________________
समवायः-३४
७५
तत्क्षणमेव अकालहीनमित्यर्थः, पत्रैः संछन्नः पत्रसंछन्नः पत्रसंछन्न इति वक्तव्ये प्राकृतत्वात् संछन्नपत्र इत्युक्तंसचासौ पुष्पपल्लवसमाकुलश्चेति विग्रहः, पल्लवाः-अङ्कुराः, सच्छत्रःसध्वजः सघण्टः सपताकोऽशौकवरपादप इत्येकादशः ११ 'ईसि' ति ईषद्-अल्पं 'पिट्ठओ'त्ति पृष्ठतः पश्चाद्भागे मउडठाणंमित्तिमस्तकप्रदेशे तेजोमण्डलं-प्रभापटलमिति द्वादशः १२बहुसमरमणीयो भूमिभागइति त्रयोदशः १३ 'अहोसिर'त्तिअधोमुखाः कण्टका भवन्तीतिचतुर्दशः १४ ऋतवोऽविपरीताः कथमित्याह-सुखस्पर्शाभवन्तीतिपच्चदशः १५योजनंयावत् क्षेत्रशुद्धिसंवतकवातेनेति षोडशः १६ जुत्तफुसिएणं'ति उचितबिन्दुपातेन 'निहयरयरेणुयंति वातोत्खातमाकाशवर्ति रजो भूवर्ती तु रेणुरिति गन्धोदशवर्षाबिधानः सप्तदशः१७।
जलस्थलजं यद्भास्वरं प्रभूतं च कुसुमं तेन वृत्तस्थायिना-ऊर्ध्वमुखेन दशार्द्धवर्णेनपञ्चवर्णेन जानुनोरुत्सेधस्य-उच्चत्वस्य यत्प्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रः पुष्पोपचारः-पुष्पप्रकरइत्यष्टादशः १८तथा 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमधमधंतगन्धुद्धयाभिरामे भवई' त्ति कालागुरुश्च-गन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कंच-चीडाभिधानं गन्धद्रव्यं तुरुक्कं च-शिल्हकाभिधानंगन्धद्रव्यमितिद्वन्द्वस्ततएतल्लक्षणोयो धूपस्तस्यमधमधायमानो-बहुलसौरभ्यो यो गन्ध उद्धृतः- उद्भूतस्तेनाभिरामं-अभिरमणीयं यत्तत्तथा स्थानं-निषीदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः १९ । तथा “उभयोपासिंचणंअरहंताणंभगवंताणंदुवेजक्खा कडयतुडियथंभियभुयाचामरुक्खेवणंकरंति"त्ति कटकानि-प्रकोष्ठाभरणविशेषाःत्रुटितानिबाह्याभरणविशेषः तैरतिबहुत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यक्षौ-देवाविति विंशतितमः २०, बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाधीयते, अतस्यस्यां पूर्वेऽष्टादशैव, अमनोज्ञानां शब्दादीनाम-पकर्ष-अभाव इत्येकोनविंशतितमः १९ मनोज्ञानांप्रादुर्भाव इति विंशतितमः २०
‘पच्चाहरओत्ति प्रत्याहरतो-व्याकुर्वतोभगवतः हिययगमणीओत्ति हृदयङ्गमः 'जोयणनीहारी'तियोजनातिक्रमीस्वरइत्येकविंशः२१ ‘अद्धमागहीए'त्तिप्राकृतादीनांषन्नांभाषाविशेषाणां मध्ये यामागधी नाम भाषा 'रसोर्लसौ मागध्या मित्यादिलक्षणवती साअसमाश्रितस्वकीयसमग्रलक्षणा-ऽर्द्धमागधीत्युच्यते, तया धर्ममाख्याति, तस्या एवातिकोमलत्वादिति द्वाविंशः २२ । भासिजमाणि'तिभगवताऽभिधीयमाना 'आरियमणारियाणं तिआर्यानार्यदेशोत्पन्नानां द्विपदामनुष्याश्चतुष्पदा-गवादयः ‘मृगा' आटव्याः पशवो' ग्राम्याः पक्षिणःप्रतीताः सरीसृपा-उरःपरिसर्पा भुजपरिसप्पश्चेिति, तेषां किम्?-आत्मन आत्मनः-आत्मीययाआत्मीययेत्यर्थः भाषातयाभाषाभावेन परीणमतीति सम्बन्धः, किम्भूताऽसौ भाषा? इत्याह-हितम्-अभ्युदयः शिवं-मोक्षः सुखंश्रवणकालोद्भवमानन्दं ददातीति हितशिवसुखदेति त्रयोविंशः २३ 'पूर्वबद्धवेरे'त्ति पूर्वभवान्तरेऽनादिकाले वा जातिप्रत्ययं बद्धं-निकाचितं वैरं-अमित्रभावो येषां ते तथा, तेऽपि चासतामन्येदेवावैमानिका असुरानागाश्च-भवनपतिविशेषाः सुवर्णा-शोभनवर्णोपेतत्वाज्योतिष्का यक्षराक्षसकिन्नराः किंपुरुषाः व्यन्तरभेदाः गरुडा-गरुडलाञ्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः, गन्धर्वा महोरगाश्च व्यन्तरविशेषा एव, एतेषा द्वन्द्वः, 'पसंतचित्तमाणसा' प्रशान्तानिशमंगतानि चित्राणिरागद्वेषाद्यनेकविधवि-कारयुक्ततया विविधानि मानसानि-अन्तःकरणानि येषां ते प्रशान्तचित्तमानसा धर्मं निशमयन्ति इति चतुर्विशः २४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org