SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ १०० समवायाङ्गसूत्रम्-७१/१४९ वृ. अथैकसप्ततिस्थानके किञ्चित् लिख्यते-'चउत्थस्से'त्यादि, इह भावार्थोऽयं-युगे हि पञ्चसंवत्सराभवन्ति, तत्राद्यौ चन्द्रसंवत्सरौतृतीयोऽभिवर्द्धितसंवत्सरश्चतुर्थश्चन्द्रसंवत्सर एव, तत्र च एकोनत्रिंशता दिनां द्वात्रिंशता च द्विषष्टिभागैर्दिनस्य चन्द्रमासो भवति, अयं च द्वादशगुणश्चन्द्रसंवत्सरो भवति, त्रयोदशगुणश्चायमेवाभिवद्धितो भवति, ततश्चन्द्रचन्द्राभिवद्धितलक्षणे संवत्सरत्रये दिनानां सहं द्विनवतिः षट् द्विषष्टिभागा भवन्ति १०९२ । तथा आदित्यसंवत्सरे दिनानां शतत्रयं षटषष्टिश्च भवन्ति, तत्रितये च सहमष्टनवत्यधिकं भवति। इहचकिलचन्द्रयुगमादित्ययुगंचाषाढ्यामेकंपूर्यतेऽपरञ्च श्रावणकृष्णप्रतिपदिआरभ्यते, एवं चादित्ययुगसंवत्सरत्रयापेक्षया चन्द्रयुगसंवत्सरत्रयं पञ्चभिर्दिनैः षटपञ्चाशता च दिनद्विषष्टिभागैरूनं भवतीतिकृत्वा आदित्ययुगसंवत्सरत्रयं श्रावणकृष्णपक्षस्य चन्द्रदिनषट्के साधिके पूर्यते युगसंवत्सरत्रयं त्वाषाढ्यां, ततश्च श्रावणकृष्णपक्षसप्तमदिनादारभ्य दक्षिणा यनेनादित्यश्चरन् चन्द्रयुगचतुर्थसंवत्सरस्य चतुर्थमासान्तभूतायामष्टादशोत्तरशततमदिनभूतायां कार्तिक्यांद्वादशोत्तरशततमेस्वकीयमण्डले चरति, ततश्चान्यान्येकसप्ततिमण्डलानि तावत्स्वेव दिनेषु मार्गशीर्षादीनां चतुर्णा हैमन्तमासानां सम्बन्धिषुचरति, ततो द्विसप्ततितमे दिने माघमासे बहुलपक्षत्रयोदशीलक्षणे सूर्य आवृत्तिंकरोति, दक्षिणायनानिवृत्त्योत्तरायणेनचरतीत्यर्थः, उक्ता च ज्योतिष्करण्डके पञ्चसुयुगसंवत्सरेणूत्तरायणतिथयः क्रमेणैवं यदुत॥१॥ "बहुलस्स सत्तमीए १ सूरो सुद्धस्स तो चउत्थीए २ । बहुलस्स य पाडिवए ३ बहुलस्स य तेरीसिदिवसे ४ ॥ ॥२॥ सुद्धस्स य दसमीए ५ पवत्तए पंचमी उ आउट्टी। एआ आउट्टीओ सव्वाओ माघमासंमि॥ -दक्षिणायनदिनानि चैवं ।। ॥१॥ “पढमा बहुलपडिवए १ बीया बहुलस्स तेरीस दिवसे ।। सुद्धस्स य दसमीए ३ बहुलस्स य सत्तमीए ४ उ ।। ॥२॥ सुद्धस्स चउत्थीए पवत्तए पंचमी उ आउट्टी। एया आउट्टीओ सव्वाओ सावणे मासे॥ 'विरियपुव्वस्स'त्ति तृतीयपूर्वस्य ‘पाहुड'त्ति प्राभृतमधिकारविशेषः । 'अजिए' इत्यादि, तस्य हि अष्टादश पूर्वलक्षाणि कुमारत्वं त्रिपञ्चाशच्चैकपूर्वाङ्गाधिका राज्यमित्येकसप्ततिरिह च पूर्वाङ्गमधिकमल्पत्वान्न विवक्षितमिति ५, सगरो द्वितीयश्चक्रवर्ती अजितस्वामिकालीनः। समवायः-७१ समाप्तः (समवायः-७२) मू. (१५०) बावत्तरि सुवनकुमारावाससयसहस्सा प० । लवणस्स समुदस्स बावत्तरिं नागसाहस्सीओ बाहिरियं वेलं धारंति। समणे भगवं महावीरे बावत्तरिं वासाइंसव्वाउयं पालइत्ता सिद्धि बुद्धे जावप्पहीणे। थेरे णं अयलमाया बावत्तरि वासाइंसव्वाउयं पालइत्ता सिद्धे जावप्पहीणे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy