SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १६० समवायाङ्गसूत्रम्-२४१ प्रभा-दीप्तिस्तया सिताः-शुक्लाइत्यभ्युदतोत्सृतप्रभासिताः, तथा विविधा-अनेकप्रकारा मणयःचन्द्रकान्ताद्या रत्नानि-कर्केतनादीनि तेषां भक्तयो-विच्छित्तिविशेषास्ताभिश्चित्राः-चित्रवन्तः आश्चर्यवन्तोवेति विविधमणिरत्नभक्तिचित्राः,तथा वातोद्भूता-वातकम्पिता विजयः-अभ्युदयस्तसंसूचिका वैजयन्तीत्यभिधाना याः पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्तेतप्रधानायावैजयंत्स्ताश्चतद्वर्जिताः पताकाश्चछत्रातिच्छत्राणिच-उपर्युपरिस्थितातपत्राणि तैः कलिता-युक्ता वातोद्धतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिता इति। तुङ्गा-उच्चैस्त्वगुणयुक्ता, अत एव 'गगनतलमणुलिहंतसिहर'त्ति गगनतलं-अम्बरतलमनुलिखद्-अभिलङ्घयच्छिखरं येषां ते गगनतलानुलिखच्छिखराः, तथा जालान्तरेषु-जालकमध्यभागेषु रत्नानि येषां तेजालान्तररत्नाः,इह प्रथमाबहुवचनलोपोद्रष्टव्यः,जालकानिचभवनभित्तिषु लोके प्रतीतान्येव तदन्तरेषु च शोभार्थ रत्नानि सम्भवन्त्येवेति, तथा पञ्जरोन्मीलिता इव-पञ्जरवहिष्कृता इव, यथा किल किञ्चिद्वस्तु पञ्जरांद्-वंशादिमयप्रच्छादन विशेषाद्वहिकृतमत्यन्तम-विनष्टच्छायत्वाच्छोमते एवं तेऽपीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिकाशिखरं येषां ते मणिकनकस्तूपिकाकाः, तथा विकसितानि यानि शतपत्रपुण्डरीकाणि द्वारादौ प्रतिकृतित्वेन तिलकाश्च-मित्त्यादिषु पुण्ड्राणिरत्नमयाश्चये अर्द्धचन्द्रा द्वाराग्रादिषु तैश्चित्रा येते विकसितशत-पत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राः, तथा अन्तर्बहिश्च श्लक्ष्णा मसृणा इत्यर्थः। तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकायाः-सिकतायाः प्रस्तटः-प्रतरो येषु ते तपनीयवालुकाप्रस्तटाः, अथवा सण्हशब्दस्य वालुकाविशेषणत्वात् श्लक्ष्णतपनीयवालुकाप्रस्तटा इति व्याख्येयं, तथा सुखस्पर्शा शुभस्पर्शा वा, तता सीकं-सशोभं रूपं आकारो येषां अथवा सश्रीकाणि-शोभावन्तिरूपाणि-नरयुग्मादीनिरूपकाणियेषुतेसश्रीकरूपाः, प्रासादनीयादर्शनीयाः अभिरूपाः प्रतिरूपा इति पूर्ववत् । 'केवइए'त्यादि, रत्नप्रभायाः पृथिव्या 'बहुसमरमणिज्जाओ भूमिभागाओ'त्ति बहुसमरमणीयस्य भूमिभागस्य उर्द्ध-उपरि तथा चन्द्रमसः-सूर्यग्रहगणनक्षत्रतारारूपाणि णमित्यलङ्कारे किं ? - 'वीइवइत्त'त्ति व्यतिव्रज्य-व्यतिक्रम्येत्यर्थः, तारारूपाणिचेह तारका एवेति, तथा 'बहूनी'त्यादि, किमित्याहउर्ध्वम्-उपरी दूरमत्यर्थंव्यतिव्रज्यचतुरशीतिविमानलक्षाणिभवन्तीतिसम्बन्धः, 'इतिमक्खाय'त्ति इति-एवंप्रकारा अथवा यतो भवन्ति तत आख्याताः सर्ववेदिनेति, 'तेणं'ति तानि विमानानि णमिति वाक्यालङ्कारे 'अच्चिमालिप्पभ'त्ति अर्चिालि-आदित्यस्तद्वत्प्रभान्तिशोभन्ते यानि तान्यर्चिालिप्रभाणि, तथा भासाना-प्रकाशानां राशि-भासराशिःआदित्यस्तस्य वर्णस्तद्वदाभा-छायावर्णो येषां केषांचित्तानि भासराशिवर्णामानि, तथा 'अरय'त्ति अरजांसि स्वभाविकरजोरहितत्वात् 'नीरय'त्ति नीरजांसि आगन्तुकरजोविरहात् 'निम्मल'त्ति निर्मलानि कक्खड मलाभावात् 'वितिमिर'तिवितिभिराणिआहार्यान्धकाररहितत्वाविशुद्धानिस्वाभाविकतमोविरहात् सकलदोषविरामाद्वा सर्वरत्नमयानि न दादिदलमयानीत्यर्थः अच्छान्याकाशस्फटिकवत् श्लक्ष्णानि सूक्ष्मस्कन्धमयत्वात् धृष्टानीवधृष्टानिखरशाणया पाषाणप्रतिमेव मृष्टानि सुकुमारशाणया पाषाणप्रतिमेवेति निष्पङ्का निकलङ्कविकलत्वात् कद्दमविशेषरहितत्वाद्वानिष्कङ्कटा-निष्कवचा निरावरणा निरुपधातेत्यर्थछाया-दीप्तिर्येषां तानि निष्कण्डकच्छायानिसप्रभाणि-प्रभावन्ति समरीचीनि-सकिरणानीत्यर्थः ‘सोद्योतानि-वस्त्वन्तर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy