SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ समवायः - प्रकीर्णकाः १२५ प० मूले दस दस जोयणसयाइं विक्खंमेणं प०, सव्वत्थ समा पल्लगसंठाणसंठियाप०, सव्वेवि णं हरिहरिरसहकूडा वक्खारकूडवज्जा दस दस जोयणसयाई उड्डुं उच्चत्तेणं प०, मूले दस जोयणसयाई विक्खंभेणं, एवं बलकूडावि नंदनकूडवज्जा । अरहावि अरिट्ठनेमी दस वाससयाइं सव्वाउयं पालइत्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे, पासस्स णं अरहओ दस सयाइं जिणाणं होत्था, पासस्स णं अरहओ दस अन्तेवासीसयाइं कालगयाई जाव सव्वदुक्खप्पहीणाइं । पउमद्दहपुंडरीयद्दहा य दस दस जोयणसयाइं आयामेणं प० । वृ. 'सव्वेवि णं जमगे' त्यादि, उत्तरकुरुषु नीलवद्वर्षधरस्य-उत्तरतः शीताया महानद्या उभयोः कूलयोर्द्वी यमकाभिधानौ पर्वतौ स्तः, ते च पञ्चस्वप्युत्तरकुरुषु द्वयोर्द्वयोर्भावाद्दश, एवं 'चित्तविचित्तकूडावि' त्ति पञ्चसु देवकुरुषु यमकवत्तत्सद्भावात् पञ्च चित्रकूटाः पञ्च विचित्रकूटा इति, 'सव्वेविण' मित्यादि, सर्वेऽपि वृत्ता वैताढ्या विंशति शब्दापात्यादयः, 'सव्वेवि णं हरी' त्यादि, हरिकूटं विद्युत्प्रभाभिधाने गजदन्ताकारवक्षस्कारपर्वते हरिसहकूटं तु माल्यवद्वक्षस्कारे, तानि च पञ्चस्वपि मन्दरेषु भावात् पञ्च पञ्च भवन्ति सहोच्छ्रितानि च, 'वक्खारकूडवज्ज' त्ति शेषवक्षस्कारकूटेष्वेवमुच्चत्वं नास्त्येतेष्वेवास्तीत्यर्थः, एवं 'बलकूडावि' त्तिपञ्चसुमन्दरेषु पञ्च नन्दनवनानि तेषु प्रत्येकमैशान्या दिशि बलकूटाभिधानं कूटमस्ति, ततः पञ्च तानि सहोच्छ्रितानि च, 'नन्दनकूडवज' त्ति शेषाणि नन्दनवनेषु प्रत्येकं पूर्वादिदिग्विदिग्व्यवस्थितानि चत्वारिंशत्संख्यानि नन्दनकूटानि वर्जयित्वा तानि साहनिकाणि न भवन्तीत्यर्थः । 'अरहंते' त्यादि, कुमारत्वे त्रीणि वर्षशतान्यनगारत्वे सप्तेत्येवं दश शतानि, 'पउमद्दहपुंडरीयद्दह' त्ति पद्महदः श्रीदेवीनिवासो हिमवद्वर्षधरपर्वतोपरिवर्त्ती पुण्डरीकहदो लक्ष्मीदेवीनिवासः शिखरिवर्षधरोपरिवर्त्तीति । मू. (१९३) अनुत्तरोववाइयां देवाणं विमाणा एक्कारस जोयणसयाई उड्डुं उच्चत्तेगं प० । पासस्स णं अरहओ इक्कारस सयाइं वेउव्वियाणं होत्था । मू. (१९४) महापउममहापुंडरीयदहाणं दोदो जोयणसहस्साइं आयामेणं प० । वृ. तथा महापद्ममहापुण्डरीकहदी महाहिमवद्रुक्मिवर्षधरयोरुपरिवर्त्तिनौ ह्रीबुद्धिदेव्योर्निवासभूताविति । मू. (१९५) इमीसे णं रयणप्पभाए पुढवीए वइरकंडस्स उवरिल्लाओ चरमंताओ लोहियक्खकंडस्स हेट्ठिल्ले चरमंते एस णं तिन्नि जोणसहस्साइं अबाहाए अंतरे प० । वृ. इमीसेणं रयणे त्यादि, अयमिह भावार्थ:- रत्नप्रभापृथिव्याः प्रथमस्य षोडशविभागस्य खरकाण्डाभिधानकाण्डस्य प्रथमं रत्नकाण्डं वज्रकाण्डं नाम काण्डं द्वितीयं वैडूर्यकाण्डं तृतीयं लोहिताक्षकाण्डं चतुर्थं तानि च प्रत्येकं साहस्रिकाणीति त्रयाणां यथोक्तमन्तरं भवतीति । मू. (१९६) तिगिच्छिकेसरिदहाणं चत्तारि चत्तारि जोयणसहस्साइं आयामेणं प० । वृ. तिगिच्छिकेसरिहदीनिषधनीलवद्वर्षधरोपरिस्थिती धृतिकीर्त्तिदेवीनिवसाविति । मू. (१९७) धरणितले मंदरस्स णं पव्वयस्स बहुमज्झदेसभाए रुयगनाभीओ चउदिसि पञ्च २ जोयणसहस्साइं अबाहाए अंतरे मंदरपव्वए प० । वृ. 'धरणितले' इत्यादि, धरणितले धरण्यां समे भूभाग इत्यर्थ, 'रुयगनाभीओ' त्ति । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy