________________
समवायाङ्गसूत्रम्-१४/३१
२८
मोहनीयविशेषः, तथा 'सासायणसम्मदिहि'त्ति सहेषत्तवश्रद्धानरसास्वादनेन वर्तते इति सास्वादनः,घण्टालालान्यायेन प्रायःपरित्यक्तसम्यकत्वः तदुत्तरकालं षडावलिकः,तथा चोक्तम् ॥१॥ “उवसमसंमत्ताओ चयओ मिच्छं अपावमाणस्स।
सासायणसंमत्तं तदंतरालंमि छावलियं ॥ इति सास्वादनश्चासौ सम्यग्दृष्टिश्चेति विग्रहः, 'सम्मामिच्छदिट्ठि'त्ति सम्यक् च मिथ्या च दष्टिरस्येति सम्यग्मिथ्याष्टि-उदितदर्शनमोहनीयविशेषः, तथाऽविरतसम्यग्दृष्टिर्देशविरतिरहितः विरताविरतो-देशविरतः श्रावक इत्यर्थः,प्रमत्तसंयतः-किच्चियादवान् सर्वविरतः,अप्रमत्तसंयतःसर्वप्रमारहितः सएव, नियट्टी' इह क्षपकश्रेणिमुपशमश्रेणिवा प्रतिपन्नोजीवः क्षीणदर्शनसप्तक उपशान्तदर्शनसप्तको वा निवृत्तिबादर उच्यते, तत्र निवृत्तिः-यदुणस्थानकं समकालप्रतिपन्नानां जीवानामध्यवसायभेदः तप्रधानो बादरो-बादरसम्परायो निवृत्तिबादरः, 'अनियट्टिबायरे'त्ति अनिवृत्तिबादरः, स च कषायाष्टकक्षपणारम्भान्नपुंसकवेदोपशमनारम्भाच्चारभ्य बादरलोभखण्डक्षपणोपशमने यावद्भवतीति, 'सुहुमसंपराए'त्ति सूक्ष्मः-सञ्जवलनलोभासङ्खयेयखण्डरूपः सम्परायः-कषायो यस्य स सूक्ष्मसम्परायो-लोभानुवेदक इत्यर्थः ।
अयं च द्विवध इत्याह-उपशमको वा-उपशमेणीप्रतिपन्नः क्षपको वा-क्षपकश्रेणिप्रतिपन्न इति दशमं जीवस्थानमिति, तथा उपशान्तः-सर्वथानुदयावस्थो मोहो-मोहनीयं कर्म यस्य स उपशान्तमोहः, उपशमवीतरागइत्यर्थः, अयं चोपशमश्रेणिसमाप्तावन्तर्मुहूर्तंभवति, ततः प्रच्यवत एवेति,तथा क्षीणो-निःसत्ताकीभूतोमोहोयस्यसतथा, क्षयवीतराग इत्यर्थ, अयमप्यन्तर्मुहूर्तमेवेति, तथा सयोगी केवली-मनःप्रभृतिव्यापारवान् केवलज्ञानीति, तथाऽयोगी केवली-निरुद्धमनःप्रभृतियोगः शैलेशीगतो इस्वपञ्चाक्षरोद्गिरणमात्रं कां यावदिति चतुर्दशं जीवस्थानमिति। .
_ 'भरहे' इत्यादि, भरतैरावतयोर्जीवा, इह भरतमैरवतं चारोपितगुणकोदण्डाकारं यतस्य योर्जीवे भवतः, तत्र भरतस्य हिमवतोऽर्वागनन्तरप्रदेशश्रेणिर्जीवा एरावतस्य च शिखरिणः परतोऽनन्तरप्रदेशश्रेणीति भरतैरावतजीवा।
चाउरंतचक्कवट्टिस्स'त्ति चत्वारोऽन्ता-विभागा यस्यां सा चतुरन्ता भूमि तत्र भवः स्वामितयेति चातुरन्तः स चासौ चक्रवर्ती चेति विग्रहः, रत्लानि-स्वजातीयमध्ये समुत्कर्षवन्ति वस्तूनीति, यदाह-"रत्नं निगद्यते तज्जातौ जातौ यदुत्कृष्ट" मिति, 'गाहावइत्ति गृहपतिःकोष्ठागारिकः 'पुरोहिय-'त्तिपुरोहितः-शान्तिकर्मादिकारी ‘वड्डइत्ति वर्द्धकिः-रथादिनिर्मापयिता मणि-पृथिवापरिणामः काकिणी-सुवर्णमयी अधिकरणीसंस्थानेति, इह सप्ताद्यानि पञ्चेन्द्रियाणि शेषाण्येकेन्द्रियाणीति, श्रीकान्तमित्यादीन्यष्टौ विमाननामानीति ।
समवायः - १४ समाप्तः
(समवायः-१५) मू. (३२)
पन्नरस परमाहम्मिआ प० तं०। वृ. अथ पच्चदशस्थानके सुगमेऽपि किच्चिल्लिख्यते, इह स्थितेराक् सप्त सूत्राणि, तत्र परमाश्च तेऽधार्मिकाश्च संक्लिष्टपरिणामत्वात्परमाधार्मिकाः-असुरविशेषाः, येतिसृषु पृथिवीषु Jain Education International For Private & Personal Use Only
www.jainelibrary.org