SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १५३ नवरं 'संखेज्जा वत्थु' त्ति पञ्चविंशत्युत्तरे द्वे शते 'संखेज्जा चूलवत्थु ' त्ति चतुस्त्रिंत् । साम्प्रतं द्वादशाङ्गे विराघनानिष्पन्नं त्रैकालिकं फलमुपदर्शयन्नाह समवायः - प्रकीर्णकाः मू. (२३३) अनागए काले अनंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अनुपरियट्टिस्संति, इच्चेइयं दुवालसंगं गणिपिडगं अतीतकाले अनंता जीवा आणाए आराहित्ता चाउरंतसंसारकंतारं बीईवइंस एवं पडुप्पन्नेऽवि एवं अणागएव । दुवालसंगे णं गणिपिडगे न कयावि नत्थि ण कयाइ नासी न कयाइ न भविस्सइ भुविं च भवति य भविस्सतिय धुवे णितिए सासए अक्खए अव्वए अवट्ठिए णिच्चे से जहा णामए पंच अत्थिकाया न कयाइ न आसि न कयाइ नत्थि न कयाइ न भविस्सतित भुविं च भवति य भविस्सति य धुवा नितिया सासया अक्खया अव्वया अवट्ठिया निच्चा एवामेव दुवालसंगे गणिपिडगे न कयाइ न आसि न कयाइ नत्थि न कयाइ णनभविस्सइ भुविं च भवति य भविस्सइ य धुवे जाव अवट्ठिए निच्चे । एत्थ णं दुवालसंगे गणिपिडगे अनंता भावा अनंता अभावा हेऊ अनंता अहेऊ अनंता कारणा अन्ता अकारणा अन्ता जीवा अन्ता अजीवा अंन्ता भवसिद्धिया अंन्ता अभवसिद्धिया अंन्ता सिद्धा अन्ता असिद्धा आघविज्रंति पन्नविज्जंति परूविज्जूंति दंसिज्जूंति निदंसिज्जंति उवदंसिजंति एवं दुवालसंगं गणिपिडगं इति ।। वृ. 'इच्चेय'मित्यादि, इत्येतद्दादशाङ्गं गणिपिटकमतीतकाले अनन्ता जीवा आज्ञया विराध्य चतुरन्तं संसारकान्तारं 'अनुपरियट्टिसु' त्ति अनुपरिवृत्तवन्तः, इदं हि द्वादशाङ्गसूत्रार्थोभयभेदेन त्रिविधं ततश्च आज्ञया सूत्राज्ञया अभिनिवेशतोऽन्यतापाठादिलक्षणया अतीतकाले अनन्ता जीवाश्चतुरन्तं संसारकान्तारं नारकतिर्यगनरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपरावृत्तवन्तो जमालिवत् अर्थाज्ञया पुनरभिनिवेशतोऽन्यथाप्ररूपणादिलक्षणया गोष्ठामाहिलवत् उभयाज्ञया पुनः पञ्चविधाचारपरिज्ञानकरणोद्यतगुर्वादेशादेशादेरन्यथा - करणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवत् सूत्रार्थोभयैर्विराध्येत्यर्थः, अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठानमेवाज्ञा तया तदकरणेनेत्यर्थः, 'इच्चेय' मित्यादि गतार्थमेव - नवरं 'परित्ता जीवा' इति संख्येया जीवाः, वर्त्तमाने विशिष्टविराधकमनुष्यजीवानां संख्येयत्वात् ‘अनुपरियट्टंति'त्ति अनुपरावर्त्तन्ते भ्रमन्तीत्यर्थः, 'इच्चेय' मित्यादि इदमपि भावितार्थमेव, नवरम् अनुपरियाट्टिस्संतिं त्ति अनुपरावर्तिष्यन्ते पर्यटिष्यन्तीत्यर्थः, इच्चेयमित्यादि कण्ठ्यं, नवरं 'विइवइंसु' त्ति व्यतिव्रजितवन्तः चतुर्गतिकसंसारोल्लङ्घनेन मुक्तिमवाप्ता इत्यर्थः, एवं प्रत्युत्पन्नेऽपि, नवरं अयं विशेषः - 'विइवयंति' त्ति व्यतिव्रजन्तिव्यतिक्रामन्तीत्यर्थः, अनागतेऽप्येवं, नवरं 'वीइव - इस्संति' त्ति व्यतिव्रजिष्यन्ति-व्यतिक्रमिष्यन्तीत्यर्थः, यदिदमनिष्टेतरभेदभिन्न फलं प्रतिपादितमेत-त्सदावस्थायित्वे सति द्वादशाङ्गस्योपजायत इत्याह ‘दुवालसंगे' इत्यादि, द्वादशाङ्गं णमित्यलङ्कारे गणिपिटकं न कदाचिन्नासीदनादित्वात् न कदाचिन्न भवति सदैव भावात् न कदाचिन्न भविष्यति अपर्यवसितत्वात्, किं तर्हि ?, 'भुविं चे' त्यादि अभूच्च भवति च भविष्यति च ततश्चेदं त्रिकालभावित्वादचलं अचलत्वाच्च ध्रुवं मेर्वादिवत् ध्रुवत्वादेव नियतं पञ्चास्तिकायेषु लोकवचनवत् नियतत्वादेव शाश्वतं समयावलिकादिषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy