________________
९४
समवायाङ्गसूत्रम्-६२/१४०
प्रथमावलिकाकस्तत्र, अथवा प्रथमात् मूलभूताद्विमानेन्द्रकादायरभ्य याऽसावावलिकाविमानानुपूर्वी तयाअथवोत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशिया प्रथमा-आद्यावलिका तस्यां 'पढमावलिय'त्ति पाठान्तरे तु उत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमावलिका सा द्विषष्टिर्द्विषष्टिविमान-प्रमाणेन प्रज्ञप्तेति।
_ 'एगमेगाए'त्ति उडुविमानाभिधानदेवेन्द्रकापेक्षया एकैकस्यां पूर्वादिकायां दिशि द्विषष्टिर्द्विषष्टिविमानानि प्रज्ञप्तानि, द्वितीयादिषु पुनः प्रस्तटेषु एकैकहान् विमानानि भवन्ति यावद्दिषष्टितमेऽनुत्तरसुरप्रस्तटे सर्वार्थसिद्धदेवेन्द्रकः पार्वे तदेकैकमेव भवतीति, तथा 'सव्वेत्ति सर्वे वैमानिकानां देवविशेषाणां सम्बन्धिनो द्विषष्टिर्वमानप्रस्तटा-विमान-प्रस्तराः प्रस्तटाग्रेणप्रस्तटपरिमाणे प्रज्ञप्ता इति।
समवायः-६२ समाप्तः
(समवायः-६३)) मू. (१४१) उसभेणं अरहा कोसलिए तेसहिँ पुव्वसयसहस्साई महारायमज्झ वसित्ता मुंडे भवित्ता आगाराओ अनगारियं पव्वइए।
हरिवासरम्मयवासेसुमणुस्सातेवट्ठिएराइंदिएहिं संपत्तजोव्वणा भवंति, निसढेणं पव्वए तेवढिं सूरोदया प० एवं नीलवंतेवि।
वृ. अथ त्रिषष्टिस्थानकं, तत्र ‘संपत्तजोव्वण'त्ति मातापितृपरिपालनानपेक्षा इत्यर्थः । - 'निसहेण मित्यादि, किल सूर्यमण्डलानांचतुरशीत्यधिकशतसंख्यानांमध्यात्जम्बूद्वीपस्य पर्यन्तिमे अशीत्युत्तरे योजनशते पञ्चषष्टिर्भवन्ति, तत्र च निषधवर्षधरपर्वतस्योपरि नीलवद्वर्षधरपर्वतस्योपरि च त्रिषष्टि : सूर्योदयः-सूर्योदयस्थानानि सूर्यमण्डलानीत्यर्थः, तदन्ये तु द्वे जगत्या उपरि, शेषाणि तु लवणे त्रिषु त्रिंशदधिकेषु योजनशतेषु भवन्तीति भावार्थः ।
समवायः-६३ समाप्तः
(समवायः-६४) मू. (१४२) अट्ठट्टमियाणं भिक्खुपडिमा चउसट्ठिए राइंदिएहिं दोहि य अट्ठासीएहिं भिक्खासएहिं अहासुत्ते जाव भवइ ।
चउसटिं असुरकुमारावाससयसहस्सा प०, चमरस्सणं रन्नो चउसद्धिं सामाणिय- साहस्सीओ प० ।
सव्वेविणं दधिमुहा पव्वया पल्लासंठाणसंठिया सव्वत्थ समा विक्खंभुस्सेहेणं चउसद्धिं जोयणसहस्साइंप०।
सोहम्मीसाणेसु बंभलोए यतिसुकप्पेसु चउसद्धिं विमाणावाससयसहस्स प० । सव्वस्सवि य णं रन्नो चाउरन्तचक्कवट्टिस्स चउसट्ठिलट्ठीए महग्घे मुत्तामणिहारे प०।
वृ. अथ चतुःषष्टिस्थानकं 'अट्टे' त्यादि, अष्टावष्टामानि दिनानि यस्यां साऽयाटमिका यस्यां हिअष्टौ दिनाष्टकानि भवन्ति तस्यामष्टावष्टामानि भवन्त्येवेति, भिक्षुप्रतिमा-अभिग्रहविशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org