________________
९८
भगवतीअङ्गसूत्रं १/-/७/८४ सेवं भंते! सेवं भंते!।
वृ. 'गब्भगए समाणे'त्ति गर्भगतः सन् मृत्वेति शेषः ‘एगइए'त्ति सगर्वराजादिगर्भरूपः, सज्ञित्वादिविशेषणानि गर्भस्थस्यापि नरकप्रायोग्यकर्मबन्धसम्भवाभिधायकतयोक्तानि, वीर्यलब्ध्या वैक्रियलब्ध्या संग्रामयतीति योगः, अथवा वीर्यलब्धिको वैक्रियलब्धिकश्चसन्निति, 'पराणीएणं'ति परानीकं शत्रुसैन्यं सोच'त्ति आकर्ण्य 'निशम्य' मनसाऽवधार्य ‘पएसेनिच्छुभइत्ति (प्रदेशान्) गर्भदेशाब्दहि क्षिपति ‘समोहणइत्ति समवहन्ति' समवहतो भवति तथाविधपुद्गलग्रहणार्थं, सङ्ग्रामसङ्ग्रायति' युद्धंकरोति, अत्थकामए'इत्यादिअर्थे-द्रव्येकामो-वाञ्छामात्रं यस्यासावर्थकामः, एवमन्यान्यपि विशेषणानि, नवरं राज्य-नृपत्वं भोगा-गन्धरसस्पर्शा कामौशब्दरूपे काङ्क्षा-गृद्धि, आसक्तिरित्यर्थः, अर्थे काङ्क्षा संजाताऽस्येत्यर्थकाशितः, पिपासेव पिपासा-प्राप्तेऽप्यर्थेऽतृप्ति, 'तच्चित्तेत्तितत्र-अर्थादौ चित्तं-सामान्योपयोगरूपं यस्यासौ तच्चित्तः, 'तम्मणे'त्ति तत्रैव-अर्थादौ मनो-विशेषोपयोगरूपं यस्य स तन्मनाः, 'तल्लेसे'त्ति लेश्या आत्मपरिणामविशेषः, 'तदज्झवसिए'त्ति इहाध्यवसायोऽध्यवसितं।।
तत्र तचित्तादिभावयुक्तस्य सतस्तस्मिन्-अर्थादावेवाध्यवसितं-परिभोगक्रियासंपादनविषयमस्येतितदध्यवसितः, 'तत्तिव्वज्झवसाणे तितस्मिन्नेव-अर्थादौतीव्रम्आरम्भकालादारभ्य प्रकर्षयायिअध्यवसानं-प्रत्यत्नविशेषलक्षणंयस्यस तथा, 'तदट्ठोवउत्ते'त्ति तदर्थम्-अर्थादिनिमित्तमुपयुक्तः-अवहितस्तदर्थोपयुक्तः, 'तदप्पियकरणे'त्ति तस्मिन्नेव-अर्थादावर्पितानि-आहितानि करणानि-इन्द्रियाणिकृतकारितानुमतिरूपाणिवायेन सतथा, 'तब्मावणाभाविएत्तअसकृदनादौ संसारे तद्भावनया-अर्थादिसंस्कारेण भावितो यः स तथा, 'एयंसिणं अंतरंसित्ति ‘एतस्मिन्' सङ्ग्रामकरणावसरे कालं-मरणमिति।।
'तहारुवस्स'त्ति तथाविधस्य, उचितस्येत्यर्थः, श्रमणस्य' साधोः, वाशब्दो देवलोकोत्पादहेतुत्वंप्रति श्रमणमाहनवचनयोस्तुल्यत्वप्रकाशनार्थः, 'माहणस्स'त्ति मा हन इत्येवमादिशति स्वयंस्थूलप्राणातिपातादिनिवृत्तत्वाधः स माहनः,अथवा ब्राह्मणो-ब्रह्मचर्यस्य देशतः सद्भावाद् ब्राह्मणो देशविरतः तस्य वा 'अंतिए'त्ति समीपे एकमप्यास्तामनेकम् ‘आर्यम्' आराद् यातं पापकर्मभ्य इत्यार्यम्, अतएवधार्मिकमिति, 'तओ'त्तितदन्तरमेव 'संवेगजायसड्डित्ति संवेगेनभवभयेन जाता श्रद्धा-अश्रद्धानं धर्मादिषु यस्य स तथा 'तिब्वधम्माणुरागरत्ति'त्ति तीव्रो यो धर्मानुरागो-धर्मबहुमानस्तेनरक्तइवयःसतथा, 'धम्माकामए'त्तिधर्म-श्रुतचारित्रलक्षणः पुण्यंतत्फलभूतं शुभकर्मेति । 'अंबुखुजए वत्ति आम्रफलवत्कुजः 'अच्छेजति आसीत सामान्यतः, एतदेव विशेषतउच्यते-चिट्टेञ्ज'त्ति उर्द्धस्थानेन निसीएज'त्तिनिषदस्थानेन 'तुयट्टेज'त्ति शयीत, 'सममा-गच्छईत्ति,समम्-अविषमं सम्म'तिपाठे "सम्यगअनुपघातहेतुत्वादागच्छतिमातुरुदराद योन्या निष्कामति "तिरियमागच्छइत्तितिरश्चीनो भूत्वाजठराग्निर्गन्तुं प्रवर्ततेयदितदा विनिघातं' मरणमापद्यते, निर्गमाभावादिति।
गर्भानिर्गतस्य च यत्स्यात्तदाह-‘वण्णवज्झाणि यत्ति वर्ण-श्लाधा वध्यो-हन्तव्यो येषां तानि वर्णवध्यानि, अथवा वर्णाद्वाह्यानि वर्णबाह्यानि अशुभानीत्यर्थः, चशब्दो वाक्यान्तरत्वद्योतनार्थः, 'से'त्ति तस्य गर्भनिर्गतस्य 'बद्धाइंति सामान्यतो बद्धानि पुठाईति पोषितानि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org