SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ - प्रकीर्णकाः समवायः - १३९ प्रक्रमः, तथा चलितानां च कथञ्चित्कर्मवशतः परीषहादावधीरतया संयमप्रतिज्ञायाः प्रभ्रष्टानां सह देवैर्मानुषाः सदेवमानुषास्तेषां सम्बन्धीनि धीरकरणे-धीरत्वोत्पादने यानि कारणानि ज्ञातानि तानि सदेवमानुषधीरकरणकारणानि आख्यायन्त इति प्रक्रमः । इयमत्र भावना-यथा आर्याषाढो देवेन धीरीकृतो यथा वा मेघकुमारो भगवता शैलकाचार्यो वा पन्थकसाधुना धीरीकृतः एवं धीरकरणकारणानि तत्राख्यायंते, किंभूतानि तानीत्याह- 'बोधनानुशासनानि' बोधनानि-मार्गभ्रष्टस्य मार्गस्थापनानि अनुशासनानि दुःस्थस्य सुस्थतासम्पादनानि अथवा बोधनं-आमन्त्रणं तत्पूर्वकान्यनुशासनानि बोधनानुशासनानि, तथा गुणदोषदर्शनानिसंयमाराधनायां गुणा इतरत्र दोषा भवन्तीत्येवंदर्शनानि वाक्यान्याख्यायन्त इति योगः । तथा दृष्टान्तान् ज्ञातानि प्रत्ययांश्च बोधिकारणभूतानि वाक्यानि श्रुत्वा 'लोकमुनयः ' शुकपरिव्राजकादयो 'यथा' येन प्रकारेण स्थिताः शासने जरामरणनाशनकरे जिनानां सम्बन्धिनीति भावः, तथाऽऽख्यायन्त इति योगः, तथा 'आराहितसञ्जम'त्ति एत एव लौकिकमुनयः संयमं वलिताश्च जिनप्रवचनं प्रपन्नाः पुनः परिपालितसंयमाश्च सुरलोकं गत्वा चैते सुरलोकप्रतिनिवृत्ता उपयान्ति यथा शाश्वतं-सदाभाविनं शिवं - अबाधाकं सर्वदुःखमोक्षं निर्वाणमित्यर्थः, एते चोक्तलक्षणाः अन्ये च 'एवमादिअत्थ’त्ति एवमादय आदिशब्दस्य प्रकारार्थत्वादेवंप्रकारा अर्थाःपदार्थाः, ‘वित्थरेण य’त्ति विस्तरेण चशब्दात् क्वचित्केचित् संक्षेपेण आख्यायन्त इति क्रियायोगः 'नाया धम्मकहासु ण' मित्यादि कण्ठ्यमानिगमनात् । नवरं 'एगूणवीसमझयण' त्ति प्रथमश्रुतस्कन्धे एकोनविंशतिर्द्वितीयं च दशेति, तथा ‘दस धम्मकहाणंवग्गा’ इत्यादौ भावनेयं-इहैकोनविंशतिर्ज्ञाताध्ययनानि दान्तिकार्थज्ञापनलक्षणज्ञातप्रतिपादकत्वात्तानि प्रथमश्रुतस्कन्धे, द्वितीये त्वहिंसादिलक्षणधर्म्मस्य कथा धर्मकथाआख्यानकानीत्युक्तं भवति, तासां च दश वर्गा, वर्ग इति समूहः, ततश्चार्थाधिकारसमूहात्मकान्यद्ययनान्येव दश वर्गा द्रष्टव्याः, तत्र ज्ञातेष्वादिमानि दश यानि तानि ज्ञातान्येव, न तेष्वाख्यायिकादिसम्भवः, शेषाणि नव ज्ञातानि । तेषु पुनरेकैकस्मिन् पञ्चपञ्च चत्वारिंशदधिकानि आख्यायिकाशतानि, तत्राप्येकैकस्यामाख्यायिकायां पञ्च पञ्चोपाख्यायिकाशतानि, तत्राप्येकैकस्यामुपाख्यायिकायां पञ्च पञ्चाख्यायिकोपाख्यायिकाशतानि, एवमेतानि संपिण्डितानि कं सञ्जातं । 119 11 इगवीसं कोडिसयं लक्खा पन्नासमेव बोद्धव्वा । एवं ठिए समाणे अहिगयसुत्तस्स पत्थारो । तद्यथा 'दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पञ्च पञ्च अक्खाइयासयाई एगमेगाए अक्खाइयाए पञ्च पञ्चउवक्खाइयासयाइं एगमेगा उवक्खाइयाए पञ्च पञ्च अक्खाइउवक्खाइयासयाइं 'ति, एवमेतानि सम्पिण्डितानि किं संजातं । 119 11 पणवीसं कोडिसयं एत्थ य समलक्खणाइया जम्हा । नवनाययसंबद्धा अक्खाइयमाइया तेणं ॥ ते सोहिजंति फुडं इमाउ रासीओ वेगलाणं तुं । पुणरुत्तवज्जियाणं पमाणमेयं विणिदिट्टं ॥ शोधिते चैतस्मिन् सति अर्द्धचतुर्था एव कथानककोटयो भवन्तीति, अत एवाह-'एवमेव For Private & Personal Use Only www.jainelibrary.org ॥२॥ Jain Education International
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy