SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ समवायः - ३० तेषा मबोधिस्तत्कृतेति स एवम्भूतो महामोहं प्रकरोतीति पचविंशतितमं २५ । जे कहाहिगरणाई संपउंजे पुणो पुणो । सव्वतित्थाण भेयाणं, महामोहं पकुव्वइ ॥ मू. (९४) ६७ वृ. कथा-वाक्यप्रबन्धः शास्त्रमित्यर्थस्तद्रूपाण्यधिकरणानि कथाधिकरणानि -कौटिल्यशास्त्रादीनि प्राण्युपमर्दनप्रवर्त्तकत्वेन तेषामात्मनो दुर्गताविधाकारित्वकरणात्, कथया वा क्षेत्राणि कृषत गामसूयतेत्यादिकया अधिकरणानि तथाविधप्रवृत्तिरूपाणि, अथवा कथा - राजकथादिका अधिकरणानिच-यन्त्रादीनि कलहा वा कथाधिकरणानि तानि सम्प्रयुक्ते पुनः पुनः एवं 'सर्वतीर्थभेदाय' संसारसागरतरणकारणत्वात् तीर्थानि ज्ञानादीनि तेषां सर्वथा नाशाय प्रवर्त्तमानः स महामोहं प्रकरोतीति षडविंशतितमं २६ । मू. (९५) जे अ आहम्मिए जोए, संपओजे पुणो पुणो । सहाहेउं सहीहेउं, महामोहं पकुव्वइ ॥ वृ. 'जे य आहम्मिए' कण्ठयम्, नवरं अधार्मिकयोगा-निमित्तवशीकरणादिप्रयोगाः किमर्थं ? - श्लाधाहेतोः - मित्रनिमित्तमित्यर्थः इति सप्तविंशतितमं २७ । मू. (९६) जे अ माणुस्सए भोए, अदुवा पारलोइए । तेऽतिप्पयंतो आसयइ, महामोहं पकुव्वइ ॥ वृ. यश्च मानुष्यकान् भोगान् अथवा पारलौकिकान् 'ते' त्ति विभक्तिपरिणामात्तैस्तेषु वा अतृप्यन्-तृप्तिमगच्छन् ‘आस्वादते' अभिलषति आश्रयति वा स महामोहं प्रकरोतीति अष्टाविंशतितमं २८ । मू. (९७) इड्डी जुई जसो वन्नो, देवाणं बलवीरियं । तेसिं अवन्नवं बाले, महामोहं पकुव्वइ ॥ वृ. ऋद्धिः -विमानादिसम्पत् द्युतिः - शरीराभरणदीप्ति यशः कीर्ति वर्ण- शुक्लादि शरीरसम्बन्धी देवानां वैमानिकादीनां बलं शारीरं वीर्यं जीवप्रभवं अस्तीत्यध्याहारः, तेषामिह अपेर्गम्यमानत्वात् तेषामपि देवानामनेकातिशायिगुणवतामवर्णवान्-अश्लाघाकारी अथवा ‘अवर्णवान्' केनोल्लापेन देवानामृद्धिर्देवाना द्युतिरित्यादि क्वा व्याख्येयं न किच्चिद्देवानामृदध्यादिकमस्तीत्यवर्णवादवाक्य- भावार्थ य एवम्भूतः स महामोहं प्रकरोतीति एकोनत्रिंशत्तमं २९ । मू. (९८) अपस्समाणो पस्सामि, देवे जक्खे य गुज्झगे। अन्नाणी जिणपूयट्टी, महामोहं पकुव्वइ ।। वृ. अपश्यनपि यो ब्रूते पश्यामि देवानित्यादिस्वरूपेण, अज्ञानी जिनस्येव पूजामर्थयते यः स जिनपूजार्थी, गोशालकवत्, स महामोहं प्रकरोतीति त्रिंशत्तमम् ३० । मू. (९९) थेरे णं मंडियपुत्ते तीसं वासाई सामन्नपरियायं पाउणित्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे । एगमेगेणं अहोरत्ते तीसमुहुत्ते मुहुत्तग्गेणं प०, एएसि णं तीसाए मुहुत्ताणं तीसं नामधेज्जा प० तं०-रोद्दे सत्ते मित्ते वाऊ सुपीए ५ अभिचंदे माहिंदे पलंबे बंभे सच्चे १० आणंदे विजए विस्ससेणे पायावच्चे उवसमे १५ ईसाणे तठ्ठे भाविअप्पा वेसमणे वरुणे २० सतरिसभे गंधव्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy