________________
१३८
समवायाङ्गसूत्रम्-२२२
चित्तस्वास्थ्यं मति-बुद्धिर्व्यवसायः-अनुष्ठानोत्साह इति; तथा तपसि नियमः-अवश्यकरणं तपोनियमोनियन्त्रितंतपःसचतपउपधानंचानियन्त्रितंतप एवश्रुतोपचारः तपोनियमतउपपधाने ते एव रणश्च-कातरजनक्षोभकत्वात् सङ्ग्रामो 'दुद्धरभर'त्ति श्रमकारणत्वाद्दुर्द्धरभरश्च-दुर्वहलोहादिभारस्ताभ्यां भग्ना इति(एव)-भग्नकाः-पराङ्मुखीभूतास्तथा
निस्सहगनिसट्ठाणं ति निसहा-नितरामशक्तास्त एव निसहका निसृष्टाश्च-निसृष्टाङ्गा मुक्ताङ्गा ये ते तपोनियमतपउपधानरणदुर्धरभरभग्नकनिसहकनिसृष्टाः, पाठान्तरेण निसहकनिविष्टास्तेषा, इह च प्राकृतत्वेन ककारलोपसन्धिकरणाभ्या भग्ना इत्यादौ दीर्घत्वमवसेयं, तथा घोरपरीषहैः पराजिताश्चासहाश्च-असमर्था सन्तः पारब्धाश्च-परीषहैरेव वशीकर्तुंरुद्धाश्च मोक्षमार्गमनेयेते घोरपरीषहपराजितासहप्रारब्धरुद्धाः अत एव सिद्धालयमार्गात्-ज्ञानादेर्निर्गताःप्रतिपतिता येतेतथातेचतेचेतितेषां घोरपरीषहपराजितासहप्रारब्धरुद्धसिद्धालयमार्गनिर्गतानां, पाठान्तरेण घोरपरीषहपराजितानां तथा सहयुगपदेव परीषहैर्विशिष्टगुणश्रेणिमारोहन्तः प्ररुद्धरुद्धाः-अतिरुद्धाः सिद्धालयमार्गनिर्गताश्च येतेतथा तेषां सहप्ररुद्धसिद्धालयमार्गनिर्गतानां
–तथा विषयसुखेषुतुच्छेषुस्वरूपतःआशावशदोषेण-मनोरथपारतन्त्र्यवैगुण्येन मूर्छिताअध्युपपन्ना ये ते तथा तेषां विषयसुखतुच्छाशावशदोषमूर्छितानां पाठान्तरेण विषयसुखे या महेच्छा कस्यांचिदवस्थायांयाचावस्थान्तरेतुच्छाशा तयोर्वशः-पारतव्यं तल्लक्षणेनदोषेणमूर्छिता येतेतथा तेषांविषयसुखमहेच्छतुच्छाशावशदोषमूर्छितानां, तथा विराधितानिचारित्रज्ञानदर्शनानि यैस्ते तथा, तथा यतिगुणेषु विविधप्रकारेषु मूलगुणोत्तरगुणरूपेषु निःसाराः-सारवर्जिताः पलञ्जिप्रायगुणधान्या इत्यर्थः, तथा तैरेव यतिगुणैः शून्यकाः सर्वथाअभावाद्ये तेतथेति, पदत्रयस्य च कर्मधारयोऽतस्तेषां विराधितचारित्रज्ञानदर्शनयतिगुणविविधप्रकारनिःसारशून्यकानां, किमत आह-संसारे-संसृतौ अपारदुःखा-अनन्तक्लेशा ये दुर्गतिषुनारकतिर्यक्कुमानुषकुदेवत्वरूपासु भवा-भवग्रहणानि तेषां ये विविधाः परम्पराः-पारम्पर्याणि तासां ये प्रपञ्चास्ते संसारापारदुर्गतिभवविविधपरम्परा प्रपञ्चाः ।
आख्यायन्तेइतिपूर्वेण योगः, तथा धीराणांच-महासत्त्वानां, किंभूतानां? -जितंपरीषहकषायसैन्यं यैस्ते तथा, धृतेः-मनःस्वास्थ्यस्यधनिकाः-स्वामिनोधृतिधनिकाः तथा संयमे उत्साहोवीर्यं निश्चितः-अवश्यंभावी येषां संयमोत्साहनिश्चितास्ततः पदत्रयस्य कर्मधारयोऽतस्तेषां जितपरीषहकषायसैन्यधृतिधनिकसंयमोत्साहनिश्चितानां, तथा आराधिता ज्ञानदर्शनचारित्रयोगा यैस्ये तथा निशल्यो-मिथ्यादर्शनादिशल्यरहितः शुद्धश्च-अतीचारविमुक्तो यः सिद्धालयस्यसिद्धेर्यो मार्गस्तस्याभिमुखा ये ते तथा ततः पदद्वयस्य कर्मधारयःअतस्तेषामाराधितज्ञानदर्शनचारित्रयोगनिशल्यशुद्धसिद्धालयमार्गाभिमुखानां ।
किमत आह-सुरभवने-देवतयोत्पादेयानि विमानसौख्यानि तानिसुरभवनविमानसौख्यानि अनुपमानि ज्ञाताधर्मकथास्वाख्यायन्त इति प्रक्रमः, इह च भवनशब्देन भवनपतिभवनानि न व्याख्यातान्यविराधितसंयमप्रवजितप्रस्तावात्, ते हि भवनपतिषु नोत्पद्यन्त इति, तथा मुक्त्वा चिरं च भोगभोगान्-मनोज्ञशब्दादीन् तांस्तथाविधान् दिव्यान्-स्वर्गभवान् ‘महार्हान्' महतःआत्यन्तिकान् अर्हान्-प्रशस्ततया पूज्यानिति भावः, ततश्च-देवलोकात् कालक्रमच्युतानां यथा पुनर्लब्धसिद्धिमार्गाणां-मनुजगताववाप्तज्ञानादीनामन्तक्रिया-मोक्षो भवति तथाऽऽख्यायन्त इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org