________________
१३६
समवायाङ्गसूत्रम्-२२१
'जिनेने 'ति भगवता महावीरेण ' वित्थरेण भासियाणं' विस्तरेण भणितानामित्यर्थः पुनः किंभूतानां ? -
'दव्वे' त्यादि, द्रव्यगुणक्षेत्रकालपर्यवप्रदेशपरिणामावस्थायथास्तिभावाऽनुगमनिक्षेपनयप्रमाणसुनिपुणोपक्रमैर्विविधप्रकारैः प्रकटः प्रदर्शितो यैव्यार्करणैस्तानि तथा तेषां तत्र द्रव्याणि-धर्मास्तिकायादीनि गुणाः ज्ञानावर्णादयः क्षेत्रं - आकाशं कालः- समयादि पर्यवाः स्वपरभेदभिन्ना धर्म्माः अथवा कालकृता अवस्था नवपुराणादयः पर्यवाः प्रदेशा- निरंशावयवाः परिणामाःअवस्थातोऽवस्थातरगमनानि यथा-येन प्रकारेणास्तिभावः अस्तित्वं-सत्ता यथाऽस्तिभावं अनुगमःसंहितादिव्याख्यानप्रकाररूपः उद्देशनिर्देशनिर्गमादिद्वारकलापात्मको वा निक्षेपो-नामस्थापनाद्रव्यभावैर्वस्तुनो न्यासः 'नयप्रमाणं' नया-नैगमादयः सप्त द्रव्यास्तिकपर्यायास्तिकभेदात् ज्ञाननयक्रियानयभेदान्निश्चयव्यवहारभेदाद्वा द्वौ ते एव तावेव वा प्रमाणं-वस्तुतत्त्परिच्छेदनं नयप्रमाणं तथा सुनिपुणः-सुसूक्ष्मः सुनिपुणो वा सुष्ठु निश्चितगुण उपक्रमः अनुपूर्व्यादिः, विविधप्रकारता चैषां भेदभणनत एवोपदर्शितेति, पुनः किंभूतानां व्याकरणानां ?
लोकालोकौ प्रकाशितौ येषु तानि तथा तेषां तथा 'संसारसमुद्दरुंदउत्तरणसमत्थाणं' ति संसारसमुद्रस्य रुंदस्य- विस्तीर्णस्य उत्तरणे-तारणे समर्थानामित्यर्थः अत एव सुरपतिसंपूजितानांप्रच्छकनिर्णायकपूजनात् सूक्तत्वेन श्लाधितत्वाद्वा तथा 'भवियजणपयहिययाभिणंदियाणं ति भव्यजनानां भव्यप्राणिनां प्रजा-लोको भव्यजप्रजा भव्यजनपदो वा तस्यास्तस्य वा हृदयैःचित्तैरभिनन्दितानां-अनुमोदितानामिति विग्रहः, तथा तमोरजसी अज्ञानपात के विध्वंसयतिनाशयति यत्तत्तमोरजोविध्वंसं तच्च तद् ज्ञानं च तमोरजोविध्वंसज्ञानं तेन सुष्ठु दृष्टानि-निर्णीतानि यानि तानि तथा अत एव तानि च तानि दीपभूतानि चेति, अथ एव तानि ईहामतिबुद्धिवर्द्धनानि चेति तेषां तमोरजोविध्वंसज्ञानुष्टदीपभूतेहामतिबुद्धिवर्द्धनानां, तत्र ईहा-वितर्को मति- अवायो निश्चय इत्यर्थ: बुद्धिः - औत्पत्तिक्यादिचतुर्विधेति, अथवा तमोरजोविध्वंसनानामिति पृथगेव पदं पाठान्तरेण सुदृष्टदीपभूतानामितिच, तथा 'छत्तीससहरसमणूणयाणं' ति अन्यूनकानि षट्त्रिंशत् सहस्राणि येषां तानि तथा, इह मकारोऽन्यथा पदनिपातश्च प्राकृतत्वादनवद्य इति ।
'वागरणाणं'ति व्याक्रियन्ते-प्रश्नानन्तरमुत्तरतयाऽभिधीयन्ते निर्णायकेन यानि तानि व्याकरणानि तेषां दर्शनात्-प्रकाशनादुपनिबन्धनादित्यर्थः, अथवा तेषा दर्शना उपदर्शका इत्यर्थः, क इत्याह- 'सुतत्थबहुविहप्पयारे' त्ति श्रुतविषया अर्थाः श्रुतार्था अभिलाप्यार्थविशेषा इत्यर्थः श्रुता वा आकर्णिता जिनसकाशे गणधरे ये अर्थास्ते श्रुतार्थाः, अथवा श्रुतमिति सूत्रं अर्थानिर्युक्त्यादय इति श्रुतार्थास्ते च ते बहुविधप्रकाराश्चेतिविग्रहः श्रुतार्थानां वा बहवो विधा:-प्रकारा इति विग्रहः, किमर्थं ते व्याख्यायन्त इत्याह- 'शिष्यहितार्थाय ' शिष्याणां हितं अनर्थप्रतिघातार्थप्राप्तिरूपं तदेवार्थः प्रार्ध्यमानत्वात्तस्य तस्मै इति, किंभूतास्ते अत आह-गुणहस्ता-गुण एवार्थप्राप्तयादिलक्षणो हस्त इव हस्तः प्रधानावयवो येषां ते तथा ।
'वियाहस्से' त्यादि तु निगमनान्तं सूत्रसिद्धं, नवरं शतमिहाध्ययनस्य संज्ञा, चतुरशीति पदसहस्राणि पदाग्रेणेति समवायापेक्षया द्विगुणताया इहानाश्रयणादन्यथा तद्विगुणत्वे द्वे लक्षे अष्टाशीतिसहस्राणि च भवन्तीति ।
मू. (२२२) से किं तं नायाधम्मकहाओ ?, नायाधम्मकहासु णं नायाणं नगराई उज्जाणाइ चेइआई वनखंडा रायाणो ५ अम्मापियरो समोसरणाइं धम्मायरिया धम्मकहाओ इहलोइय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org