SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ समवायः 06 ू - : प० । पाउणित्ता सिद्धे बुद्धे जावप्पहीणे, वासुपुज्जे णं अरहा सत्तरिं धणूइं उड्डुं उच्चत्तेणं होत्था । मोहणिज्जस्सणं कम्मसस सत्तरिं सागरोवमकोडाकोडीओ अबाहूणिया कम्मट्ठिई कम्मनिसेगे ९९ माहिंदस्स णं देविंदस्स देवरन्नो सत्तरिं सामाणियसाहस्सीओ प० । वृ. अथ सप्ततिस्थानके किमपि लिख्यते - 'समणे' इत्यादि, वर्षाणां चतुर्मासप्रमाणस्य वर्षाकालस्य सविंशतिरात्रे - विशतिदिवसाधिके मासे व्यतिक्रान्ते पञ्चाशति दिनेष्वतीतेष्वित्यर्थः सप्तत्यां च रात्रिदिनेषु शेषेषु भाद्रपद शुक्लपञ्चम्यामित्यर्थः, वर्षास्वावासो वर्षावासः वर्षास्थानं 'पज्जोसवेइ'त्ति परिवसति सर्वथा वासं करोति, पञ्चासति प्राक्तनेषु दिवसे, तथाविधवसत्यभावादिकारणे स्थानान्तरमप्याश्रयति भाद्रपद शुक्लपञ्चम्यां तु वृक्षमूलादावपि निवसतीति हृदयमिति 'पुरिसादानीय'त्ति पुरुषाणामादानीयः- उपादेयः पुरुषादानीयः 'अबाहूणिया कम्मट्टिई कम्मनिसेगे पन्नत्ते' त्ति इह किलात्मा अविशिष्टमेव कर्म्मपुद्गलोपादानं कृत्वा उत्तरकालं ज्ञानावरणीयादिकर्म्मणा खं स्वमबाधाकालं मुक्त्वा ज्ञानावरमीयादिप्रकृतिविभागतया अनाभोगिकेन वीर्येणोदयसहितं तद्दलिकं निषिञ्चति, उदययोग्यं रचयतीत्यर्थः । अतो द्विविधा स्थितिः कर्म्मत्वापादनमात्ररूपा अनुभवरूपा च यतः स्थिति-अवस्थानं तेन भावेनाप्रच्यवनं, तत्र कर्म्मत्वापादनरूपां तामधिकृत्य सप्तति सागरोपमकोटीकोट्यः, अनुभवरूपां त्वधिकृत्य सप्तवर्षसहस्रोनेति, तत्र 'अबाह' त्ति किमुक्तं भवति ? - बन्धावलिकाया आरभ्य यावत्सप्तवर्षसहस्राणि तावत्कर्म न बाधते, नोदयं यातीत्यर्थः, ततोऽनन्तरसमये कर्मदलिकं पूर्वनिषिक्तं उदये प्रवेशयति, निषेको नाम ज्ञानावरणादिकर्म्मदलिकस्यानुभवनार्थं रचना, तच्च प्रथमसमये बहुकं निषिञ्चिति द्वितीयसमये विशेषहीन तृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थिति कर्मदलिकं तावद्विशेषहीनं निषिञ्चति, तथा चोक्तम् 119 11 "मोत्तूण सगमबाहं पढमाए ठिईए बहुतरं दव्वं । सेसे विसेसहीणं जावुक्कोसन्ति सव्वासिं ॥ इति 'बाधृ लोडने' बाधत इति बाधा कर्म्मण उदय इत्यर्थः, न बाधा अबाधा, अन्तरं कर्म्मोदयस्येत्यर्थः, तया ऊनिका अबाधोनिका कर्मस्थितिः कर्म्मनिषेधो भवतीत्येवमेके प्राहुः, अन्ये पुनराहुः - अबाधाकालेन वर्षसहस्रसप्तकलक्षणेनोना कर्म्मस्थितिः सप्तसहाधिकसप्ततिसागरोपम कोटा -कोटीलक्षणा, कम्र्मनिषेको भवति, स च कियानू ?, उच्यते- 'सत्तरिं सागरोवमकोडाकोडीओ' त्ति समवायः-७० समाप्तः मुनिदीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे सप्तति समवायस्य टीका परिसमाप्ता । समवाय:-७१ मू. (१४९) चउत्थस्स णं चंदसंवच्छरस्स हेमंताणं एक्कसत्तरीए राइदिएहिं वीइकं हिं सव्वबाहिराओ मंडलाओ सूरिए आउट्टिं करेइ, वीरियप्पवायस्स णं पुव्वस्स एक्सत्तरिं पाहुडा प० अजिते णं अरहा एक्कसत्तरिं पुव्वसयसहस्साइं अगारमज्झे वसित्ता मुंडे भवित्ता जाव पव्वइए, एवं सगरोवि राया चाउरंतचक्कवट्टी एक्कसत्तरि पुव्व जाव पव्वइएत्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy