SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ समवायः - प्रकीर्णकाः १६७ त्वनाभोगतः, तत्र संज्ञिन उभयतोऽसंत्रिनस्त्वनिदयेति, एतदद्वारविवरणाय। मू. (२४९) नेरइया णं भंते ! किं सीतं वेयणं वेयंति उसिणं वेयणं वेयंति सीतोसिण वेयणं वेयंति?, गो० ! नेरइया० एवं चेव वेयणापदंभाणियव्वं । कइणंभन्ते! लेसाओ पं०?, गो० ! छ लेसाओ पं०, तं० -किण्हा नीला काऊ तेऊ पम्हा सुक्का, एवं लेसापयं भाणियव्वं । वृ. 'नेरइयाण'मित्यादि, इहावसरे प्रज्ञापनायाः पञ्चत्रिंशत्तमं वेदनाख्यं पदमध्येयमिति अन्तरं वेदनाप्ररूपिता, साच लेश्यावत एव भवतीतिलेश्याप्ररूपणायाह-'कइणंभंते'इत्यादि, इह स्थाने प्रज्ञापनायाः सप्तदशंषडुद्देशकं लेश्याभिधानं पदमध्येतव्यं, तच्चास्माभिरतिबहुत्वादर्थतोऽपि न लिखितमिति तत एवावधारणीयमिति । अनन्तरं लेश्या उक्ताः, सलेश्या एव चाहारयन्तीत्याहारप्ररूपणायाह-'अनंतरा ये'त्यादिद्वारश्लोकमाह, तत्रमू. (२५०) अनंतरा य आहारे आहाराभोगणा इय। पोग्गला नेव जाणंति, अज्झवसाणे यसम्मत्ते॥ वृ. 'अनंतरा य आहारे'त्ति अनन्तराश्च-अव्यवधानाचाहारविषये अनन्तराहारा जीवा वाच्या इत्यर्थः, तथाऽऽहारस्याभोगता, अपिचेति वचनादनाभोगता च वाच्या, तथा पुद्गलान्न जानन्त्येवएवकारान्न पश्यन्तीति चतुर्भङ्गी सूचिता, तथाअध्यवसानानि सम्यक्त्वंचवाच्यमिति, तत्राद्यद्वारार्थमाह - मू. (२५१) नेरइया णं भंते! अनंतराहार तओ निव्वत्तणया तओ परियाइयणया तओ परिणामणयातओ परियारणयातओपच्छा विकुव्वणया?,हंताभा०! एवं आहारपदंभाणियव्वं वृ. 'नेरइए'त्यादि, 'अनन्तराहार'त्ति उपपातक्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः ‘ततो निव्वत्तणया' इति ततः शरीरनिवृत्ति, ततो परियाइयणयत्तिततः पर्यादानमङ्गप्रत्यङ्गै समन्तात्पा (दादा)नमित्यर्थ, 'ततोपरिणामय'त्ति ततःशब्दादिविषयोपभोगइत्यर्थः 'ततोपच्छा विउव्वणय'त्ति ततः पश्चाद्विक्रियानानारूपा इत्यर्थः, हन्ता गौतम !,एवमेतदिति भावः, एवं सर्वेषांपञ्चेन्द्रियाणां वक्तव्यं, नवरंदेवानापूर्वविकुर्वणा पश्चात्परिचारणा शेषाणांतुपूर्वं परिचारणा पश्चाद्विकुर्वणा, एकेन्द्रियादीनामप्येवंप्रश्ने, निर्वचने तुयत्र वैक्रियसम्भवो नास्ति तत्र विकुर्वणा निषेधनीयेति । 'एवमाहारपयंभाणियव्यं तियथाऽऽद्यद्वारस्य प्रश्न उक्तस्तथा तदुत्तरंशेषद्वाराणिच भणद्भिः प्रज्ञापनायाश्चतुस्त्रिंशत्तमंपरिचारणापदाख्यंपदमिह भणितव्यमिति,इदंचात्राहारविचारप्रधानतया आहारपदमुक्तमिति, तत्पुनरेवमर्थतस्तत्र ‘आहाराभोगणाइय'त्ति एतस्य विवरण-नारकाणा किमाभोगनिर्वर्तित आहारोऽनाभोगनिर्वतितो वा?, उभयथापीति निर्वचनं । एवं सर्वेषां नवरमेकेन्द्रियाणामनाभोगनिर्वर्तित एवेति, तथा 'पोग्गला नेव जाणंति'त्ति अस्यार्थ-नारकायान्पुद्गलान् आहारयन्ति तानवधिनापिनजानन्ति अविषयत्वात्तदवधेस्तेषां, नपश्यन्तिचक्षुषाऽपिलोमाहारत्वात्तेषां, एवमसुरादयीन्द्रियान्ताः, केवलंएकेन्द्रियाअनाभोगाहारत्वावित्रीन्द्रियाश्चमत्यज्ञानित्वान्नजानन्ति चक्षुरिन्द्रियाभावाचन पश्यन्तीति, चतुरिन्द्रियास्तु चक्षुसद्भावेऽपि मत्यज्ञानित्वात् प्रक्षेपाहारं न जानन्ति, चक्षुषापि न पश्यन्ति, तथा त एव लोमाहारमाश्रित्य नजानन्तिनपश्यन्तीतिव्यपदिश्यते, चक्षुषोऽविषयत्वात्तस्य, पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च केचिज्जानन्तिपश्यन्ति चावधिज्ञानादिषुयुक्ताःलोमाहारप्रक्षेपाहाराच्च, तथाऽन्येजानन्ति न पश्यन्ति लोमाहारंजानन्त्यवधिना न पश्यन्ति चक्षुषा, तथा अन्ये न जानन्ति पश्यन्ति, तत्र न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy