SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५४ समवायाङ्गसूत्रम्-२३३ कालवचनवत् शाश्वतत्वादेव वाचनादिप्रदानेऽप्यक्षयं गङ्गासिन्धुप्रवाहेऽपि पद्महदवत् अक्षयत्वादेवाव्ययं मानुषोत्तराद्वहिः समुद्रवत्अव्ययत्वादेव स्वप्रमाणेऽवस्थितं जम्बूद्वीपादिवत् अवस्थितत्वादेव नित्यमाकाशवदिति, साम्प्रतं दृष्टान्तमत्रार्थे आह - ____से जहा नाम ए' इत्यादि, तद्यथा नाम पञ्चास्तिकायाःधर्मास्तिकायादयः न कदाचिन्नासन्नित्यादि प्राग्वत्, ‘एवमेवे' त्यादि दार्शन्तिकयोजना निगदसिद्धैवेति । "एत्थ ण'मित्यादि अत्र द्वादशाङ्गे गणिपिटके अनन्ता भावा आख्यायन्त इति योगः, तत्र भवन्तीतिभावा-जीवादयः पदार्था, एते च जीवपुद्गलानामनन्तत्वादनन्ता इति, तथा अनन्ता अभावाः, सर्वभावनामेव पररूपेणासत्त्वत्तिएवानन्ता अभावा इति, स्वपरसत्ताभावाभावोभयाधीनत्वाद्वस्तुतत्वस्य, तथाहि-जीवो जीवात्मना भावोऽजीवात्मना चाभावोऽन्यथाऽजीवत्वप्रसङ्गादिति, अन्येतुधम्मपिक्षयाअनन्ताभावाः अनन्ताअभावाः प्रतिवस्त्वस्तित्वनास्तित्वाभ्यां प्रतिबद्धाइतिव्याचक्षते, तथाऽनन्ता हेतवः, तत्रहिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुस्ते चानन्ताः, वस्तुनोऽनन्तधात्मकत्वात्, तप्रतिबद्धधर्मविशिष्टवस्तुगमकत्वाच्च हेतोः सूत्रस्य चानन्तगमपर्यायात्मकत्वादिति यथोक्तहेतुप्रतिपक्षतोऽनन्ता अहेतवः, तथा अनन्तानि कारणानि मृत्पिण्डतन्त्वादीनिघटपटादिनिवर्तकानि, तथाअनन्तान्यकारणानिसर्वकारणानामेव कार्यान्तकारणत्वात्, नहि मृत्पिण्डः पटनिवर्तयतीति, तथा अनन्ताजीवाः-प्राणिनः एवमजीवाः यणुकादयः भवसिद्धिका-भव्याः सिद्धा-निष्ठितार्था इतरे-संसारिणः, ‘आघविजंती'त्यादि पूर्ववदिति द्वादशाङ्गस्य स्वरूपमनन्तरमभिहितमथ तदभिधेयस्य राशिद्वयान्तर्भावतः स्वरूपमधित्सुराह मू. (२३४) दुवे रासी पन्नत्ता, तंजहा जीवरासी अजीवरासी य, अजीवरासी दुविहा पन्नत्ता, तंजहा-रूवीअजीवरासी अरूवीअजीवरासी य। से किंतंअरूवी अजीवरासी?, अरूविअजीवरासी दसविहा पन्नत्ता, तंजहा-धम्मत्थिकाए जाव अद्धासमए, रूवीअजीवरासी अणेगविहा०प० जाव। से किंतं अनुत्तरोववाइआ?, अनुत्तरोववाइआपंचविहा पन्नत्ता, तजहा-विजयवेजयंतजयंतअपराजितसव्वट्ठसिद्धिआ ।सेत्तं अनुत्तरोववाइआ, सेत्तं पंचिंदियसंसारसमा-वण्णजीवरासी, दुविहा नेरइया पन्नत्ता, तंजहा-पज्जत्ताय अपज्जत्ताय, एवंदंडओभाणियब्बोजाववेमाणियत्ति इमीसे णं रयणप्पभाए पुढवीए केवइयं खेत्तं ओगाहेत्ता केवइया निरयावासा प०?', गोयमा ! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठसत्तरि जोयणसयसहस्से एत्थ णं रयणप्पभाए पुढवीए नेरइयाणं तीसं निरयावाससयसहस्सा भवंतीतिमक्खाया, ते णं निरयावासा अंतो वट्टा बाहिं चउरंसा जाव असुभा निरया असुभाओ निरएसु वेयणाओ, एवं सत्तवि भाणियव्वाओ जंजासु जुजइ। वृ. इह च प्रज्ञापनायाः प्रथमपदं प्रज्ञापनाख्यं सर्वंतदक्षरमध्येतव्यं, किमवसानमित्याह'जाव से किं त'मित्यादि, केवलमस्य प्रज्ञापनासूत्रस्य चायं विशेषः, इह 'दुवे रासी पन्नत्ता'इत्यभिलापसूत्रं (तत्र)तु 'दुविहा पन्नवणा पन्नत्ता जीवपन्नवणाअजीवपन्नवणा यत्ति, अतिदिटस्य च सूत्रतः सर्वस्य प्रज्ञापनापदस्य लेखितुमशक्यत्वादर्थतस्तल्लेश उपदयते-तत्राजीव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy