SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १२० समवायाङ्गसूत्रम्-९८/१७७ ज्येष्ठापर्यवसानानि तानि च तानिचेतिकर्मधारयः तेषामेकोनविंशतेनक्षत्राणामष्टनवतिस्तारास्तारापरिमाणेन प्रज्ञप्ताः, तथाहि-रेवतिनक्षत्रं द्वात्रिंशत्तारं ३२ अश्विनि त्रितारं ३५ भरणी ३८ कृत्तिका षट्तारं ४४ रोहिणी पञ्चतारं ४९ मृगशिरस्त्रितारं ५२ आर्द्रा एकतारं ५३ पुनर्वसुः पञ्चतारं ५८ पुष्यस्त्रितारं ६१ अश्लेषाषट्तारं ६७ मघा सप्ततारं ७४ पूर्वाफाल्गुनी द्वितारं७६ उत्तरााल्गुनी द्वितारं ७८ हस्तः पञ्चतारं ८३ चित्रा एकतारं ८४ स्वातिरेकतारं ८५ विशाखा पञ्चतारं९० अनुराधा चतुस्तारं९४ ज्येष्ठात्रितारमित्येवं७९ सर्वतारामीलने यथोक्तंताराग्रमेकोनं ग्रन्थान्ताराभिप्रायेणभवति, अधिकृतग्रन्थाभिप्रायेण त्वेषामेकतरस्य एकताराधिकत्वंसम्भाव्यते ततो यथोक्ता तत्संख्या भवतीति। समवायः-९८ समाप्तः (समवायः-९९) मू. (१७८) मंदरेणं पव्वए नवनउइ जोयणसहस्साइंउडं उच्चत्तेणं प०, नंदनवनस्सणं पुरच्छिमिल्लाओ चरमंताओ पञ्चच्छिमिल्ले चरमंते एस णं नवनउइ जोयणसयाइं अबाहाए अंतरे प०, एवं दक्खिणिलाओ चरमंताओ उत्तरिल्ले चरमंते एस णं नवनउइ जोयणसयाइं अबाहाए अंतरे प०। - उत्तरे पढमे सूरियमंडले नवनउइजोयणसहस्साइंसाइरेगाइं आयामविक्खंभेणंप०, दोच्चे सूरिंडले नवनउइ जोयणसहस्साइंसाहियाइंआयामविक्खंभेणं प०, तइए सूरियमंडले नवनउइ जोयणसहस्साइं साहियाइं आयामविक्खंभेणं प०।। इमीसे णं रयणप्पभाए पुढवीए अंजणस्स कंडस्स हेछिल्लाओ चरमंताओ वाणमंतरभोमेजविहाराणं उवरिमंते एस णं नवनउइ जोयणसयाइं अबाहाए अंतरे प० । वृ. अथ नवनवतिस्थानकेकिमपिलिख्यते-'नंदनवणे'त्यादि, अस्य भावार्थः -मेरुविष्कम्भो मूले दश सहस्राणि, नन्दनवनस्थाने तु नवनवतिर्योजनशतानि चतुःपञ्चाशच्च योजनानि षट् योजनै-कादशभागा बाह्योगिरिविष्कम्भो नन्दनवनाभ्यन्तरस्तुमेरुविष्कम्भ एकोननवतिशतानि चतुःपञ्चाशदधिकानि षट्चैकादशभागास्तथा पञ्चशतानि नन्दनवनविष्कम्भः, तदेवमभ्यन्तरगिरिविष्कम्भो द्विगुणनन्दनवनविष्कम्भश्च मिलितो यथोक्तमन्तरं प्रायो भवति । “पढमसूरियमंडले'त्ति, इह जम्बूद्वीपप्रमाणस्याशीत्युत्तरशते द्विगुणिते अपहते यो राशि स प्रथममण्डलस्यायामविष्कम्भः, सच नवनवति सहस्राणि षट्च शतानि चत्वारिंशदधिकानि, द्वितीयंतुनवनवति सहस्राणि षट्शतानि पञ्चचत्वारिंशच्च योजनानियोजनस्य च पञ्चत्रिंशदेकषष्टिभागाः, कथं ?, मण्डलस्य मण्डलस्य चान्तरं द्वे द्वे योजने, सूर्यविमानविष्कम्भश्चाष्टचत्वारिंशदेकषष्टिभागाः, एतदद्विगुणितं पञ्च योजनानि पञ्चत्रिंशदेकषष्टिभागाश्चेति जातमेतच्च पूर्वमण्डलविष्कम्भे क्षिप्तं जातमुक्तप्रमाणमिति, तृतीयमण्डलविष्कम्भोऽप्येवमेवावसेयः, स च नवनवति सहस्राणि षट् शतानि एकपञ्चाशत् योजनानि नवैकषष्टिभागाश्चेति । 'इमीसे ण'मित्यादि, भावार्थोऽयं अञ्जनकाण्डं दशमं, तत्र च रत्नप्रभोपरिमान्ताच्छतं शतानां भवति, प्रथमकाण्डे प्रथमशते च व्यन्तरनगराणि सन्तीति तस्मिन्नपसारिते नवनवतिशतान्यन्तरं सूत्रोक्तं भवतीति । समवायः-९९ समाप्तः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy