SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ समवायः - प्रकीर्णकाः १६५ पंचेन्दियतेयगसरीरे णं भंते ! किंसंठिए ?, नानासंठाणसंठिए' यस्य पृथिवादिजीवस्य यदौदारिकादिशरीरसंस्थानंतदेव तैजसस्य कार्मणस्य च, तथा जीवस्य मारणान्तिकसमुद्घातगतस्य कियती तैजसी शरीरावगाहना?,शरीरमात्रा विष्कम्भबाहल्याभ्यामायामतस्तुजधन्येनाकुलस्यासंख्येयभाग उत्कर्षत उर्द्धमधश्च लोकान्ताल्लोकान्तं यावदेकेन्द्रियस्य, ततस्तत्रोत्पत्तिमङ्गीकृत्येतिभावः, एवं सर्वेषामेवैकेन्द्रियाणां द्वीन्द्रियाणांतुआयामत उत्कर्षेण तिर्यग्लोकाल्लोकान्तं यावत्प्रायस्तिर्यगलोके द्वीन्द्रियादितिरश्चां भावात्।। नारकस्यजघन्यतो योजनसहनं, कथं?, नरकात्पातालकलशस्य सहमानं कुड्यंभित्त्वा तत्र मत्स्यतयोत्पद्यमानस्य, उत्कर्षेणतुअधःसप्तमीयावत् सप्तमपृथ्वीनारकंसमुद्रादिमत्स्येषूत्पद्यमानं प्रतीत्य, तिर्यक् स्वयम्भूरणं यावत् ऊर्ध्व पण्डकवनपुष्करिणी यावत्, यतस्ययोर्नारक उत्पद्यते, न परतः, मनुष्यस्य लोकान्तं यावत्। भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवानां जघन्यतोऽङ्गुलासंख्येयतमभागः स्वस्थान एवपृथिव्यादितयोत्पादात्, उत्कर्षतस्तुअधस्तृतीयपृथ्वीयावत् तिर्यक् स्वयम्भूमणबहिर्वेदिकान्तं ऊर्ध्वमीषप्राग्भारांयावत्, यतएते शुभपर्याप्तबादरेष्वेवपृथिव्यादिषूत्पद्यन्तेअतोन परतोऽपीति, सनत्कुमारादिसहस्रारान्तदेवानांतु जघन्यतोऽङ्गुलासंख्येयभागः, कथं?, पण्डकवनादिपुष्करिणीम-जनार्थमवतारे मृतस्य तत्रैव मत्स्यतयोत्पद्यमानत्वात् पूर्वसम्बन्धिनी वा मनुष्योपभुक्तयिं परिष्वज्य मृतस्यतदगर्भेसमुत्पादादिति, उत्कर्षतस्तुअधो यावन्महापातालकलशानांद्वितीयभिागः, तत्र हि जलसद्भावान्मत्स्येषूत्पद्यमानत्वात्, तिर्यक् स्वयम्भूरमणसमुद्र यावत्, ऊर्ध्वमच्युतंयावत्, तत्र हि सङ्गतिकदेवनिश्रया गतस्य मृत्वेहोत्पद्यमानत्वादिति। ___ आनतादीनामच्युतानां तु जघन्यतोऽङ्गुलासंख्येय भागः, कतं?, इहागतस्य मरणकालविपर्यस्तमतेर्मनुष्योपभुक्तयिमप्यभिष्वज्य मृतस्य तत्रैवोत्पत्तेरिति, उत्कर्षतस्तधो यावदधोलोकग्रामान् तिर्यङ्गमनुष्यक्षेत्रोऊर्ध्वमच्युतविमानानि यावत् मनुष्येष्वेवोत्पद्यन्ते इति भावना तथैव कार्या, ग्रैवेयकानुत्तरोपपातिकदेवानां जघन्यतो विद्याधरश्रेणीयावत् उत्कर्षतोऽधो यावदधोलोकनामान् तिर्यमनुष्यक्षेत्रं ऊर्ध्वंतद्विमानान्येवेति, एवं कार्मणस्याप्यवगाहना दृश्या समानत्वादेव तयोरिति। उक्तार्थमेव सूत्रांशमाह-'गेवेजगस्य ण' मित्यादि । अनन्तरं शरीरिणामवगाहना धर्म उक्तोऽधुना त्ववधिधर्मप्रतिपादनायाह - ॥१॥ भेय विसयसंठाणे अभितर वाहिरे य देसोही। ___ ओहिस्स वुड्डिहाणी पडिवाई चेव अपडिवाई॥ द्वारगाथा, तत्रभेदोऽवधेर्वक्तव्यो, यथाद्विविधोऽवधिर्मवति-भवप्रत्ययःक्षायोपशमिकञ्च, तत्रभवप्रत्ययोदेवनारकाणां क्षायोपशमिको मनुष्यतिरश्चामिति, तथा विषयो-गोचरोऽवधेर्वाच्यः, सचचतुर्द्धा-द्रव्यतः क्षेत्रतः कालतोभावतश्च, तत्रद्रव्यतोजघन्येन तेजोभाषयोरग्रहणप्रायोग्यानि द्रव्याणि जानाति, उत्कर्षतस्तु सर्वमेकाणुकाद्यनन्ताणुकान्तं रूपिद्रव्यजातं जानाति, क्षेत्रं जघन्यतोऽङ्गुलासंख्येयभागंजानाति उत्कर्षतोऽसंख्येयान्यलोके लोकमात्राणिखण्डानि जानाति, कालं जघन्यत आवलिकाया असंख्येयभागमतीतमनागतं च, जानाति, उत्कर्षतः संख्यातीता उत्सपिण्यवसर्पिणीर्जानाति, भावतो जघन्यतः प्रतिद्रव्यं चतुरो वर्णादीन् उत्कर्षतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy