SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६६ समवायाङ्गसूत्रम्-२४६ प्रतिद्रव्यमसंख्येयान् सर्वद्रव्यापेक्षया त्वनन्तानिति। तथा संस्थानमववेर्वाच्यं, यथा नारकाणां तप्राकारोऽवधि पल्याकारो भवनपतीनां पडहाकारोव्यन्तराणां झल्लाकृतिज्योर्तिष्काणांमृदङ्गाकाराः कल्पोपपन्नानांपुष्पावलीरचितशिखर चङ्गाकारोग्रैवेयकानां कन्याचोलकसंस्थानोऽनुत्तरसुराणांलोकनाल्याकृतिरित्यर्थः, तिर्यमनुष्याणां तुनानासंस्थान इति, तथा अभितर'त्ति के अवधिप्रकाशितक्षेत्रस्याभ्यन्तरे वर्तन्ते इति वाच्यं, यथा नेरइयदेवतित्थंकरायओहिस्सऽबाहिरा हुंती'त्यादि, तथा बाहिरे य'त्ति केऽवधिक्षेत्रस्य बाह्या भवन्तीति वाच्यं, तत्रशेषाजीवा बाह्यावधयोऽभ्यन्तरावधयश्च भवन्ति, तथा 'देसोहित्ति अवधिप्रकाश्यवस्तुनो देशप्रकाशीअवधिर्देशावधिसकेषांभवतीतिवाच्यं, तद्विपरीतस्तुसविधिः तत्र मनुष्याणां उभयमन्येषां देशावधिरेव, यतः सर्वावधि केवलज्ञानलाभप्रत्यासत्तावेवोत्पद्यत इति, तथाऽवधेर्वृद्धि निश्च वाच्या, यो येषा भवति, तत्र तिर्यग्मनुष्याणां वर्द्धमानो हीयमानश्च भवति,शेषाणामवस्थित एष तत्र वर्द्धमानोऽङ्गुलासंख्येयभागादि दृष्ट्वा बहु बहुतरं पश्यति विरीतस्तु हीयमानइति, तथाप्रतिपातीचाप्रतिपाती चावधिर्वाच्यः, तत्रोत्कर्षतोलोकमात्रः प्रतिपात्यतः परमप्रतिपाती, तत्रभवप्रत्यस्तंभवंयावन्न प्रतिपतति, क्षायोपशमिकस्तूभयथेति। एतदेव दर्शयति मू. (२४७) कइविहे णं भंते ! ओही पन्नचा?, गोयमा ! दुविहा पन्नत्ता भवपञ्चइए य खओवसमिए य, एवं सव्वं ओहिपदं भाणियव्वं । वृ. 'कइविहे'इत्यादि, अनावसरेप्रज्ञापनायास्त्रयशित्तमंपदमन्यूनमध्येयमिति, अन्तरमुपयोगविशेषःक्षायोपशमिको जीवपर्यायः उक्तोऽधुना स एवौदयिको वेदनालक्षणोऽभिधीयते मू. (२४८) सीया य दव्व सारीर साया तह वेयणा भवे दुक्खा। अब्भुवगमुवक्कमिया नीयाए चेव अनियाए॥ वृ. 'सीया' इत्यादि द्वारगाथा, तत्र 'सीया यत्ति चशब्दोऽनुक्तसमुच्चये तेन त्रिविधा वेदना-शीता उष्णा शीतोष्णा चेति, तत्र शीतामुष्णां च वेदयन्ति नारकाः, शेषास्त्रिविधामपि, 'दव्वेत्ति उपलक्षणत्वाचतुर्विधा वेदना द्रव्यादिभेदेन, तत्र पुद्गलद्रव्यसम्बन्धात् द्रव्यवेदना नारकाद्युपपातक्षेत्रसम्बन्धात्क्षेत्रवेदनानारकाद्यायुःकालसम्बन्धात्कालवेदना वेदनीयकर्मोदयाद्भाववेदना, तत्र नारकादयो वैमानिकान्ताश्चतुर्विधामपिवेदनांवेदयन्तीति, तथा सारीर'त्ति त्रिविधा वेदना शारीरी मानसी शारीरमानसीच, तत्र संज्ञिपञ्चेन्द्रियाः सर्वे त्रिविधामपि इतरेतु शारीरीभेवेति, तथा 'साय'त्ति त्रिविधा वेदना-साता असाता सातसाता चेति, तत्र सर्वे जीवाः त्रिविधामपि वेदयन्तीति। 'तह वेयणा भवे दुक्ख'त्ति त्रिविधा वेदना-सुखा दुःखा सुखदुःखा चेति, तत्र सर्वेऽपि त्रिविधामपि वेदयन्ति, नवरं सातासातयोःसुखदुःखयोश्चायं विशेषः-सातासाते क्रमेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभवलक्षणे सुखदुःखे तुपरेण उदीर्यमाणवेदनीयकर्मानुभवलक्षणे, तथा 'अब्भुवगमवक्कमिय'त्ति द्विधा वेदना-आभ्युपगमिकी औपक्रमिकी चेति, तत्राद्यामभ्युपगमतो वेदयन्ति जीवा यथा साधवः शिरोलुञ्चनब्रह्मचर्यादिकां द्वितीया तुस्वयमुद्दीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य वेदनीयस्यानुभवतः, तत्रपञ्चेन्द्रियतिर्यमनुष्या द्विविधामपिशेषास्त्वौपक्रमिकीमेव वेदयन्तीति, तथा 'नायाए चेव अनियाए'त्ति द्विविधा वेदना, तत्र निदया आभोगतः अनिदया For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy