SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ५४ समवायाङ्गसूत्रम्-२४/५४ वर्षधराणां ऋज्वी सीमा जीवोच्यते, आरोपितज्याधनुर्जीवाकल्पत्वात्, तयोश्च लघुहिमवच्छिखरिसत्कयोः प्रमाणं २४९३२ अष्टत्रिंशद्भागश्च योजनस्य किचिद्विशेषाधिकः, अत्र गाथा - 119 11 'चउवीस सहस्साई नव य सए जोयणाण बत्तीसे । चुल्लहिमवंतजीवा आयामेणं कलद्धं च ॥ कलार्द्धमिति-एकोनविंशतिभागस्यार्द्ध, तच्चाष्टत्रिंशद्भाग एव भवतीति । चतुर्विंशतिर्देवस्थानानि-देवभेदाः, दश भवनपतीनां, अष्टौ व्यन्तराणां, पञ्च ज्योतिष्कानां, एकं कल्पोपपन्नवैमानिकानां, एवं चतुर्विंशति, सेन्द्राणि चमरेन्द्राद्यधिष्ठितानि शेषाणि च ग्रैवेयकानुत्तरसुरलक्षणानि अहं अहं इत्येवमिन्द्रा येषु तान्यमिन्द्राणि, प्रत्यात्मेन्द्रकाणीत्यर्थः । अत एव अनिन्द्राणि-अविद्यमाननायकानि अपुरोहितानि - अविद्यमानशान्तिकर्मकारीणि, उपलक्षणपरत्वादस्याविद्यमानसेवकजनानीति, तथोत्तरायणगतः सर्वाभ्यन्तरमण्डलप्रविष्टः सूर्यकर्कसङक्रान्तिदिन इत्यर्थः । चतुर्विंशत्यङ्गुलिकां पौरुष्यां प्रहरे भवा छाया पौरुषीया तां छाया हस्तप्रमाणशङ्कोरिति गम्यते, 'निर्वर्त्य' कृत्वा णं वाक्यालङ्कारे 'निवर्तते' सर्वाभ्यन्तरमण्डलात् द्वितीयमण्डलमागच्छति, आह च-'आसाढमासे दुपये' त्यादि । ‘पहव' इति यतः स्थानान्नदी प्रवहति - वोढुं प्रवर्त्तते, स च पद्मदात्तोरणेन निर्गम इह सम्भाव्यते, न पुनर्योऽन्यत्र प्रवहशब्देन मकरमुखप्रणालनिर्गमः प्रपातकुण्डनिर्गमो वा विवक्षितः, तत्र हि जंबूद्वीपप्रज्ञप्तयामिह च पञ्चविंशतिक्रोशप्रमाणा गङ्गादिनद्यो विस्तारतोऽभिहिताः । समवायः - २४ समाप्तः समवाय: - २५ मू. (५५) पुरिमपच्छिमगाणं तित्थगरणं पंचजामस्स पणवीसं भावणाओ पन्नत्ता, तं०ईरिआसमिई मणगुत्ती वयगुत्ती आलोयभायणभोयणं आदानमंडमत्तनिक्खेवणासमिई ५ अणुवीतिभासणया कोहविवेगे लोभविवेगे भयविवेगे हासविवेगे ५ उग्गहअणुन्नवणया उग्गहसीमजाणणया सयमेव उग्गहं अणुगिण्हणया साहम्मियउग्गहं अणुन्नविय परिभुंजणया साहारणभत्तपाणं अणुन्नविय पडिभुंजणया ५ इत्थीपसुपंडगसंसत्तगसयणासणवज्जणया इत्थीकहविवज्जणया इत्थीणं इंदियाणमालोयणवज्जणया पुव्वरयपुव्वकीलिआणं अणणुसरणया पणीताहारविवज्रणया ५ सोइंदियरागोवरई चक्खिदियरागोवरई धाणिदियरागोवरई जिब्भिदियरागोवरई फासिंदियरागोवरई ५ । मल्ली णं अरहा पणवीसं धणु उहुं उच्चत्तेणं होत्था, सव्वेवि दीहवेयङ्कपव्वया पणवीसं जोयणाणि उडुं उच्चत्तेणं प० पणवीसं पणवीसं गाऊआणि उव्विद्धेणं प०, दोच्चाए णं पुढवीए पणवीसं निरयावाससयसहस्सा प०। आयारस्स णं भगवओ सचूलिआयस्स पणवीसं अज्झयणा प० तं० । वृ. पञ्चविंशतिस्थानकमपि सुबोधं, नवरमिह स्थितेरर्वाग्नव सूत्राणि, तत्र “पंचजामस्सत्ति पच्चानां यामानां महाव्रतानां समाहारः पच्चयामं तस्य 'भावणाओ 'त्ति प्राणातिपातादि For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy