतदेवं यदि चलदेव प्रथमसमये चलितं न भवेत्तदा द्वितीयादिष्वपि तदचलितमेवेति न कदाचनापि चलेत्, अत एव वर्त्तमानस्यापि विवक्षयाऽतीतत्वं न विरुद्धम्, एतच्च प्रागेव निर्णीतमिति न पुनरुच्यते, यच्चोच्यते-चलितकार्याकरणादचलितमेवेति, तदयुक्तं, यतः प्रतिक्षणमुत्पद्यमानेषु स्थासकोशादिवस्तुष्वन्त्यक्षणभावि वस्तु आद्यक्षणे स्वकार्य न करोत्येव, असत्त्वाद्, अतो यदन्त्यसमयचलित कार्यं विवक्षितं परेण तदाद्यसमयचलितं यदि न करोति तदा क इव दोषोऽत्र ?, कारणानां स्वस्वकार्यकरणस्वभावत्वादिति
यच्चोक्तं- द्वौ परमाणून संहन्येते, सूक्ष्मतया स्नेहाभावात्, तदयुक्तम्, एकस्यापि परमाणोः स्नेहसम्भवात्, सार्द्धपुद्गलस्य संहतत्वेन तैरेवाभ्युपगमाच्च, यत उक्तम्- “तिन्नि परमाणुपोग्गला एगयओ साहणंति ते भिज्जमाणा दुहावि तिहावि कज्जति, दुहा कजमाणा एगओ दिवड्ढे "त्ति, अनेन हि सार्द्धपुद्गलस्य संहतत्वाभ्युपगमेन तस्य स्नेहोऽभ्युपगत एवेत्यतः कथं परमाण्वोः स्नेहाभावेन सङ्घाताभाव इति, यच्चोक्तम् - एकतः सार्द्ध एकतः सार्द्ध इति एतदप्यचारु, परमाणोरद्धकरणे परमाणुत्वाभावप्रसङ्गात्, तथा यदुक्तं पञ्च पुद्गलाः संहताः कर्मतया भवन्ति, तदप्यसङ्गतं, कर्मणोऽनन्तपरमाणुतयाऽनन्तरकन्धरूपत्वात्, पञ्चाणुकस्य च स्कन्धमात्रत्वात्, तथा कर्म जीवावरणस्वभावमिष्यते, तच्च कथं पञ्चपरमाणुस्कन्धमात्ररूपं सदसङ्ख्यातप्रदेशात्मकं जीवभावृणुयादिति ।
तथा यदुक्तं कर्म च शाश्वतं तदपि असमीचीनं, कर्म्मणः शाश्वतत्वे क्षयोपशमाद्यभावेन ज्ञानादीनां हानेरुत्कर्षसय चाभावप्रसङ्गात्, दृश्यते च ज्ञानादिहानिवृद्धी, तता यदुक्तं कर्म सदा चीयतेऽपचीयते चेति, तदप्येकान्तशाशवतत्वे नोपपधि इति ।
यच्चोक्तं-भाषणात्पूर्वं भाषा तद्धेतुत्वात्, तदयुक्तमेव, औपचारिकत्वात्, उपचारस्य च तत्त्वतोऽवस्तुत्वात् किं च- उपचारस्तात्त्विके वस्तुनि सति भवतीति तात्त्विकी भाषाऽस्तीति सिध्धम्, यच्चोक्तं-भाष्यमाणाऽभाषा, वर्त्तमानसमयस्याव्यावहारिकत्वात्, तदप्यसम्यग् वर्त्तमानसमयस्यैवास्तित्वेन व्यवहाराङ्गत्वाद् अतीतानागतयोश्च विनष्टानुत्पन्नतयाऽसत्त्वेन व्यवहारानङ्गत्वादिति, यच्चोक्तं-भाषासमयेत्यादि, तदप्यसाधु, भाष्यभाणभाषाया अभावे भाषासमय इत्यस्याभिलापस्याभावप्रसङ्गात्, यश्च प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वादिति हेतुः सोऽनैकान्तिकः, करादिचेष्टानामभिधेयप्रतिपादकत्वे सत्यपि भाषात्वासिद्धेः । तथा यदुक्तम् अभाषकस्य
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International