SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १३४ य निगमा य समाए एए अन्ने य एवमाइ एत्थ वित्थरेणं अत्था समाहिज्जूंति । समवायस्स णं परित्ता वायणा जाव से णं अङ्गट्टयाए । 1 चउत्थे अंगे एगे सुयक्खंध एगे अज्झयणे एगे उद्देसणकाले एगे चउयाले पदसहस्से पदग्गेणं प०, संखेज्जाणि अक्खराणि जाव चरणकरणपरुवणया आघविज्जंति । सेत्तं समवाए ४ वृ. ‘से किंत' मित्यादि, अथ कोडसौ समवायः ?, सूत्रेषु प्राकृतत्वेन वकारलोपात् समाये इत्युक्तं, समवायनं समवायः सम्यक् परिच्छेद इत्यर्थः, तद्धेतुश्च ग्रन्थोऽपि समवायः, तथा चाहसमवायेन समवाये वा स्वसमयाः सूच्यन्ते इत्यादि कण्ठयं, तथा समवायेन समवाये वा 'एगाइयाणं' - ति एकद्वित्रिचतुरादीनां शतान्तानां कोटाकोट्यन्तानां वा 'एगत्थाणं' ति एके चते अर्थाश्चेत्येकार्थास्तेषां अयमर्थ एकेषां केषाञ्चित् न सर्वेषां निखिलानां वक्तुमशक्यत्वादर्थानांजीवादीनां ‘एगुत्तरिय'त्ति एक उत्तरो यस्यां सा एकोत्तरा सैव एकोत्तरिका, इह प्राकृतत्वात् ह्रस्वत्वं, 'परि- बुड्डिय'त्त परिवृद्धिश्चेति समनुगीयते समवायेनेति योगः, तत्रं च परिवर्द्धन संख्यायाः समवसेयं, चशब्दस्य चान्यत्र सम्बन्धादेकोत्तरिका अनेकोत्तरिका च, तत्र शतं यावदेकोत्तरिका परतोऽनेकोत्तरिकेति, तथा द्वादशाङ्गस्य च गणिपिटकस्य 'पल्लवग्गे' त्ति पर्यवपरिमाणं अभिध`यादितद्धर्मसंख्यानं यथा ‘परित्ता तसा' इत्यादि पर्यवशब्दस्य च 'पल्लव'त्ति निर्देशः प्राकृतत्वात् पर्यङ्कः पल्यङ्कइत्यादिवदिति, अथवा पल्लवा इव पल्लवाः- अवयवास्तत्परिमाणं 'समणुगाइज्जति' त्तिसमनुगीयते - प्रतिपाद्यते, पूर्वोक्तमेवार्थं प्रपञ्चयन्नाह - 'ठाणगसयस्स' त्ति स्थानकशतस्यैकादीनां शतान्तानां संख्यास्थानानां तद्विशेषात्मादिपदार्थानामित्यर्थः, तथा द्वादशविधो विस्तरो यस्याचारादिभेदेन तत् द्वादशविधविस्तरं तस्य श्रुतज्ञानस्य - जिनप्रवचनस्य किंभूतस्य ? -जगज्जीवहितस्य, 'भगवतः' श्रुतातिशययुक्तस्य 'समासेन' संक्षेपेण समाचारः - प्रतिस्थानं प्रत्यङ्गंच विविधाभिधायकत्वलक्षणो व्यवहारः ‘आहिज्जइ' त्ति आख्यायते, अथ समाचाराभिधानानन्तरं यदुक्तं तदभिधातुमाह - समवायाङ्गसूत्रम्-२२० 'तत्थ ये' त्यादि, 'तत्थ य'त्ति तत्रैव समवाये इति योगः नानाविधः प्रकारो येषां ते नानाविधप्रकाराः तथाहि-एकेन्द्रियादिभेदेन पञ्पप्रकारा जीवाः पुनरेकैकः प्रकारः पर्याप्तापर्याप्तादिभेदेन नानाविधः, ‘जीवाजीवा य'त्ति जीवा अजीवाश्च वर्णिता 'विस्तरेण' महता वचनसन्दर्भेण, अपरेऽपि च बहुविधा 'विशेषा' जीवाजीवधर्म्मा वर्णिता इति योगः, तानेव लेशत आह-'नरये' त्यादि, ‘नरय'त्ति निवासनिवासिनामभेदोपचारान्नारकाः, ततश्च नारकतिर्यग्मनुजसुरगणानां सम्बन्धिन आहारादयः, तत्र आहारः-ओजआहारादिराभोगिकानाभोगकस्वरूपोऽनेकधा उच्छ्वासोऽनुसमयादिकालभेदेनानेकधा लेश्या कृष्णादिका षोढा आवाससंख्या यथा नरकावासानां चतुरशीतिर्लक्षाणीत्यादिका आयतप्राणमावासानामेव संख्यातासंख्यातयोजनायामता उपलक्षणत्वादस्य विष्कम्भबाहल्यपरिधिमानान्यप्यत्र द्रष्टव्यानि, उपपात एकसमयेनैतावतामेतावता वा कालव्यवधानोत्पत्ति च्यवनमेकसमयेनैतावतामियता वा कालव्यवधानेन मरणं । अवगाहना - शरीरप्रमाणमङ्गुलासंख्येयभागादि अवधि-अङ्गुलासंख्येयभागक्षेत्रविषयादि वेदना - शुभाशुभस्वभावा विधानानि-भेदा यथा सप्तविधा नारका इत्यादि उपयोगः - आभिनिबोधिकादिर्द्वादशविधः योगः-पञ्चदशविधः इन्द्रियाणि पञ्च द्रव्यादिभेदाद् विंशतिर्वाश्रोत्रादिच्छिद्रापेक्षयाऽष्टौ वा कषायाः क्रोधादयः आहारश्चोच्छ्वासश्चेत्यादिर्द्वन्द्वस्ततः कषायशब्दा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy