SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ समवायाङ्गसूत्रम्-६१/१३९ चंदमंडलेणं एगसडिविभागविभइए समंसे प, एवं सूरिस्सवि। वृ. अथ एकषष्टिस्थानकं, तत्र ‘पञ्चे'त्यादि, पञ्चभिः संवत्सरैर्निर्वृत्तमिति पञ्चसांवत्सरिकं तस्य णमित्यलङ्कारे युगस्य कालमानविशेषस्य ऋतुमासेन नचन्द्रादिमासेन मीयमानस्य एकषष्टि ऋतुमासाः प्रज्ञप्ताः, इह चायं भावार्थ-युगं हि पञ्च संवत्सरा निष्पादयन्ति, तद्यथा-चन्द्रश्चन्द्रोऽभिवर्द्धितः चन्द्रोऽभिवर्धितश्चेति, तत्र एकोनत्रिंशदहोरात्राणि द्वात्रिंशच द्विषष्टिभागाअहोरात्रस्वेत्येवंप्रमाणेन २९ ३२/., कृष्णप्रतिपदमारभ्य पौर्णमासीनिष्ठितेन चन्द्रमासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरस्तस्य च प्रमाणमिदं-त्रीणिशतान्यांचतुष्पञ्चाशदुत्तराणि द्वादशच द्विषष्टिभागा दिवसस्य ३४५,१२/ तथा एकत्रिंशदहाएकविंशत्युत्तरंच शतंचतुर्विशत्युत्तरशतभागानां दिवसस्येत्यवंप्रमाणोऽभिवर्द्धितमासो भवति, ३११२१/, एतेनचमासेनद्वादशमासप्रमाणोऽभि-वर्द्धितसंवत्सरो भवति, सच प्रमाणेन त्रीणिशतान्यहांत्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागा दिवसस्य ३८३ । ".., तदेवं त्रयाणां चन्द्रसंवत्सराणां द्वयोश्चाभिवर्द्धितसंवत्सरयोरेकीकरणे जातानि (दिनानां) अष्टादश शतानि त्रिंशदुत्तराणि अहोरात्राणां १८३०, ऋतुमासश्च त्रिंशताऽहोरारत्रैर्भवतीति त्रिंशता भागहारे लब्धा एकषष्टि ऋतुमासा इति । ‘मंदरस्से'त्यादि, इह मेरुर्नवनवतियोजनसहस्रप्रमाणो द्विधा विभक्तः, तत्रप्रथमो भाग एकषष्टि सहनाण्युक्तः द्वितीयस्तु अष्टत्रिंशत्रस्थानकेऽष्टत्रिंशदिति प्रोक्तः, क्षेत्रसमासे तु कन्देन सह लक्षप्रमाणस्त्रिधा विभक्तः, तत्र प्रथमकाण्डं सहस्रं द्वितीयं त्रिषष्टिस्तृतीयं षट्त्रिंशदिति। _ 'चन्द्रमण्डले' चन्द्रविमानं णमित्यलङ्कृतौ ‘एगसहित्ति योजनस्यैकषष्टितमैगिर्विभाजितं-विभागैर्व्यवस्थापितं समांश-समविभागंप्रज्ञप्तं, नविषमांशं, योजनस्यैकषष्टिभागानां षट्पञ्चाशद्भागप्रमाणत्वात्तस्यावशिष्टस्य च भागस्याविद्यमानत्वादिति, ‘एवं सूरस्सवित्ति एवं सूर्यस्यापि मण्डलं वाच्यं, अष्टचत्वारिंशदेकषष्टिभागमात्रं हि तत् न चापरमंशान्तरंतस्याप्यस्तीति समांशतेति। समवायः-६१ समाप्तः (समवायः-६२) मू. (१४०) पंचसंवच्छरिए णं जुगे बासद्धिं पुन्निमाओ बासढि अमावसाओ प० । वासपूजस्स णं अरहओ बासद्धिं गणा बासढि गणहरा होत्था। सुक्कपक्खस्स णं चंदे बासद्धिं भागे दिवसे दिवसे परिवड्डइ, ते चेव बहुलपक्खे दिवसे दिवसे परिहाइ। सोहम्मीसाणेसु कप्पेसु पढमे पत्थडे पढमावलियाए एगमेगाए दिसाए बासढि विमाणा प० सव्वे वेमाणियाणं बासढि विमाणपत्थडा पत्थडग्गेणं प०। वृ.अथ द्विषष्टिस्थानकं, ‘पञ्चे'त्यादि, तत्र युगे त्रयश्चन्द्रसंवत्सरा भवन्ति तेषु षटत्रिंशत् पौर्णामास्यो भवन्ति, द्वौ चाभिवर्द्धितसंवत्सरौ भवतः, तत्र चाभिवर्द्धितसंवत्सरयोदशभिश्चन्द्रमासैर्भवतीति तयोः षड्विंशति पौर्णमास्य इत्येवं द्विषष्टिस्ता भवन्ति इत्येवममावास्या अपीति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy