SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३८ 119 11 समवायाङ्गसूत्रम्-१५/३५ 'किण्हं राहुविमाणं निच्चं चंदेण होइ अविरहिअं । चउरंगुलमप्पत्तं ट्ठा चंदस्स तं चरइ ॥ त्ति ततोऽसौ ध्रुवराहुः 'ण' मित्यलङ्कारे बहुलपक्षस्य प्रतीतस्य 'पाडिवयं' ति प्रतिपदं - प्रथमतिथिमादौ कृत्वेति वाक्यशेषः पञ्चदशभागं पञ्चदशभागेनेति वीप्सायां द्विर्वचनादि यथा पदं पदेन गच्छतीत्यादिषु, प्रतिदिनं पञ्चदशभागं पञ्चदशभागमिति भावः, चन्द्रस्य प्रतीतस्य श्यामिति लेश्या - दीप्तिस्तत्कारणत्वात् मण्डलं लेश्या तामावृत्य- आच्छाद्य तिष्ठति, एतदेव दर्शयन्नाह-‘तद्यथे’त्यादि 'पढमाइ' त्ति प्रथमायां तिथ्यां प्रथमं भागं पच्चदशंशालक्षणं चन्द्रलेश्याया आवृत्य तिष्ठतीति प्रक्रमः, अनेन क्रमेण यावत् 'पढमाइ' त्ति प्रथमायां तिथ्यां प्रथमं भागं पच्चदशांशलक्षणं चन्द्रलेश्याया आवृत्य तिष्ठतीति प्रक्रमः, अनेन क्रमेण यावत् 'पन्नरसेसु' त्ति पञ्चदशसुदिनेषु पञ्चदसं पञ्चदशभागमावृत्य तिष्ठति, 'तं चेव'त्ति तमेव पञ्चदशभागं शुक्लपक्षस्य प्रतिपदादिषु चन्द्रलेश्याया उपदर्शयन् २- पच्चदशभागतः स्वयमपसरणतः प्रकटयन् प्रकटयन् तिष्ठति ध्रुवराहुरिति । इह चायं भावार्थं षोडशभागीकृतस्य चन्द्रस्य षोडशभागोऽवस्थित एवास्ते, ये चान्ये भागास्तान् राहुः प्रतिदिनमेकैकं भागं कृष्णपक्षे आवृणोति शुक्लपक्षे तु विमुच्चतीति, उक्तं च ज्योतिष्करण्डके || 9 || 'सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं । तत्तियमेत्ते भागे पुणोवि परिवहई जोण्हा ॥ इति, ननुचन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वात् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं पञ्चदशैर्दिनैश्चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात्? इति, अत्रोच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमिति प्रमाणं तव्यायिकमिति राहोर्ग्रहस्य योजनप्रमाणमपि विमानं सम्भाव्यते, लघीयसोऽपि वा राहुविमानस्य महता तमिरश्मिजालेन तस्यावरणान्न दोष इति । तथा षड् नक्षत्राणि पञ्चदश मुहूर्तान् यावच्चन्द्रेण सह संयोगो येषा तानि पञ्चदश- मुहूर्त्तसंयोगानि, तद्यथा - 119 11 'सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य । एएछन्नक्खत्तापन्नरसमुहुत्तसंजुत्ता ॥ Jain Education International संयुक्तं संयोग इति, तथा 'चेत्तासोएसु मासेसु' त्ति, स्थूलन्यायमाश्रित्य चैत्रेऽश्वयुजि च मासे पच्चदशमुहूर्ती दिवसो भवति रात्रिश्च निश्चयतस्तु मेषसङ्क्रान्तिदिने तुलासंक्रान्तिदिने चैवं दृश्यमिति । पू. (३६) सतभिसय भरणि अद्दास असलेसा साई तहा जेट्ठा । एते छन्नक्खत्तापन्नरसमुहुत्तसंजुत्ता ॥ चेत्तासोएसु णं मासेसु पनरसमुहुत्तो दिवसो भवति, एवं चेत्तमासेसु पन्नरसमुहुत्ता राई भवति । विज्जा अणुप्पवायस्स णं पुव्वस्स पन्नरस वत्थू पन्नत्ता । मू. (३७) मणूसाणं पन्नरसविहे पओगे प० तं० - सच्चमणपओगे मोसमणपओगे सच्चमोसमणपओगे असच्चामोसमणपओगे सच्चवइपओगे मोसवइपओगे सच्चमोसवइपओगे For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy