SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ समवायः-१२ सत्तराइंदिआभिक्खुपडिमा तच्च सत्तराइंदिआभिक्खुपडिमा अहोराइआ भिक्खुपडिमा एगराइया भिक्खुपडिमा। दुवालसविहे सम्भोगे प० तं० वृ.द्वादशस्थानमथ, तच्च सुगम, नवरंस्थितिसूत्रेभ्योऽर्वागेकादश सूत्राण्याह, तत्र भिक्षूणां विशिष्टसंहननश्रुतवतां प्रतिमाः-अभिग्रहा भिक्षुप्रतिमाः तत्र मासिक्यादयः सप्तमासिक्यन्ताः सप्तमासेनमासेनोत्तरोत्तरं वृद्धा एकैकाभिर्भक्तपानदत्तिभिश्चेति, तथा सप्तरात्रिन्दिवानि-अहोरात्राणि यासु ताः सप्तरात्रिन्दिवास्ताश्च तिस्रो भवन्तीति, सप्तानामुपर्यष्टमी प्रथमा सप्तरात्रिन्दिवा एवं नवमी द्वितीया दशमी तृतीया, आसां च तिसृणामप्यनुष्ठानकृतो विशेषः, तथाहि-अष्टम्यां चतुर्थभक्तं तपः ग्रामादेर्बहिरवस्थानमुत्तानादिकं च स्थानमिति, नवम्यां तु उत्कटुकाद्यासनेन विशेषः, दशम्यां वीरासनादिना, तथाअहोरात्रप्रमाणाऽहोरात्रिकी एकादशी, सा चषष्ठभक्तेन भवतीति विशेषः, एकरात्रिकी-रात्रिप्रमाणा, साचाष्टमभक्तपर्यन्तरात्रौ प्रलम्बभुजस्य संहतपादस्येषदवनतकायस्यानिमेषनयनस्येति । मू. (२१) उवहीसुअभत्तपाणे, अंजलीपग्गहेत्तिय। दायणे य निकाए अ, अब्भुट्ठाणेति आवरे । वृ. तथा सम्-एकीभूय समानसमाचाराणां साधूनां भोजनं सम्भोगः। स चोपध्यादिलक्षणविषयभेदात् द्वादशधा, तत्र ‘उवही'त्यादिरूपकद्वयं, तत्रोपधिर्वस्त्रपात्रा- दिस्तं सम्भोगिकः सम्भोगिकेन सार्द्धमुद्गमोत्पादनैषणादोषैर्विशुद्धं गृहणन् शुद्धः अशुद्धं गृहणन् प्रेरितः प्रतिपन्नप्रायश्चित्तो वारत्रयं यावत्सम्भोगार्हश्चतुर्थवेलायां प्रायश्चित्तं प्रतिपद्यमानोऽपि विसम्भोगार्ह इति, विसम्भोगिकेन-पार्श्वस्थादिना वा संयत्या वा सार्द्धमुपधिं शुद्धमशुद्धं वा निष्कारणं गृहणन प्रेरितः प्रतिपन्नप्रायश्चित्तोऽपि वेलात्रयस्योपरिन सम्भोग्यः, एवमुपधेः परिकर्म परिभोगं वा कुर्वन् सम्भोग्यो विसम्भोग्यश्चेति, उक्तंच॥१॥ “एगंव दो व तिन्नि व आउटुंतस्स होइ पच्छित्तं । आउटुंतेवि तओ परेण तिण्हं विसंभोगो। त्ति 'सुयत्ति' सम्भोगिकस्यान्यसांभोगिकस्य वोपसम्पन्नस्य श्रुतस्य वाचनाप्रच्छनादिकं विधिना कुर्वन्तथा शुद्धः, तस्यैवाविधिनोपसम्पन्नस्यानपसम्पन्नस्य वापार्श्वस्थादेर्वा स्त्रिया वा वाचनादि कुर्वंस्तथैव वेलात्रयोपरि विसम्भोग्यः, तथा 'भत्तपाणे'त्तिउपधिद्वारवदवसेयं, नवरमिह भोजनं दानंच परिकर्मपरिभोगयोः स्थानेवाच्यमिति, तथा 'अंजलीपग्गहेत्तिय' इहेतिशब्दा उपदर्शनार्थाः चकाराः समुच्चयार्था, तत्रोपलक्षणत्वादअलिप्रग्रहस्यवन्दनादिकमपीह द्रष्टव्यं, तथाहि-सम्भोगिकानामन्यसम्भोगिकानां वा संविग्नानां वन्दनकं-प्रणाममञ्जलिप्रग्रहं सम्भोग्यो विसम्भोग्यश्चेति, तथा 'दायणेय'त्तिदानं, तत्र सम्भोगिकः सम्भोगिकायऽन्यसम्भोगिकाय वा शिष्यगणंयच्छन्शुद्धः निष्कारणं विसम्भोगिकस्यपार्श्वस्थादेर्वा संयत्वा वातं यच्छंस्तथैव सम्भोग्यो विसम्भोग्यश्चेति,तथा निकाएय'त्ति निकाचनंछन्दनं निमन्त्रणमित्यनान्तरं, तत्रशय्योपध्याहारैः शिष्यगणप्रदानेन स्वाध्यायेन च सम्भोगिकः सम्भोगिक निमन्त्रयन् शुद्धः, शेषं तथैव, तथा अब्भुट्ठाणेत्ति यावरे'त्ति अभ्युत्थानमासनत्यागरूपमित्यपरं सम्भोगासम्भोगस्थानमित्यर्थः, तत्राभ्युत्थानं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy