________________
समवाय: - ६४
९५
अष्टावष्टकानि यतोऽसौ भवत्यतश्चतुःषष्ट्या रात्रिंदिवैः सा पालिता भवति, तथा प्रथमेऽटके प्रतिदिनमेकैका भिक्षा एवं द्वितीये द्वे द्वे यावदष्टमे अष्टावष्टाविति सङ्कलनया द्वे शते भिक्षाणाम, टाशीत्यधिके भवतः अत उक्तं- 'द्वाभ्यां चे' त्यादि यावत्करणात् 'अहाकप्पं अहामग्गं फासिया पालिया सोहिया तीरिया किट्टिया सम्मं आणाए आराहियावि भवति'ति दृश्यं, 'सव्वेविण ' मित्यादि इतोऽष्टमे नन्दीश्वराख्ये द्वीपे पूर्वादिषु दिक्षु चत्वारोऽञ्जनकपर्वता भवन्ति, तेषां च प्रत्येकं चतसृषु दिक्षु चतस्रः पुष्करिण्यो भवन्ति, तासां च मध्यभागेषु प्रत्येकं दधिमुखपर्वता भवन्ति, तेषां च प्रत्येकं चतसृषु दिक्षु चतस्रः पुष्करिण्यो भवन्ति, तासां च मध्यभागेषु प्रत्येकं दधिमुखपर्वता भवन्ति, ते च षोडश पल्यङ्कसंस्थानसंस्थिताः, यतः सर्वत्र समा विष्कम्भेन, मूलादिषु दशसहस्रविष्कम्भत्वात्तेषां, क्वचित्तु 'विक्खंभुस्सेहेणं' ति पाठस्तत्र तृतीयैकवचनलोपदर्शन- द्विष्कम्भेनेति व्याख्येयं, तथा उत्सेधेनोच्चत्वेन चतुःषष्टिश्चतुःषष्टिरिति ।
'सोहम्मी' त्यादि, सौधर्मे द्वात्रिंशदीशानेऽष्टाविंशति ब्रह्मलोके च चत्वारि विमानलक्षाणि भवन्तीति सर्वाणि चतुःषष्टिरिति ।
'चउसट्ठिलट्ठीए'त्ति चतुःषष्टिर्यष्टीनां शरीराणां यस्मिन्नसौ चतुःषष्टियष्टिकः 'मुत्तामणिमये 'ति मुक्ताश्च- मुक्ताफलानि मणयः चन्द्रकान्तादिरत्नविशेषाः मुक्तारूपा वा मणयो- रत्नानि मुक्तामणयस्तद्विकारे मुक्तामणिमयः ।
समवायः - ६४ समाप्तः
समवायः-६५
मू. (१४३) जम्बुद्दीवे णं दीवे पणसट्ठि सूरमंडला प० ।
थेरे णं मोरियपुत्ते पणसट्ठिवासाइं अगारमज्झे वसित्ता मुंडे भवित्ता आगाराओ अनगारियं
पव्वइए ।
सोहम्मवडिंसयस्स णं विमाणस्स एगमेगाए बाहाए पणसट्ठि पणसट्ठि भोमा प० ।
वृ. अथ पञ्चषष्टिस्थानकं, तत्र 'मोरियपुत्ते णं' ति मौर्यपुत्रो भगवतो महावीरस्य सप्तमो गणधरस्तस्य पञ्चषष्टिवर्षाणि गृहस्थपर्यायः, आवश्यकेऽप्येवमेवोक्तो, नवरमेतस्यैव यो बृहत्तरो भ्राता मणिडतपुत्राभिधानः षष्ठो गणधरः तद्दीक्षादिन एव प्रव्रजितस्यस्यावश्यके त्रिपञ्चाशद्वर्षाणि गृहस्थपर्याय उक्तो न च बोधविषयमुपगच्छति यतो बृहत्तरस्य पञ्चषष्टिर्युज्यते लघुतरस्य त्रिपञ्चाशदिति ।
'सोहम्मे 'त्यादि, सौधर्मावतंसकं विमानं सौधर्मदेवलोकस्य मध्यभागवर्त्ति शक्रनिवासभूतं, 'एगमेगाए 'त्ति एकैकस्यां दिशि प्रकाराभ्यर्णवर्त्तीनि भौमानि नगराकाराणि, विशिष्टस्थानानीत्येके । समवायः - ६५ समाप्तः
समवाय:-६६
मू. (१४४) दाहिणड्ढमाणुस्सखेत्ताणं छावट्ठि चंदा पभासिंसु वा ३ छावट्ठि सूरिया तविंसु वा ३ उत्तरढमाणुस्सखेत्ताणं छावट्ठि चंदा पभासिंसु वा ३ छावट्ठि सूरिया तविंसु वा ३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org