________________
समवाय: - 99
२७
अवस्थानमहोरात्रं यावदिति पौषधोपवास इति, अथवा पौषधं - पर्वदिनमष्टम्यादि तत्रोपवासःअभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्याहारशरीरसत्काराब्रह्मचर्यव्यापारपरिवर्जनेष्विति, तत्र पौषधोपवासे निरतः आसक्तः पौषधोपवासनिरतः सः, एवंविधस्य श्रावकस्य चतुर्थी प्रतिमेति प्रक्रमः ।
अयमत्र भावः - पूर्वप्रतिमात्रयोपेतः अष्टमीचतुर्दश्यमावास्यापौर्णमासीष्वाहारपौषधादि चतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरा मासान् यावच्चतुर्थी प्रतिमा भवतीति, तथा पञ्चमीप्रतिमायामष्टम्यादिषु पर्वस्वेकरात्रिकप्रतिमाकारी भवति, एतदर्थं च सूत्रमधिकृतसूत्रपुस्तकेषु न दृश्यते दशादिषु पुनरुपलभ्यते इति तदर्थ उपदर्शितः, तथा शेषदिनेषु दिवा ब्रह्मचारी ' रत्ती 'ति रात्रौ किं ? अत आह-परीमाणं स्त्रीणां तद्भोगानां वा प्रमाणं कृतं येन स परिमाणकृत इति, अयमत्र भावो-दर्शनव्रतसामायिकाष्टम्यादिपषधोपेतस्य पर्वस्वेकरात्रिकप्रतिमाकारिणः शेषदिनेषु दिवा ब्रह्मचारिणो रात्रावब्रह्मपरिमाणकृतोऽस्नानस्यारात्रिभोजिनः अबद्धकच्छस्य पञ्च मासान् यावत्पच्चमी प्रतिमा भवतीति, उक्तं च
-
119 11
अट्टमीचउद्दसीसु पडिमं ठाएगराईयं । असिणाणवियडभोई मउलियडो दिवसबंभयारी य । रत्तिं परिमाणकडो पडिमावज्जेसु दियहेसु ॥ त्ति
तथा दिवापि रात्रावपि ब्रह्मचारी 'असिणाइ' त्ति अस्नायी स्नानपरिवर्जकः, दिवापि चाप्रकाशदेशे न भुङ्क्ते - अशनाद्यभ्यवहरतीति विकटभोजी 'मोलिकडे ' त्ति अबद्धपरिधानकच्छ इत्यर्थः, षष्ठी प्रतिमेति प्रकृतं, अयमत्र भावः - प्रतिमापञ्चकोक्तानुष्ठानयुक्तस्य ब्रह्मचारिणः षण्मासान् यावत्षष्ठी प्रतिमा भवतीति, तथा 'सचित्त' इति सचेतनाहारः परिज्ञातः- तत्स्वरूपादिपरिज्ञानात्प्रत्याख्यातो येन स सचित्ताहारपरिज्ञातः श्रावकः सप्तमी प्रतिमेति प्रकृतं, इयमत्र भावना पूर्वोक्तप्रतिमाषट्कानुष्ठानयुक्तस्य प्रासुकाहारस्य सप्त मासान् यावत्सप्तमी प्रतिमा भवतीति, तथा आरम्भः पृथिव्याद्युपमर्द्दनलक्षणः परिज्ञातः- तथैव प्रत्याख्यातो येनासावारम्भपरिज्ञातः श्राद्धोऽष्टमी प्रतिमेति, इह भावना-समस्तपूर्वोक्तानुष्ठानयुक्तस्यारम्भवर्जनमष्टौ मासान् यावदष्टमी प्रतिमेति, तथा प्रेष्याः - आरम्भेषु व्यापारणीयाः परिज्ञाताः तथैव प्रत्याख्याता येन स प्रेष्यपरिज्ञातः श्रावको नवमीति, भावार्थश्चेह पूर्वोक्तानुष्ठायिनः आरम्भं परैरप्यकारयतो नव मासान् यावन्नवमी प्रतिमेति, तथा उद्दिष्टं तमेव श्रावकमुद्दिश्य कृतं भक्तम् - ओदनादि उद्दिष्टभक्तं तत्परिज्ञातं येनासावुद्दिष्टभक्तपरिज्ञातः प्रतिमेति प्रकृतं ।
इहायं भावार्थ- पूर्वोदितगुणयुक्तस्याधाकर्मिकभोजनपरिहारवतः क्षुरमुण्डितशिरसः शिखावतो व केनापि किञ्चिद्गृहव्यतिकरे पृष्टस्य तज्ज्ञाने सति जानामीति अज्ञाने च सति न जानामीति ब्रुवाणस्य दश मासान् यावदुत्कर्षेण एवंविधविहारस्य दशमी प्रतिमेति, तथा श्रमणोनिर्ग्रन्थस्तद्वद्यस्तदनुष्ठानकरणात् स श्रमणभूतः, साधुकल्प इत्यर्थः, चकारः समुच्चयेऽपि सम्भावने, भवति श्रावक इति प्रकृतं, हे श्रमण ! हे आयुष्मन् ! इति सुधर्मस्वामिनो जम्बूस्वामिनमामन्त्रयोक्तं इत्येकादशीति, इह चेयं भावना-पूर्वोक्तसमग्रगुणोपेतस्य क्षुरमुण्डस्य कृतलोचस्य वा गृहीतसाधुनेपथ्यस्य ईर्यासमित्यादिकं साधुधर्ममनुपालयो भिक्षार्थं गृहिकुलप्रेवशे सति श्रमणोपासकाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org