SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ समवायाङ्गसूत्रम्-२२५ समाधिमुत्तमं ध्यानयोगयुक्ताः उपपन्ना मुनिवरोत्तमा यथा अनुत्तरेषु तथा आख्यायन्त इति प्रक्रमः, तथा प्राप्नुवन्ति यथाऽनुत्तरं 'तत्थ 'त्ति अनुत्तरविमानेषु विषयसुखं तथाऽऽख्यायन्ते इति योगः, 'तत्तो य'त्ति अनुत्तरविमानेभ्यश्च्युताः क्रमेण करिष्यन्ति संयता यथा चान्यक्रियां ते तथाऽऽख्यायन्ते अनुत्तरोपपातिकदशास्विति प्रकृतं, एते चान्ये चेत्यादि पूर्ववत् । नवरं 'दस अज्झयणा तिन्नि वग्ग' त्ति, इहाध्ययनसमूहो वर्गो, वर्गे दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इत्यतस्त्रय एवोद्देशनकाला भवन्तीत्येवमेव च नन्द्यामभिधीयन्ते, इह तु दृश्यन्ते दशेत्यत्राभिप्रायो न ज्ञायत इति, तथा संख्यातानि 'पदसयसहस्साइं पयग्गेणं' ति किल षटचत्वारिंशल्लक्षाण्यष्टौ च सहस्राणि । ९ । १४४ मू. (२२६) से किं तं पण्हावागरणाणि ?, पण्हावागरणेसु अट्टुत्तरं पसिणसयं अट्टुत्तरं अपसिणसयं अद्भुत्तरं पसिणापसिणसयं विज्जाइसया नागसुवन्नेहिं सद्धिं दिव्वा संवाया आघ विज्रंति, पण्हावागरणदसासु णं ससमयपरसमयपन्नवंयपत्ते अबुद्धविविहत्थभासाभासियाणं अइसयगुणउवसमणाणप्पगार आयरियभासियाणं वित्थरेणं वीरमहेसीहिं विविहवित्थरमासियागं च जगहियामं अद्दागंगुट्ठबाहु असिमणिखोम आइचभासियाणं विविहमहापसिणविज्जामणपसिणविज्जादेवयपयोगपहाणगुणप्पगासियाणं सब्भूयदुगुणप्पभावनरगणमइविम्हयकराणं अईसयमईयकालसमयदमसमतित्थकरुत्तमस्स ठिइकरणकारणाणं दुरहिगमदुरवगाहस्स सव्वसव्वन्नुसनम्म अस्स अबुहजणविबोहणकरस्स पञ्चक्खयपञ्च्चयकराणं पण्हाणं विविहगुणमहत्था जिणवरप्पणीया आघविनंति । पण्हावागरणेसु णं परित्ता वायणा संखेज्जा अनुओगदारा जाव संखेज्जाओ संगहणीओ । सेणं अंगट्ठाय दसमे अंगे एगे सुयक्खंधे पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला संखेज्जाणि पयसयसहस्साणि पयग्गेणं प०, संखेज्जा अक्खरा अनंता गमा जाव चरणकरणपरूवणया आघविज्जंति ॥ सेत्तं पण्हावागरणाइं । वृ. 'से किं त' मित्यादि, प्रश्नः - प्रतीतस्तन्निर्वचनं व्याकरणं प्रश्नानां च व्याकरणानां च योगात्प्रश्नव्याकरणानि तेषु 'अट्टुत्तरं पसिणसयं' तत्राङ्गुष्ठबाहुप्रश्नादिका मन्त्रविद्याः प्रश्ना या पुनर्विद्या मन्त्रविधिना जप्यमाना अपृष्टा एव शुभाशुभं कथयन्ति एताः अप्रश्नाः तथाऽङ्गुष्ठादिप्रश्नभावं तदभावं च प्रतीत्य या विद्याः शुभाशुभं कथयन्ति ताः प्रश्ना- प्रश्नाः 'विज्जाइसय'त्ति तथा अन्ये विद्यातिशयाः स्तम्भस्तोभवशीकरण- विद्वेषीकरणोच्चाटनादयः नागसुपर्णैश्च सहभवनपतिविशेषैरुपलक्षणत्वाद्यक्षादिभिश्च सह साधकस्येति गम्यते दिव्याः- तात्त्विकाः संवादाःशुभाशुभगताः संलापाः आख्यायन्ते, एतदेव प्रायः प्रपञ्चयन्नाह - ‘पण्हावागरणदसे’त्यादि, स्वसमयपरसमयप्रज्ञापका ये प्रत्येकबुद्धास्तैः करकड्वादिस६शैर्विविधार्था यका भाषागम्भीरेत्यर्थः तया भाषिताः-गदिताः स्वसमयपरसमयप्रज्ञापकप्रत्येकबुद्धिविवधार्थभाषाभाषितास्तासां किम् ? - आदर्शाङ्गुष्ठादीनां सम्बन्धिनां प्रश्नानां विविधगुणमहार्था प्रश्नव्याकरणदशास्वाख्यायन्त इति योगः पुनः किम्भूतानां प्रश्नानां ? - 'अइसयगुणउवसमनाणप्पगार आयरियभासियाणं' ति अतिशयाश्च - आमर्षौषध्यादयो गुणाश्च ज्ञानादय उपशमश्च-स्वपरभेदः एते नानाप्रकारा येषां ते तथा ते च ते आचार्यश्च तैर्भाषिता यास्तास्तथा तासां, कथं भाषितानामित्याह-' वित्थरेणं' ति विस्तरेण महता वचनसन्दर्भेण तथा स्थिरमहर्षिभिः " For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy