________________
समवाय:- १५
नारकान् कदर्थयन्तीति, तत्रांबेत्यादि श्लोकद्वयं एते च व्यापारभेदेन पच्चदश भवन्ति । अंबे अंबरिसी चेव, सामे सबलेत्ति आवरे । रुद्दोवरुद्दकाले अ, महाकालेत्ति आवरे ।।
मू. (३३)
वृ तत्र 'अंबे' त्ति यः परमाधार्मिकदेवो नारकान् हन्ति पातयति बध्नाति नीत्वा चाम्बरतले विमुच्चति सोऽम्ब इत्यभिधीयते १, 'अम्बरिसी चेव' त्ति यस्तु नारकान्निहतान् कल्पनिकाभिः खण्डशः कल्पयित्वा भ्राष्ट्रपाकयोग्यान् करोति सोऽम्बरिषीति २, 'सामे' त्तियस्तु रज्जुहस्तप्रहारादिना शातनपातनादि करोति वर्णतश्च श्यामः स श्याम इति ३, 'सबलेत्ति यावरे' त्ति शबल इति चापरः परमाधार्मिक इति प्रक्रमः, स चान्त्रवसाहृदयकालेयकादीन्युत्पाटयति वर्णतश्च शबलः कर्बुर इत्यर्थः ४, 'रुद्दोवरुद्दे'त यः शक्तिकुन्तादिषुनारकान् प्रोतयति स रौद्रत्वाद्रौद्र इति ५, यस्तु तेषामङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति ६, 'काले' त्ति यः कण्ड्वादिषु पचति वर्णतः कालश्च स कालः ७, महाकाल इति चापरः परमाधार्मिक इति प्रक्रमः, स च श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकाल इति ८ ।
मू. (३४)
असिपत्ते धनु कुम्भे, वालुए वेअरणीति अ ।
खरस्सरे महाघोसे, एते पन्नरसाहिआ ॥
वृ. 'असिपत्ते' त्ति असिः खङ्गस्तदाकारपत्रवद्वनं विकुर्व्य यस्तत्समाश्रितान् नारकानसिपत्रपातनेन तिलशश्छिनत्ति सोऽसिपत्रः ९, 'धनु' त्ति यो धनुर्विमुक्तार्द्धचन्द्रादिबाणैः कर्णादीनां छेदन- भेदनादि करोति स धनुरिति १०, 'कुंभे 'त्ति यः कुम्भादिषु तान् पचति स कुम्भः ११, 'वालु'त्ति यः कदम्बपुष्पाकारासु वज्राकारासु वैक्रियवालुकासु तप्तासु चणकानिव तान् पचति स वालुका इति १२, 'वेयरणी इय'त्ति वैतरणीति च परमाधार्मिकः, स च पूयरुधिरत्र - पुताम्रादिभिरतिता- पात्कलकलायमानैर्भृतां विरूपं तरणं प्रयोजनमस्या इति वैतरणीति यथार्थां नदीं विकुर्व्य तत्तारणेन कदर्थयति नारकानिति १३, 'खरस्सरे' त्ति यो वज्रकण्टकाकुलं शाल्मलीवृक्षं नारकमारोप्य खरस्वरं कुर्वन्तं कुर्वन् वा कर्षति स खरस्वर इति १४, 'महाघोस' त्ति यो भीतान् पलायमानान् नारकान् पशूनिव वाटकेषु महाघोषं कुर्वन्निरुणद्धि स महाघोष इति १५, 'एवमेव पन्नरसाहिय'त्ति 'एव' मित्यम्बादिक्रमेणैते परमाधार्मिकाः पच्चदशाख्याताः कथिता जिनैरिति । मू. (३५) नमी णं अरहा पन्नरस घणूइं उड्डुं उच्चत्तेणं होत्था ।
३७
घुवराहू णं बहुलपक्खस्स पडिवए पन्नरसभागं पन्नरसभागेणं चंदस्स लेसं आवरेत्ताणं चिट्ठति, तंजहा- पढमाए पढमं भागं बीआए दुभागं तइआए तिभागं चउत्थीए चउमागं पञ्चमीए पच्चभागं छट्टीए छभागं सत्तमीए सत्तभागं अट्ठमीए अट्ठभागं नवमीए नवभागं दसमीए दसभागं एक्कारसीए एक्कारसभागं बारसीए बारसभागं तेरसीए तेरसभागं चउद्दसीए चउद्दसभागं पन्नरसेसु पन्नरसभागं, ते चेव सुक्कपक्खस्स य उवदंसेमाणे उवदंसेमाणे चिट्ठति, तंजहा- पढमाए पढमं भागं जाव पन्नरसेसु पन्नरसभागं, छ नक्खत्ता पन्नरसमुहुत्तसंजुत्ता प० तं० ।
वृ. 'धुवराहू ण' मित्यादि, द्विविधो राहुः भवति-पर्वराहुध्रुवराहुश्च तत्र यः पर्वणिपौर्णमास्याममावास्यायां वा चन्द्रादित्ययोरुपरागं करोति स पर्वराहुः, यस्तु चन्द्रस्य सदैव सन्निहितः
सच्चरति स ध्रुवराहुः, आह च
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org