________________
समवायः - प्रकीर्णकाः
१४५
पाठान्तरे वरमहर्षिभिः 'विविहवित्थरभासियाणं चत्ति विविधवितरेण भाषितानां च, चकारस्तृतीयप्रणायकभेदसमुच्चयार्थः ।
पुनः कथंभूतानां प्रश्नानां ? - 'जगहियाणं 'ति जगद्धितानां पुरुषार्थोपयोगित्वात् किंसम्बन्धिनीनामित्याह ‘अद्दाग’त्ति आदर्शश्चाङ्गुष्ठश्च बाहूच असिश्च मणिश्च क्षौमं च वस्त्रं आदित्यश्चेति द्वन्द्वस्ते आदिर्येषां कुड्यशङ्खघंटादीनां ते तथा तेषां सम्बन्धिनीनां, प्रश्नविद्याभिरादर्शकादीनामावेशनात् किंभूतानां प्रश्नानामत आह-विविध महाप्रश्नविद्याश्च वाचैव प्रश्ने सत्युत्तरदायिन्यः मनःप्रश्नविद्याश्च-मनःप्रश्नितार्थोत्तरदायिन्यस्तासां दैवतानि तदधिष्ठातृदेवतास्तेषां प्रयोगप्राधान्येन-तद्व्यापारप्रधानतया गुणं विविधार्थसंवादनलक्षणं प्रकाशयन्ति-लोके व्यञ्जयन्ति यास्या विविधमहाप्रश्नविद्यामनःप्रश्नविद्यादैवतप्रयोगप्राधान्यगुणप्रकाशिकास्तासां ।
पुनः किंभूतानां प्रश्नानां ? - सद्भूतेनतात्त्विकेन द्विगुणेन पुन उपलक्षणत्वाल्लौकिकप्रश्नविद्याप्रभावापेक्षया बहुगुणेन पाठान्तरे विविधगुणेन प्रभावेन-माहात्म्येन नरगणमतेःमनुजसमुदयबुद्धेर्विस्मयकाय चमत्कारहेतवो याः प्रश्नास्ताः सद्भूतद्विगुणप्रभाव- नरगणमितिविस्मयकार्यस्तासां, पुनः किंभूतानां तासां ? - 'अतिसयमतीतीकालसमये 'ति अतिशयेन योऽतीतः कालः समयः स तथा तत्र, अतिव्यवहिते काले इत्यर्थः, दमः शमस्ततप्रधानः तीर्थकराणांदर्शनान्तरशास्तृणामुत्तमो यः स तथा भगवान्-जिनस्तस्य दमतीर्थकरोत्तमस्य स्थितिकरणं-स्थापनं, आसीद् अतीतकाले सातिशयज्ञानादिगुणयुक्तः सकलप्रणायकशिरः शेखरकल्पः पुरुषविशेषः एवंविधप्रश्नानामन्यथानुपपत्तेरित्येवंरूपं, तस्य प्रतिष्ठापनस्य कारणानि - हेतवो यास्तास्तथा तासां, पुनस्ता एव विसिनष्टि-दुरभिगमं दुःखबोधं गम्भीरं सूक्ष्मार्थत्वेन दुरवगाहं च दुःखाध्येयं सूत्रबहुत्वाद्यत्तस्य सर्वेषां सर्वज्ञानां सम्मतं - इष्टं सर्वसर्वज्ञसम्मतं अथवा सर्वं च तत्सर्वज्ञसम्मंत चेति सर्वसर्वज्ञसम्मतं प्रवचनत्त्वमित्यर्थः, तस्य अबुधजनविबोधनकरस्य एकान्तहितस्येति भावः
'पच्चक्खयपच्चयकराणं’ति प्रत्यक्षकेनज्ञानेन साक्षादित्यर्थोयः प्रत्ययः सर्वातिशयनिधानमतीन्द्रियार्थोपदर्शनाव्यभिचारि चेदं जिनप्रवचनमित्येवंरूपा प्रतिपत्ति अथवा प्रत्यक्षेणेवानेनार्था प्रतीयन्त इति प्रत्यक्षमिवेदमित्येवं प्रत्ययः प्रत्यक्षकप्रत्ययस्तत्करणशीलाः- प्रत्यक्षकप्रत्ययकार्य प्रत्यक्षताप्रत्ययकार्यो वा तासां प्रत्यक्षकप्रत्ययकारीणां प्रत्यक्षताप्रत्ययकारीणां वा, कासामित्याहप्रश्नानां-प्रश्नविद्यानां उपलक्षणत्वादन्यासां च यासामष्टोत्तरशतान्यादौ प्रतिपादितानि, विविधगुणाबहुविधप्रभावास्ते च ते माहार्थाश्च महान्तोऽभिधेयाः पदार्था शुभुशुभसूचनादयो विविधगुणमहार्थाः, किंभूता ? - जिनवरप्रणीताः ।
किमित्याह-‘आघविज्जंति' त्ति आख्यायन्ते शेषं पूर्ववत्, नवरं 'पणयालीस 'मित्यादि यद्यपीहाध्ययनानां दशत्वाद्दशेवोद्देशनकाला भवन्ति तथापि वाचनान्तरापेक्षया पञ्चचत्वारिंशदिति सम्भाव्यते इति ‘पणयालीस 'मित्याद्यविरुद्धमिति, 'संखेज्जाणि पयसयसहस्साणि पयग्गेणं' ति तानि च किल द्विनवतिर्लक्षाणि षोडश च सहस्राणीति । १० ।
मू. (२२७) से किं तं विवागसुयं ?, विवागसुए णं सुक्कडदुक्कडाणं कम्माणं फलविवागे आघविज्जंति, से समासओ दुविहे पन्नत्ते, तंजहा दुहविवागे चेव सुहविवागे चेव, तत्थ णं दस दुहविवागाणि दस सुहविवागाणि, से किं तं दुहविवागाणि ?, दुहविवागेसु णं दुहविवागाणं
4 10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org