________________
समवायाङ्गसूत्रम्-१२/२१
पार्श्वस्थादेः कुर्वस्तथैवासम्भोग्यः, उपलक्षणत्वादभ्युत्थानस्य किङ्गरतां च प्राघूर्णकग्लानाद्यवस्थायं किं विश्रामणाद करोमीतयेवंप्रश्नलक्षणां तथाऽम्यासकरणं-पार्श्वस्थादिधर्माच्युतस्य पुनस्तत्रैव संस्थापनलक्षणं, तथा अविभक्तिं च-अपृथग्भावलक्षणां कुर्वन्नशुद्धोऽसम्भोग्यश्चापि, एतान्येव यथाऽऽगमं कुर्वन् शुद्धः सम्भोग्यश्चेति ।
मू. (२२)
किअकम्मरस य करणे, वेयावच्चकरणे इअ । समोसरणं संनिसिज्जा य, कहाए अ पबन्धणे ॥
३०
वृ. तथा 'किइकम्मरस य करणे' त्ति कृतिकरम्-वन्दनकं तस्य करणं-विधानं तद्विधिना कुर्वन् शुद्धः, इतरथा तथैवासम्भोग्यः, तत्र चायं विधि-यः साधुर्वातेन स्तब्धदेह उत्थानादि कर्तुमशक्तः स सूत्रमेवास्खलितादिगुणोपेतमुच्चारयति, एवमावर्त्तशिरोनमनादि यच्छक्नोति तत्करोत्येवं चाशठप्रवृत्तिर्वन्दनविधिरिति भावः, तथा 'वेयावच्चकरणे इय'त्ति वैयावृत्त्यआहारोपधिदानादिना प्रश्रवणादिमात्रकार्पणादिनाऽधिकरणोपशमनेन सहायदानेन वोपष्टम्भकरणं तस्मिंश्च विषये सम्भोगासम्भोगौ भवत इति ।
तथा 'समोसरणं' ति जिनस्रपनरथानुयानपट्टयात्रादिषु यत्र बहवः साधवो मिलन तत्समवसरणं, इह च क्षेत्रमाश्रित्य साधूनां साधारणोऽवग्रहो भवति, वसतिमाश्रित्य साधारणोऽसाधारणश्चेति, अनेनचान्येऽप्यवग्रहाउपलक्षिताः, ते चानेके, तद्यथा-वर्षावग्रह ऋतुबद्धावग्रहो वृद्धावासावग्रश्चेति, एकैकश्चायं साधारणावग्रहः प्रत्येकावग्रहश्चेति द्विधा, तत्र यत् क्षेत्रं वर्षाकल्पाद्यर्थं युगपत् यादिभि साधुभिः भिन्नगच्छस्थैरनुज्ञाप्यते स साधारणो यत्तु क्षेत्रमेके साधवोऽनुज्ञाप्याश्रिताः स प्रत्येकावग्रह इति, एवं चैतेष्ववग्रहेषु आकुट्टया अनाभाव्यं सचित्तं शिष्यमचित्तं वा वस्त्रादि गृहणन्तोऽनाभोगेन च गृहीतं तदनर्पयन्तः समनोज्ञा अमनोज्ञाश्च प्रायश्चित्तिनो भवन्त्यसंभोग्याश्च, पार्श्वस्थादीनां चावग्रह एव नास्ति तथापि यदि तत् क्षेत्रं क्षुल्लकमन्यत्रैव च संविग्ना निर्वहन्ति ततस्तत् क्षेत्रं परिहरन्त्येव, अथ पार्श्वादीनां क्षेत्रं विस्तीर्णं संविग्नाश्चान्यत्र न निर्वहन्ति ततस्तत्रापि प्रविशन्ति सचित्तादि च गृहणन्ति प्रायश्चिन्तिनोऽपि न भवन्तीति, आह च
11911
“समणुन्नमसमणुन्ने अदिन्नणाभव्वगिण्हमाणे वा । सम्भोग वीसुकरणं इयरेय अलंभ पेल्लंति ॥ तथा
'सन्निसिज्जा य'त्ति सन्निषद्या- आसनविशेषः, सा च सम्भोगासम्भोगकारणं भवति, तथाहिसंनिषद्यागत आचार्यो निषद्यागतेन सम्भोगिकाचार्येण सह श्रुतपरिवर्त्तनां करोति शुद्धः, अथामनोज्ञपार्श्वस्थादिसाध्वीगृहस्थैः सह तदा प्रायश्चित्ती भवति, तथा अक्षनिषद्यां विनाऽनुयोगं कुर्वतः शृण्वतश्च प्रायश्चित्तं, तथा निषद्यायामुपविष्टः सूत्रार्थो पृच्छति अतिचारान् वाऽऽलोचयति यदि तदा तथैवेति ।
तथा 'कहाए य पबंधणे 'त्ति कथा - वादादिका पञ्चधा तस्याः प्रबन्धनं- प्रबन्धेन करणं कथाप्रबन्धनं, तत्र सम्भोगासम्भोगौ भवतः, तत्र मतमभ्युपगम्य पच्चावयवेन त्र्यवयवेन वा वाक्येन यत्तत्समर्थनं स छलजातिविरहितो भूतार्थान्वेषणपरोवादः, स एव छलजातिनिग्रहस्थानपरो जल्पः, यत्रैकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा दूषणमात्रप्रवृत्ता वितण्डा, तथ प्रकीर्णकथा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International