________________
१५२
समवायाङ्गसूत्रम् - २३२
तस्मात् ज्ञानप्रवादं, तस्मिन् पदपरिमाणमेका कोटी एकपदोनेति, सत्यप्रवादं षष्ठं सत्यं-संयमः सत्यवचनं वा तद्यत्र सभेदं सप्रतिपक्षं च वर्ण्यते तत्सत्यप्रवादं, तस्य पदपरिमाणं एका पदकोटी षट् च पदा - नीति, आत्मप्रवादं सप्तमं 'आय'त्ति आत्मा सोऽनेकधा यत्र नयदर्शनैर्वर्ण्यते तदात्मप्रवादं, तस्य पदपरिमाणं षड्विंशति पदकोट्यः कर्म्मप्रवादमष्टमं ज्ञानावरणादिकमष्टिविधं कर्म्मप्रकृतिस्थित्य - नुभागप्रदेशादिभिर्भेदैरन्यैश्चोत्तरोत्तरभेदैर्यत्र वर्ण्यते तत्कर्म्मप्रवादं, तत्परिमाणमेका पदकोटी अशीतिश्च सहस्राणीति ।
प्रत्याख्यानं नवमं तत्र सर्वं प्रत्याख्यानस्वरूपं वर्ण्यत इति प्रत्याख्यानप्रवादं, तत्परिमाणं चतुरशीति पदशतसहस्राणीति, विद्यानुप्रवादं दशमं तत्रानेके विद्यातिशया वर्णितास्तत्परिमाणमेका पदकोटी दश च पदशतसस्राणीति, अवन्ध्यमेवकादशं, वन्ध्यं नाम निष्फलं न वन्ध्यमवन्ध्यं सफलामित्यर्थः, तत्र हि सर्वे ज्ञानतपःसंयमयोगाः शुभफलेन सफला वर्ण्यन्ते अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला वर्ण्यन्ते अतोऽवन्ध्यं तस्य च परिमाणं षड्विंशति पदकोट्यः, प्राणायुर्द्वादशं तत्राप्युयुः प्राणविधानं सर्वं सभेदमन्ये च प्राणा वर्णितास्तत्परिमाणमेका पदकोटी षटपञ्चाशच्च पदशतसहाणीति, क्रियाविशालं त्रयोदशं, तत्र कायिक्यादयः क्रिया विशालत्ति-सभेदाः संयमक्रिया छन्दक्रिया विधानानि च वर्ण्यन्त इति क्रियाविशालं, तत्पदपरिमाणं नव पदकोट्यः, लोकबिन्दुसारं . च चतुर्दशमं तच्चास्मिन् लोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तममिति, सर्वाक्षरसन्निपातप्रतिष्ठितत्वेन च लोकबिन्दुसारं भणितं, तत्प्रमाणमर्द्धत्रयोदश पदकोट्य इति ।
'उप्यायपुव्वस्से' त्यादि कण्ठयं, नवरं वस्तु नियतार्थाधिकारप्रतिबद्ध ग्रन्थविशेषोऽध्ययनवदिति, तथा चूडा इव चूडा, इह दृष्टिवादे परिकर्म्मसूत्रपूर्वगतानुयोगोक्तानुक्तार्थसङ्ग्रहपरा ग्रंथपद्धतयश्चडा इति, 'सेत्तं पुव्वगते' त्ति निगमनं ।
'से किं तमित्यादि, अनुरूपोऽनुकूलो वा योगोऽनुयोगः सूत्रस्य निजेनाभिधेयेन सार्द्धमनुरूपः सम्बन्ध इत्यर्थः, स च द्विविधः प्रज्ञप्तः, तद्यथा मूलप्रथमानुयोगश्च गण्डिकानुयोगश्च, 'से किं तमित्यादि, इह धर्म्मप्रणयनात् मूलं तावत्तीर्थकरास्तेषां प्रथमसम्यक्त्वाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, तथा चाह
'से किं तं मूलपढमाणुओगे' इत्यादि सूत्रसिद्धं यावत् 'सेत्तं मूलपढमानुओगे', 'से किं त' मित्यादि इहैकवक्तव्यतार्थाधिकारानुगता वाक्यपद्धतयो गण्डिका उच्यन्ते तासामनुयोगःअर्थकथनविधि गण्डिकानुयोगः, तथा चाह 'गंडियानुओगे अनेगेत्यादि, कुलकरगण्डिकासु कुलकराणां विमलवाहनादीनां पूर्वजन्माद्यभिधीयत इति, एवं शेषास्वपि अभिधानवशतो भावनीयं, यावत् चित्रान्तरगण्डिकाः, नवरं दशार्हा समुद्रविजयादयो दश वसुदेवान्ताः तथा चित्रा - अनेकार्था अन्तरे-ऋषभाजिततीर्थकरान्तरे गण्डिका - एकवक्तव्यतार्थाधिकारानुगतास्ततश्च चित्राश्च ता अन्तरगण्डिकाश्च चित्रान्तरगण्डिकाः, एतदुक्तं भवति-ऋषभाजिततर्थीकरान्तरे तद्वंशजभूपतीनां शेषगतिगमनव्युदासेन शिवगमनानुत्तरोपातप्राप्तिप्रतिपादिकाश्चित्रान्तरगण्डिका इति, ताश्च । 'चोद्दलक्खा सिद्धा निवईणेक्को य होइ सव्वट्टे ।
119 11
एवेक्क्कट्ठाणे पुरिसजुगा हुंति संखेज्जे ' ॥
- त्यादिना ग्रन्थेन नन्दिटीकायामभिहितास्तत एवावधार्या, इह सूत्रगमनिकामात्रस्य विवक्षितत्वादिति, शेषं सूत्रसिद्धमानिगमनात् ।
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org