SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ समवायः - १२ चतुर्थी, सा चोत्सर्गकथा द्रव्यास्तिकनयकथा वा, तथा निश्चयकथा पञ्चमी, सा चापवादकथा पर्यायास्तिकनयकथा वेति, तत्राद्यास्तिः कथाः श्रमणीवर्जे सह करोति, श्रमणीभिस्तु सह कुर्वन् प्रायश्चित्ती, चतुर्थवेलायां चालोचयन्नपि विसम्भोगार्ह इति रूपकद्वयस्य संक्षेपार्थ विस्तरार्थस्तु निशीथपञ्चमोद्देशक भाष्यादवसेय इति । ३१ मू. (२३) दुवालसावत्ते कितिकम्मे ष० तं० - वृ. तथा 'दुवालसावत्ते किइकम्मे' त्ति द्वादशावर्त कृतिकर्म-वन्दनकं प्रज्ञप्तं, द्वादशावर्त्ततामेवास्यानुवदन् शेषांश्च तद्धर्मानभिधित्सुः रूपकमाह मू. (२४) दुओणयं जहाजायं, कितिकम्मं बारसावयं । चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं ॥ वृ. 'दुओए' त्यादि, अवनतिरवनतम् उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिंस्तद्वयवनतं, तत्रैकं यदा प्रथममेव 'इच्छामि खमासमणो! वंदिउं जावणिज्जाए निसीहियाए 'त्ति अभिधायावग्रहानुज्ञापनायावनमतीति, द्वितीयं पुनर्यदाऽवग्रहानुज्ञापनायैवावनमतीति, यथा जातं-श्रमणत्वभवनलक्षणं जन्माश्रित्य योनिनिष्क्रमणलक्षणं च तत्र रजोहरणमुखवस्त्रिकाचोलपट्टमात्रया श्रमणो जातो रचितकरपुटस्तु योन्या निर्गत एवंभूत एव वन्दते तदव्यतिरेकाद्वा यथाजातं भण्यते, कृतिकर्म-वन्दनकं 'बारसावयं' ति द्वादशावत्ता:-सूत्राभिधानगर्भा कायव्यापारविशेषाः यतिजनप्रसिद्धा यस्मिंस्तद् द्वादशावर्त्त, तथा 'चउसिरं 'ति चत्वारि शिरांसि यस्मिंस्तचतुः शिरः प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयं पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना । तथा 'तिगुत्तं' ति तिसृभिर्गुप्तिभिर्गुप्तः पाठान्तरेऽपि तिसृभिः (श्रद्धाभिः) गुप्तिभिरेवेति, तथा 'दुपवेसं 'ति द्वौ प्रवेशौ यस्मिंस्तद् द्विप्रवेशं तत्र प्रथमोऽवग्रहमनुज्ञाप्य प्रविशतो द्वितीयः पुनर्निर्गत्य प्रविशत इति, 'एगनिक्खमणं' ति एकं निष्क्रमणमवग्रहादावश्यिक्या निर्गच्छतः, द्वितीयवेलायां ह्यवग्रहान्न निर्गच्छति, पादपतित एव सूत्रं समापयतीति । मू. (२५) विजया णं रायहाणी दुवालस जोयणसयसहस्साइं आयामविक्खंभेणं पन्नत्ता रामेणं बलदेवे दुवालस वाससयाइं सव्वाउयं पालित्ता देवत्तं गए। मंदरस्स णं पव्वयस्स चूलिआ मूले दुवालस जोयणाइं विक्खंभेणं पन्नत्ता । जंबूदीवस्स णं दीवस्स वेइआ मूले दुवालस जोयणाइं विक्खभेणं पन्नत्ता, सव्वजहनिआ राई दुवालसमुहुत्तिआ पत्रत्ता, एवंदिवसोऽवि नायव्वो । सव्वट्टसिद्धस्स णं महाविमापास्स उवरिल्लाओ थुभिअग्गाओ दुवालस जोयणाई उद्धं उप्पइआ ईसिपब्भारनामपुढवी पन्नत्ता । इसिपब्भाराए णं पुढवीए दुवालस नामघेज्जा पन्नत्ता, तंजहा - ईसित्ति वा इसिपब्भाराति वा तणूइ वा तणूयतरित्ति वा सिद्धित्ति वा सिद्धालएत्ति वा मुत्तीति वा मुत्तालएत्ति वा बंभेत्ति वा बंभवडिसएत्ति वा लोकपडिपूरणेत्ति वा लोगग्गचूलिआइ वा, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइ आणं नेरइयाणं बारस पनिओवमाई ठिई प०, पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणं बारस सागरोवमाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं देवाणं बारस सागरोवमाइं ठिई प० For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy