________________
७६
समवायाङ्गसूत्रम्-३४/११०
बृहद्वाचनायामिदमन्यदतिशयद्वयमधीयते, यदुत-अन्यतीर्थिकप्रावचनिका अपिचणं वन्दन्ते भगवन्ममिति गम्यते इति पञ्चविंशः २५ आगताः सन्तोऽर्हतः पादमूले निष्प्रितिवचना भवन्ति इति षडविंशः २६ 'जओ जओऽवि य णं'ति यत्र यत्रापि च देशे 'तओ तओ'त्ति तत्र तत्रापि च पञ्चविंशती योजनेषु इति-धान्याद्युपद्रवकारी प्रचुरमूषकादिप्राणिगण इति सप्तविंशः २७ मारि-जनमरक इत्यष्टाविंशः २८ स्वचक्रं - स्वकीयराजसैन्यं तदुपद्रवकारि न भवतीति एकोनत्रिंशः २९ एवं परचक्रं परराजसैन्यमिति त्रिंशः ३० अतिवृष्टि- अधिकवर्ष इत्येकत्रिंशः ३१ अनावृष्टि-वर्षणाभाव इति द्वात्रिंशः ३२ दुर्भिक्षं- दुष्काल इति त्रयशिः ३३ 'उप्पाइया वाहि’त्ति उत्पाताः - अनिष्टसूचका रुधिरवृष्टयादयस्तद्धेतुका येऽनर्थास्ते औत्पातिकास्तथा व्याघयोज्वराद्यास्तदुपशमः- अभाव इति चतुशित्तमः ३४ ।
अन्यच्च ‘पञ्च्चाहरओ' इत आरभ्य येऽभिहितास्ते प्रभामण्डलंच कर्मक्षयकृताः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति, एते च यदन्यथापि दृश्यन्ते तन्मतान्तरभवगन्तव्यमिति ।
'चक्कवट्टिविजय'त्ति चक्रवर्तिविजेतव्यानि क्षेत्रखण्डानि 'उक्कोसपए चोत्तीसं तित्थगरा समुप्पज्जंति' त्तिसमुत्पद्यन्ते सम्भवन्तीत्यर्थः न त्वेकसमये जायन्ते, चतुर्णामेवैकदा जन्मसम्भवात्, तथाहि मेरी पूर्वापरशिलातलयोर्द्वे द्वे सिंहासने भवतोऽतो द्वौ द्वावेवाभिषिच्येते अतो द्वयोर्द्वयोरेव जन्मेति, दक्षिणोत्तरयोस्तु क्षेत्रयोस्तदानीं दिवससद्भावात् न भरतैरावतयोर्जिनोत्पत्तिरर्द्धरात्र एव जिनोत्पत्तेरिति ।
'पढमे 'त्यादि प्रथमायां पृथिव्यां त्रिंशन्नरकावासानां लक्षाणि पञ्चम्यां त्रीणिषष्ठया पञ्च्चोनं लक्षणं सप्तम्यां पच्च नरकाः, एवं सर्वमीलने चतुस्त्रिंशल्लक्षाणि भवन्तीति ।
समवायः - ३४ समाप्तः
होत्था ।
समवायः-३५
मू. (१११) पणतीसं सच्चवयणाइसेसा प, कुंथू णं अरहा पणतीसं धणूइं उड्डुं उच्चत्तेणं
दत्ते णं वासुदेवे पणतीसं धणूई उड्डुं उच्चत्तेणं होत्था, नंदणे णं बलदेवे पणतीस धणूइं उड्ड उच्चत्तेणं होत्था ।
सोहम्मे कप्पे सुहम्माए सभाए माणवए चेइयक्खंभे हेट्ठा उवरिं च अद्धतेरस अद्धतेरस जोयणाणि वज्जेत्ता मज्झे पणतीस जोयणेसु वइरामएस गोलवट्टसमुग्गएसु जिणसकहाओ प० बितिय उत्थीसु दोसु पुढवीसु पणतीसं निरयावाससयसहस्सा प० ।
वृ. पच्चत्रिशत्तमस्थानकं सुगमं । नवरं सत्यवचनातिशया आगमे न दृष्टाः, एते तु ग्रन्थान्तरध्ष्टाः सम्भाविताः, वचनं हि गुणवद्वक्तव्यं, तद्यथा-संस्कारवत् १ उदात्तं २ उपचारोपेतं ३ गम्भीरशब्दं ४ अनुनादि ५ दक्षिणं ६ उपनीतरागं ७ महार्थं ८ अव्याहतपौर्वापर्यं ९ शिष्टं १० असन्दिग्धं ११ अपहतान्योत्तरं १२ हृदयग्राहि १३ देशकालाव्यतीतं १४ तत्तवानुरूपं १५ अप्रकीर्णप्रसृतं १६ अन्योऽन्यप्रगृहीतं १७ । अभिजातं १८ अतिस्निग्धमधुरं १९ अपरमर्मविद्धं २० अर्थधर्माभ्यासानपेतं २ १ उदारं २२ परनिन्दात्मोत्कर्षिप्रयुक्तं २३ उपगतश्लाघं २४ अनपनीतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org