SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ समवायः - ७८ १०५ अकम्पितः स्थविरो महावीरस्याष्टमो गणधरस्तस्य चाष्टसप्ततिवर्षाणि सर्वायुः, कथं ?, गृहस्थपर्याये अष्टचत्वारिंशत् छद्मस्थपर्याये नव केवलिपर्याये चैकविंशतिरिति । 'उत्तरायणनियट्टेणं ति उत्तरायणाद्-उत्तरदिग्गमनानिवृत्तः उत्तरायणनिवृत्तः, प्रारब्धदक्षिणायन् इत्यर्थः 'सूरिए'त्ति आदित्यः ‘पढमाओमंडलाओ'त्ति दक्षिणां दिशंगच्छतोरवेर्यप्रथम तस्मात् नतुसर्वाभ्यन्तरसूर्यमार्गात् ‘एकूणचत्तालीसइमे'त्ति एकोनचत्वारिंशत्तमे मण्डले दक्षिणायनप्रथममण्डलापेक्षया सर्वाभ्यन्तरमण्डलापेक्षयातु चत्वारिंशे अठ्ठहत्तरिति अष्टसप्तति एगसद्विभाए'त्ति मुहूर्तस्यैकषष्टिभागान् ‘दिवसखेत्तस्स'त्ति दिवसलक्षणस्य क्षेत्रस्य दिवसस्यैवेत्यर्थः, 'निवुड्वेत्त'त्ति निवर्थ्य हापयित्वेत्यर्थः, तथा ‘रयणिखेत्तस्स'त्ति रजन्या एव 'अभिनिवुड्वेत्त'त्ति अभिनिवध्धर्यच वर्द्धयित्वेत्यर्थः, चारंचरइ'त्तिभ्राम्यतीत्यर्थः, भावार्थोऽस्यैव चन्द्रप्रज्ञप्तिवाक्यैरुपदय॑ते-जम्बूद्वीपे यदैतौ सूर्यौ सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरतस्तदा नवनवतियोजनसहस्राणि षट्चत्वारिंशदधिकानि योजनशतान्यन्योऽन्यमन्तरं कृत्वा चरतः, एतच्च जम्बूद्वीपेऽशीत्युत्तरंयोजनशतंप्रविश्याभ्यन्तरं मण्डलं भवति एतस्मिंश्च द्विगुणे जंबूद्वीप-प्रमाणादपकर्षिते यथोक्तमन्तरं भवतीति। तथा तत्र तोश्चरतोरुत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवतिजघन्यका च द्वादशमुहूर्ता रात्रिर्भवति, ततोऽभ्यन्तरमण्डलान्निष्क्रम्य प्रथमेऽहोरात्रेऽभ्यन्तरानन्तरं मण्डलमुपसङ्क्रम्य यदा चारं चरतस्तदा नवनवतिर्योजनसहस्राणि षट्चत्वारिंशदधिकानि योजनशतानि पञ्चत्रिंशच्च एकषष्टिभागा योजनस्यान्तरं कृत्वा चारं चरतः, तदा चाष्टादशमुहूर्तो दिवसो भवति द्वाभ्यां मुहूर्तस्यैकषष्टिभागाभ्यांन्यूनः, द्वादशमुहूर्ताच रात्रिभवति द्वाभ्यांमुहूर्तेकषष्टिभागाभ्यामधिकेति, एवंदक्षिणायनस्य द्वितीयादिषुमण्डलेष्वहोरात्रेषुचान्योऽन्यान्तरप्रमाणस्य पञ्चभिः पञ्चभिर्योजनैः पञ्चत्रिंशताचैकषष्टिभागैर्योजनस्य वृद्धिर्वाच्या, द्वाभ्यांद्वाभ्यां च मुहूर्तेकषष्टिभागाभ्यां दिनहानी रात्रिवृद्धिश्चेति, एवं च एकोनचत्वारिंशत्तमे मण्डले सूर्ययोरन्तरं नवनवति सहाण्यष्टशतानिसप्तपञ्चाशच्च योजनानांत्रयोविंशतिश्चैकषष्टिभागाः, दिनप्रमाणंचाष्टादशानांमुहूर्तानांमध्यादेकषष्टिभागानामष्टसप्तत्यांपातितायां षोडशमुहूर्ताश्चतुश्चत्वारिंशच्चैकषष्टिभागामुहूर्तस्य, रात्रेस्त्वष्टसप्तत्यां क्षिप्तायां त्रयोदश मुहूर्ताः सप्तदशैकषष्टिभागाश्चेति। एवं 'दक्खिणायणनियढे'त्ति यथोत्तरायणनिवृत्त एकोनचत्वारिंशत्तमे मण्डले अष्टसप्ततिमेकषष्टिभागान् हापयति वर्द्धयतिच, एवं दक्षिणायननिवृत्तोऽपि सूर्यस्तान् हापयति वर्द्धयति च, केवलं दक्षिणायने दिनभागान् हापयति रात्रिभागांश्च वर्द्धयति इह तु दिनभागान् वर्द्धयति रात्रिभागाश्च हापयति। समवायः-७८ समाप्तः (समवायः-७९ मू. (१५८) वलयामुहस्स णं पायालस्स हिडिल्लाओ चरमंताओ इमीसे णं रयणप्पभाए पुढवीए हेडिल्ले चरमंते एस णं एगूणासिंजोयणसहस्साइं अबाहाए अंतरे प० । एवं केउस्सवि जूयस्सवि ईसरस्सवि। छट्ठीए पुढवीए बहुमज्झदेसभायाओछट्टस्सघनोदहिस्स हेडिल्ले चरमंते एसणं एगूणासीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy