SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २४ समवायाङ्गसूत्रम्-१०/१५ वृ.दशमं स्थानकं सुबोधमेव तथापि किच्चिल्लिख्यते, इह पञ्चविंशतिसूत्राणि, तत्र लाघवं द्रव्यतोऽल्पोपधिता भावतो गौरवत्यागः त्यागः सर्वसङ्गानां संविग्नमनोज्ञसाधुनां वा ब्रह्मचर्येण वसनम्-अवस्थानं ब्रह्मवर्यवास इति, तथा चित्तस्य-मनसः समाधि-समाधानं प्रशान्तता तस्य स्थानानि-आश्रया भेदा वा चित्तसमधिस्थानानि।। तत्र धर्मा-जीवादिद्रव्याणामुपयोगोत्पादायः स्वभावास्तेषां चिन्ता-अनुप्रेक्षा धर्मस्य वाश्रुतचारित्रात्मकस्यसर्वज्ञभाषितस्य हरिहरादिनिगदितधर्मेभ्यःप्रधानोऽयमित्येवंचिन्ताधर्मचिन्ता, वाशब्दो वक्ष्यमाणसमाधिस्थानान्तरापेक्षया विकल्पार्थः । __'स'इतियः कल्याणभागीतस्यसाघोरसमुत्पन्नपूर्वा-पूर्वस्मिन्ननादौअतीतेकालेऽनुपजाता तदुत्पादेडपार्द्धपुद्गलपरावर्तान्ते कल्याणस्यावश्यंभावात् समुत्पद्येत-जायेतसः, किंप्रयोजनाय चेयमत आह-सर्व-निरवशेषधर्म-जीवादिद्रव्यस्वभावमुपयोगोत्पादादिकंश्रुतादिरूपंवा 'जाणित्तए' ज्ञपरिज्ञयाज्ञातुंज्ञात्वाच प्रत्याख्यानपरिज्ञयापरिहरणीयकर्मपरिहर्तुम्, इदमुक्तंभवति-धर्मचिन्ता धर्मज्ञानकारणभूता जायत इति। इयं च समाधेरुक्तलक्षणस्य स्थानमुक्तलक्षणमेव भवतीति प्रथम, तथा स्वप्नस्यनिद्रावशविकल्पज्ञानस्य दर्शनं-संवेदनं स्वप्नदर्शनं तद्वा कल्याणप्राप्तिसूचकमसमुत्पन्नपूर्वं समुत्पद्यते, तद्यथा भगवतोमहावीरस्यास्थिकग्रामे शूलपाणियक्षकृतोपसर्गावसाने, किंप्रयोजनं चेदं? इत्याह-'अहातचं सुमिणंपासित्तए'त्तियथा-येन प्रकारेण तथ्यः-सत्यो यथातथ्यः-सर्वथा निर्व्यभिचार इत्यर्थः तं स्वप्नं स्वप्नफलमुपचारात्तंद्रष्टुं ज्ञातुम्, अवश्यंभाविनो मुक्त्यादेःशुभस्वप्नफलस्यदर्शनाय साधोः स्वप्नदर्शनमुपजायत इति भावः, क्वचित् 'सुजाणं ति पाठः, तत्रावितथमवश्यंभाविसुयानं-सुगतिंद्रष्टुं-ज्ञातुंसुज्ञानंवाभाविशुभार्थपरिच्छेदंसंवेदितुमिति, कल्याणसूचकावितथस्वप्रदर्शनाच्च भवति चित्तसमाधिरिति चित्तसमाधिस्थामिदं द्वितीय, तथा सूज्ज्ञानं सज्ज्ञा सा च यद्यपि हेतुवाददृष्टिवाददीर्धकालिकोपदेशभेदेन क्रमेण विकलेन्द्रियसम्यग्दृष्टिसमनस्कसम्बन्धित्वात्रिधाभवतितथापीह दीर्घकालिकोपदेशसञ्ज्ञा ग्राह्येति,सायस्यास्तिस सञीसमनस्कस्तस्य ज्ञानं सज्ञानं, तच्चेहाधिकृतसूत्रान्यथानुपपत्तेर्जातिस्मरणमेव, तद्वा ‘से' तस्यासमुत्पन्न पूर्वं समुत्पद्येत, कस्मै प्रयोजनाय? इत्याह-'पुव्वभवेसुमरित्तए'त्ति पूर्वभवान् स्मर्तु, स्मृतपूर्वभवस्य चसंवेगात्समाधिरुत्पद्यते इति समाधिस्थानमेतत् तृतीय मिति, तथा देवदर्शनं वा 'से' तस्यासमुप्तपन्नपूर्वं देवद्युति-विशिष्ट शरीराभरणादिदीप्तं दिव्यं देवानुभावं-उत्तमवैक्रियकरणादिप्रभावंद्रष्टुम्, एतद्दर्शनायेत्यर्थः, देवदर्शनाच्चागमार्थेषुश्रद्धानदाढर्यं धर्मेबहुमानश्च भवतीति ततश्चित्तसमाधिरितिदेवदर्शनंचित्तसमाधिस्थानमिति चतुर्थं, तथा अवधिज्ञानं वा 'से' तस्यासमुत्पन्नपूर्वं समुत्पद्येत, किमर्थं इत्याहअवधिना-मर्यादया नियतद्रव्यक्षेत्रकालभावरूपेण लोकं ज्ञातुं लोकज्ञानायेत्यर्थः, भवति च विशिष्टज्ञानाच्चित्तसमाधिरिति पञ्चमंतदिति, एवमवधिदर्शनसूत्रमपीति षष्ठं, तथा मनःपर्यज्ञानं वा 'से' तस्यासमुत्पन्नपूर्वं समुत्पद्येत, किमर्थं अत आह 'मनोगते भावे जाणित्तए' अर्द्धतृतीयद्वीपसमुद्रेषु सज्ञिजनां पञ्चेन्द्रियाणां पर्याप्तकानां मनोगतान् भावान् ज्ञातुम्, एतदज्ञानायेत्यर्थ इतिसप्तमं, तथा केवलज्ञानं वा से' तस्यासमुत्पन्नपूर्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy