________________
समवाय:- १७
॥६॥
॥७॥
112 11
अनुवेलंधरवासा लवणे विदिसासु संठिआ चउरो । कक्कोडे १ विजुप्प २ केलास ३ ऽरुणप्पभे ४ चेव ॥ कक्कोडय कद्दमए केलासऽ रुप्पमेत्थ (नाग) रायाणो । बायालीससहस्से गंतुं उयहिंमि सव्वेवि ॥ चत्तारि य जोयणसए तीसे कोसं च उग्गया भूमी । सत्तरस जोयणसए इगवीसे ऊसिआ सव्वे । । त्ति
४३
‘चारणाणं’ति जङ्घाचारणानां विद्याचारणानां च 'तिरिअ' त्ति तिर्यग् रुचकादिद्वीपगमनायेति, तिगिञ्छिकूट उत्पातपर्वतो यत्रागत्य मनुष्यक्षेत्राभिगमनायोत्पतति, स चेतोऽसङख्याततमेऽरुणोदयसमुद्रेर दक्षिणतो द्विचत्वारिंशतं योजनसहस्राण्यतिक्रम्य भवति, रुचकेन्द्रोत्पातपर्वत- स्त्वरुणोदयसमुद्र एव उत्तरतो एवमेव भवतीति ।
'आवीईमरणे' त्ति आ समन्ताद्वीचय इव वीचयः - आयुर्दलिकविच्युतिलक्षणावस्था यस्मिंस्तदावीचि अथवा वीचि - विच्छेदस्तदभावादवीचि, दीर्घत्वं तु प्राकृतत्वात्तदेवंभूतं मरणमावीचिमरणं-प्रतिक्षणमायुर्द्रव्यविचटनलक्षणं, तथाऽवधिः मर्यादा तेन मरणमवधिमरणं, यानि हि नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते यदि पुनस्तान्येवानुभूय मरिष्यति तदा तदवधिमरणमुच्यते, तद्रव्यापेक्षया पुनस्तदग्रहणावधिं यावज्जीवस्य मृतत्वादिति, तथा ‘आयंतियमरणे’त्तिआत्यन्तिकमरणं यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय मरिष्यतीति, एवं यन्मरणं तद्व्यापेक्षया अत्यन्तभावित्वादात्यन्तिकमिति, 'वलायमरणे' त्ति संयमयोगेभ्यो वलतां भग्नव्रतपरिणतीना व्रतिनां मरणं वलन्मरणं तथा वशेनइन्द्रियविषयपारतन्त्रयेण ऋता बाधिता वशार्त्ताः स्निग्धदीपकलिकावलोकनात् शलभवत् तथाऽन्तः - मध्ये मनसीत्यर्थः शल्यमिव शल्यमपराधपदं यस्य सोऽन्तः शल्यो- लज्जाभिमानादिभिरनालोचितातीचारस्तस्य मरणम् अन्तःशल्यमरणं ।
तथा यस्मिन् भवे-तिर्यगमनुष्यभवलक्षणे वर्त्तते जन्तुस्तुद्भवयोग्यमेवायुर्बद्धा पुनः तत्क्षयेण म्रियमाणस्य यद्भवति तत्तद्भवमरणं, एतच्च तिर्यगमनुष्याणामेव न देवनारकाणां तेषां तेष्वेवोत्पादाभावदिति, तथा बालाइव बालाः-अविरतास्तेषां मरणं बालमरण, तथा पण्डिताःसर्वविरतास्तेषां मरण पण्डितमरणम्, बालपण्डिताः- देशविरतास्तेषां मरणं बालपण्डितमरणं, तथा छद्मस्थमरणम्- अकेवलिमरणं, केवलिमरणं तु प्रतीतं, 'वेहासमरणं' ति विहायसि - व्योमनि भवं वैहायसं, विहायोभवत्वं च तस्य वृक्षशाखाद्युद्धद्धत्वे सति भावात्, तथा गृद्धैः पक्षिविशेषैरुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च स्पृष्टं-स्पर्शन यस्मिंस्तद्गृध्रस्पृष्टम् अथवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि यत्र तद्गृघ्रपृष्ठम्, इदंच करिकरभादिशरीरमध्यपातादिना गृध्रादिभिरात्मानं भक्षयतो महासत्त्वस्य भवति, तथा भक्तस्य-भोजनस्य यावज्जीवं प्रत्याख्यानं यस्मिंस्तत्तथा इदं च त्रिविधाहारस्य चतुर्विधाहारस्य वा नियमरूपं सप्रतिकर्म च भक्तपरिज्ञेति यद्रूढम्, तथा इङ्ग्यते प्रतिनियतदेश एव चेष्टयतेऽस्यामनशनक्रियायामितीङ्गिनी तथा मरणमिङ्गिनीमरणम्, तद्धि चतुर्विधाहारप्रतयाख्यातुर्निष्प्रतिकर्मशरीर स्येङ्गितदेशाभ्यन्तरवर्त्तिन एवेति, तथा पादपस्येवोपगमनम्-अवस्थानं यस्मिन् तत्पादपोपगमनं तदेव मरणमिति विग्रहः, इदं च यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org