SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ८२ समवायाङ्गसूत्रम्-४ः -४२/११८ इत्यत आह-'अबाहाए'त्ति व्यवधानापेक्षया यदन्तरं तदित्यर्थः । 'कालोए ण'न्ति घातकी - खण्डपरिवेष्टके कालोदाभिधाने समुद्रे । 'गइनामे' त्यादि गतिनाम यदुदयान्नारकादित्वेन जीवो व्यपदिश्यते, जातिनाम यदुदयादेकेन्द्रियादिर्भवति, शरीरनाम यदुदयादौदारिकादिशरीरं करोति यदुदयादङ्गानां - शिरःप्रभृतीनां उपाङ्गानां च-अङ्गुल्यादीनां विभागो भवति तच्छरीराङ्गोपाङ्गनाम, तथा औदारिकादिशरीरपुद्गलानां पूर्वबद्धाना बध्यमानानां च सम्बन्धकारणं शरीबन्धननाम, तथा औदारिकादिशरीरपुद्गलानां गृहीतानां यदुदयाच्छरीरचना भवति तच्छरीरसङ्घातनाम, तथाऽस्थां यतस्यथाविधशक्तिनिमित्तभूतो रचनाविशेषो भवति तत्संहनननाम, संस्थानं समचतुरस्रादिलक्षणं यतो भवति तत्संस्थाननाम, तथा यदुदयाद्वर्णादिविशेषवन्ति शरीराणि भवन्ति तद्वर्णादिनाम, तथा यदुदयादगुरुलघुत्वं स्वशरीरस्य जीवानां भवति तदगुरुलघुनाम, तथा यतोऽङ्गावयवः प्रतिजिह्विकादिरात्मोपघातको जायते तदुपघातनाम, तथा यतोऽङ्गावयव एव विषात्मको दंष्ट्रात्वगादि परेषामुपघातको भवति तत्पराघातनाम । तथा यदुदयान्तरालगतौ जीवो याति तदानुपूर्वीनाम, तथा यदुदयादुच्छ्वासनिश्वासनिष्पत्तिर्भवति तदुच्छ्वासनाम, तथा यदुदयाज्जीवस्तापवच्छरीरो भवति तदातपनाम, यथाऽऽदित्यबिम्बपृथिवीकायिकानां तथा यतोऽनुष्णोद्योतवच्छरीरो भवति तदुद्योतनाम, तथा यतः शुभेतरगमनयुक्तो भवति तद्विहायोगतिनाम, त्रसनामादीन्यष्टौ प्रतीतार्थानि, तथा यतः स्थिराणा दन्ताद्यवयवानां निष्पत्तिर्भवति तत्स्थिरनाम, यतश्च भ्रजिहवा - दीनामस्थिराणां निष्पत्तिर्भवति यदस्थिरनाम, तथा शिरःप्रभृतीनां शुभानां तच्छुभनाम, पादादीनामशुभानामशुभनाम इति शेषाणि प्रतितानि, नवरं यदुदयाज्जातौ जातौ जीवदेहेषु स्त्र्यादिलिङ्गाकारनियमो भवति तत्सूत्रधारसमानं निर्माणनामेति 'पच्चमछट्टीओ समाओ 'त्ति दुष्षमा एकान्तदुष्षमा चेत्यर्थः 'पढमबीयाउ' त्ति एकान्तदुष्षमा दुष्षमा चेति । समवायः - ४२ समाप्तः समवायः-४३ मू. (११९) तेयालीसं कम्मविवागज्झयणा प० । पढमचउत्थपंचमासु पुढवीसु तेयालीसं निरयावाससयसहस्सा प० जंबुद्दीवरस णं दीवस्स पुरच्छिमिल्लाओ चरमंताओ गोधूमस्स णं आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एस णं तेयालीसं जोयणसहस्साइं अबाहाए अंतरे प, एवं चउद्दिसिंपि दगभागे संखेदयसीमे । महालियाए णं विमाणपविभत्तीए तइये वग्गे तेयालीसं उद्देसण काला प० । वृ. त्रिचत्वारिंशत्स्थानकेऽपि किञ्चिल्लिख्यते, 'कम्मविवागज्झयण' त्ति कर्म्मणःपुण्यपापात्मकस्य विपाकश्च फलं तत्प्रतिपादकान्यध्ययनानि कर्मविपाकाध्ययनानि, एतानिच एकादशाङ्गद्वितीयाङ्गयोः संभाव्यन्त इति । 'जंबुद्दीवस्स ण' मित्यादि, जंबूद्वीपस्य पौरस्त्यान्तादोस्तूभपर्वतो द्विचत्वारिंशद्योजनानां For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy