SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२८ समवायाङ्गसूत्रम्-२१५ सेएवंनायाएवं विण्णायाएवंचरणकरणपरूवणयाआधविजंति पण्णविजंति परूविजंति दंसिघ्रति निदंसिर्जति उवदंसिजंति । सेत्तं आयारे। वृ. 'दुवालसंगे' इत्यादि, अथवोत्तरोत्तरसंख्याक्रमसंबद्धार्थप्ररूपणमनन्तरमकारि, साम्प्रतं संख्यामात्रसंबद्धपदार्थप्ररूपणायोपक्रम्यते-'दुवालसंगे' इत्यादि, तत्र श्रुतपरमपुरुषस्याङ्गानीवाङ्गानि, द्वादशाङ्गानि-आचारादीनि यस्मिंतवादशाङ्गं, गुणानां गणोऽस्यास्तीतिगणीआचार्यस्तस्य पिटकमिव पिटकं-सर्वस्वभाजनं गणिपिटकं, अथवा गणिशब्दः परिच्छेदवचनः, तथा चोक्तम् ॥१॥ “आयामि अहीए जंनाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणिट्ठाणं॥ परिच्छेदस्थानमित्यर्थः, ततश्च परिच्छेदसमूहो गणिपिटकं, अत्रचैवंपदघटना-यदेतद्गणिपि टकं तत् द्वादशाङ्गं प्रज्ञप्तं, तद्यथा-आचारः सूत्रकृत इत्यादि। ‘से किंत'मित्यादि, अथ किं तदाचारवस्तु? यद्वा अथ कोऽयमाचारः?, आचर्यत इति वा आचारः साध्वाचरितो ज्ञानाद्यासेवनविधिरितिभावार्थः, एतत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते, 'आयारेणं'तिअनेनाचारेण करणभूतेन श्रमणानामाचा व्याख्यायत इति योगः, अथवाआचारेऽधिकरणभूतेणमिति वाक्यालङ्कारे श्रमणानां तपःश्रीसमालिङ्गितानां निर्ग्रन्थानां' सबाह्याभ्यन्तरग्रन्थरहितानां, आह-श्रमणा निर्ग्रन्था एव भवन्तीति विशेषणं किमर्थमिति ?, उच्यते, शाक्यादिव्यवच्छेदार्थम्, उक्तं च-"निग्गंथसक्क तावसगेरुयआजीव पंचहा समणत्ति तत्राचारो-ज्ञानाद्यनेकभेदभिन्नः गोचरो-भिक्षाग्रहणविधिलक्षणो विनयो-ज्ञानादिविनयः वैनयिकं-तत्फलं कर्मक्षयादिस्थानं-कायोत्सग्र्गोपवेशनशयनभेदात्रिरूपंगमन-विहारभूम्यादिषु गतिश्चमणं-उपाश्रयान्तरे शरीरश्रमव्यपोहार्थितस्ततः सञ्चरणंप्रमाणं-भक्तपानाभ्यवहारोपध्यादेर्मानं योगयोजन-स्वाध्यायप्रत्युपेक्षणादिव्यापारेषु परेषां नियोजनं भाषाः-संयतस्य भाषाः सत्यासत्यामृषारूपाः समितयः-ईर्यासमित्याद्याः पञ्च गुप्तयो-मनोगुप्त्यादयस्तिस्रः तथा शय्या च-वसतिरुपधिश्च-वस्त्रादिकोभक्तंच-अशनादि पानंच-उष्णोदकादीति द्वन्द्वः,तथा उद्गमोत्पादनैषणालक्षणानांदोषाणां विशुद्धिः-अभाव उद्गमोत्पादनैषणाविशुद्धिस्ततः शय्यादीनामुद्गमादिविशुध्या शुद्धानां तथाविधकारणेऽशुद्धानांच ग्रहणं शय्यादिग्रहणं । तथा व्रतानि-मूलगुणा नियमाः-उत्तरगुणास्तपउपधानं-द्वादशविधंतपः, तत आचारश्च गोचरश्चेत्यादि यावद्गुप्तयश्च शय्यादिग्रहणं च व्रतानि च नियमाश्च तपउपधानं चेति समाहारद्वन्द्वस्ततस्तच्च तत्सुप्रशस्तं चेतिकर्मधारयः, एतत्सर्वमाख्यायते-अभिधीयते, एतेषुआचारदिपदेषु यत्र क्वचिदन्यतरोपादाने अन्यतरस्य गतार्थस्याभिधानं तत्सर्वं तत्प्राधान्यख्यापनार्थमेवेत्यवसेयमिति __‘से समासओ' इत्यादि, सःआचारो यमधिकृत्य ग्रन्थस्याचार इति संज्ञा प्रवर्तते 'समासतः' संक्षेपतः पञ्चविधः प्रज्ञप्तः, तद्यथा-ज्ञानाचारइत्यादि, तत्रज्ञानाचार:-श्रुतज्ञानविषयः कालाध्ययनविनयाध्ययनादिरूपोव्यवहारोऽष्टधा 'दर्शनाचारः' सम्यक्त्ववतांव्यवहारोनिशङ्कितादिरूपोऽष्टधा 'चारित्राचारः' चारित्रिणां समित्यादिपालनात्मको व्यवहारः 'तपआचारो' द्वादशविधपतपोविशेषानुष्ठितिः ‘वीर्याचारो' ज्ञानादिप्रयोजनेषु वीर्यस्यागोपनमिति । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy