________________
समवायः - ६२
९३
119 11
वासुपूज्यस्येह द्विषष्टिर्गणा गणधराश्चोक्ता आवश्यके तु षट्षष्टिरुक्तेति मतान्तरमिदमपीति ।। 'सुक्कपक्खस्से' त्यादि, शुक्लपक्षस्य सम्बन्धी चन्द्रो द्विषष्टिभागान् प्रतिदिनं वर्द्धते, एवं कृष्णपक्षे चन्द्रः परिहीयते, अयं चार्थः सूर्यप्रज्ञप्त्यामप्युक्तः, तथाहि"किहं राहुविमाणं निच्चं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ । बावट्ठि बावट्ठि दिवसे २ य सुक्कपक्खस्स । जं परिवड्ढइ चंदो खवेइ तं चेव कालेण । पन्नरसयभागेण य चंदं पन्नरसमेव तं चरइ । पन्नरसयभागेण य पुणोवि तं चेववक्कमइ ॥ एवं वड्ढइ चंदो परिहाणी एव होइ चंदस्स । कालो वा जोहा वा एयणुभावेण चंदस्स ॥ -तथा तत्रैवोक्तम्- ।
"सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं । तत्तियमेत्ते भागे पुणोवि परिवहुए जोण्हा ।। इति
॥२॥
॥३॥
॥ ४ ॥
119 11
तदेवं भणितद्वयानुसारेणनुमीयते यथा चन्द्रमण्डलस्य एकत्रिंशदुत्तरनवशतभागविकल्पितस्य एकांशोऽवस्थित एवास्ते, शेषाः प्रतिदिवसं द्विषष्टिं द्विषष्टिं कृत्वा वर्द्धन्ते, ततः पञ्चदशेचन्द्रदिने सरवे समुदिता भवन्ति, पुनस्तथैव हीयन्ते पञ्चदशे दिने एकावशेषा भवन्तीति वचनद्वयसामर्थ्यलभ्यं व्याख्यानमेतत्, जीवाभिगमे तु 'बावट्ठि २' गाहा तथा 'पन्नरसतिभागेण' गाथा, एते गाथे एवं व्याख्याते - 'बावट्ठि' २ इत्यत्र द्विषष्टि २ र्भागानां दिवसे २ च प्रत्यहमित्यर्थः, शुक्लपक्षस्य सम्बन्धिनि यत् परिवर्द्धति चन्द्रश्चतुरः साधिकान् द्विषष्टिभागान् क्षपयति तदेव कालेनैतदेवाह-‘पन्नरस' इत्यादिना ।
'चन्द्रविमानं द्विषष्टिभागान् क्रियते ततः पञ्चदशभिर्भागोऽपह्रियते ततश्चत्वारो भागाः समधिका द्विषष्टिभागानां पञ्चदशभागेन लभ्यन्ते, अत उच्यते-पञ्चदशभागे चोक्तलक्षणेन चन्द्रमधिकृत्य पञ्चदशैव दिवसांस्तद्राहुविमानं चरति, एवमपक्रामतीत्यपि भावनीयमिति, अत्रास्माभियथाध्टे लिखिते उपनीते बहुश्रुतैर्निर्णयः कार्य इति । [ यद्येकमंशं दर्शयश्चंन्द्रश्चरति एकमेव चांशं राहुश्चरति तदा प्रत्यहं द्वावंशावाच्छादनीयौ जायेते पञ्चदशमिश्च दिनैराच्छादितोऽप्यंशद्वयमवतिष्ठते तस्याप्यर्धमाच्छादनीयमेकैकेनेति भाग एक आच्छाद्य इति द्विषष्टिभागीकरणं ।]
'सोहम्मी' त्यादि, तत्र सौधर्मेशानयोयोदश विमानप्रस्तटा भवन्ति, सनत्कुमारमाहेन्द्रयोद्वादश ब्रह्मलोकेषट्लान्तके पञ्च शुक्रेचत्वार एवं सहस्रारे आनतप्राणतयोश्चत्वार एवमारणाच्युतयोः ग्रैवेयकेष्वधस्तनमध्योमोपरिमेषु त्रयः २ अनुतरेष्वेक इति द्विषष्टिस्ते भवन्ति, एतेषां च मध्यभागे प्रत्येकमुडुविमानादिकाः सर्वार्थसिद्धविमानान्ता वृत्तविमानरूपा द्विषष्टिरेव विमानेन्द्रका भवन्ति, ततपार्श्वतश्च पूर्वादिषु दिक्षु त्र्यचतुरवृत्तविमानक्रमेण विमानानामावलिका भवन्ति तदेवं सौधर्मेशानयोः कल्पयोः प्रथमे प्रस्तटे सर्वाधस्तन इत्यर्थः ।
'पढमावलियाए 'त्ति प्रथमा उत्तरोत्तरावलिकापेक्षया आद्याश्चतस्त्र आवलिका यस्मिन् स
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International