________________
समवायः - प्रकीर्णकाः
'आयार'त्ति आचारग्रन्थस्य णमित्यलङ्कारे 'परित्ता संख्येया आद्यन्तोपलब्धेर्नानन्ता भवन्तीत्यर्थः, काः ?-वाचनाः- सूत्रार्थप्रदानलक्षणाः, अवसर्पिण्युत्सर्पिणीकालं वा प्रतीत्य, ‘परीते’ति संख्येयान्यनुयोगद्वाराणि उपक्र मादीनि, अध्ययनानामेव संख्येयत्वात् प्रज्ञापकवचनगोचरत्वाच्च 'संखेज्जा वेढ' त्ति वेष्टकाः छन्दोविशेषाः, एकार्थप्रतिबद्धवचनसङ्कलिकेत्यन्ये, 'संखेज्जा सिलोग' त्ति श्लोकाः- अनुष्टुपछन्दांसि 'संख्याताः निर्युक्तयः' निर्युक्तानां सूत्रेऽभिधेयतया व्यवस्थापितानामर्थानां युक्तिः-घटना विशिष्टा योजना निर्युक्तयुक्ति, एतस्मिंश्च वाक्ये युक्त शब्दलोपान्निर्युक्तिरित्युच्यते, एताश्च निक्षेपनिर्युक्त्याद्याः संख्येया इति ।
'से ण' मित्यादि स आचारो णमित्यलङ्कारे 'अङ्गार्थतया' अङ्गलक्षणवस्तुत्वेन प्रथमम स्थापनामधिकृत्य, रचनापेक्षया तु द्वादशमङ्ग, प्रथमं पूर्वं तस्य सर्वप्रवचनात् पूर्वं क्रि यमाणत्वादिति, द्वौ श्रुतस्कन्धी अध्ययनसमुदायलक्षणौ, पञ्चविंशतिरध्ययनानि, तद्यथा" सत्थपरिण्णा १ लोगविजओ २ सीओसणिज ३ संमत्तं ४ । आवंति ५ धुय ६ विमोहो ७ महापरिण्णो ८ वहाणसुयं ९ ॥ - इति प्रथमः श्रुतस्कन्धः -
119 11
---
॥ २ ॥ “पिंडेसण १ सेजि २ रिया ३ भासज्जाया य ४ वत्थ ५ पाएसा ६ । उग्गहपडिमा ७ सत्तसत्तिक्कया १४ भावण १५ विमुत्ती १६ ॥ -इति द्वितीयः श्रुतस्कन्धः -
एवमेतानि निशीथवर्णानि पञ्चविंशतिरध्ययनानि, तथा पञ्चाशीतिरुद्देशनकालाः, कथं ?, उच्यते, अङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य चैतेषां चतुर्णामप्येक एवोद्देशनकालः, एवं शस्त्रपरिज्ञादिषु पञ्चविंशतावध्ययनेषु क्रमेण सप्त १ षट् २ चतु ३ श्चतुः ४ षट् ५ पञ्च ६ अष्ट ७ सप्त ८ चतु ९ रेकादश १० त्रि ११त्रि १२ द्वि १३ द्वि १४ द्वि १५ १६ संख्या उद्देशनकालाः षोडशस्वध्ययनेषु शेषेषु नवसु नवैवेति, इह सङ्ग्रहगाथा ।
119 11
“सत्त य छ चउ चउरो छ पञ्च अट्टेव सत चउरो य । एक्कारा ति ति दो दो दो दो सत्तेक्क एक्कोय ॥
एवं समुद्देशनकाला अपि भणितव्याः, अष्टादश पदसहस्राणि पदाग्रेण प्रज्ञप्तः, इह यत्रार्थोपलब्धिस्तत्पदं, ननु यदि द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनान्यष्टादश पदसहानणि पदाग्रेण भवन्ति ततो यद्भणितं “नवबंभचेरमइओ अट्ठारसपदसहस्सिओ वेउ"त्ति तत्कथं न विरुध्यते ?, उच्यते यत् द्वौ श्रुतस्कन्धावित्यादि तदाचारस्य प्रमाणं भणितं यत्पुनरष्टादश पदसहस्राणि तन्नवब्रह्मचर्य्याध्ययनात्मकस्य प्रथमश्रुतस्कन्धस्य प्रमाणं ।
विचित्रार्थबद्धानि च सूत्राणि, गुरुपदेशतस्तेषामर्थोऽवसेय इति, संख्येयानि अक्षराणि, वेष्टकादीनां संख्येयत्वात्, अनन्ता गमाः, इह गमाः - अर्थगमा गृह्यन्ते अर्थपरिच्छेदा इत्यर्थः, ते चानन्ताः, एकस्मादेव सूत्रात्तत्तद्धर्मविशिष्टानन्तधर्म्मात्मकवस्तुप्रतिपत्तेः अन्ये तु व्याचक्षतेअभिधानाभिधेयवशतो गमा भवन्ति, ते चानन्ताः, मनन्ताः पर्यायाः स्वपरभेदभिन्ना अक्षरार्थपर्याया इत्यर्थः, परित्तनासा आख्यायन्त इति योगः ।
त्रसन्तीति त्रसा:
१२९
- द्वीन्द्रियादयस्ते च परीत्ता नानन्ताः, एवंरूपत्वादेव तेषां, अनन्ताः स्थावरा
4
9
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org