SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ स्थानं - २, - उद्देशकः -३ ७५ कृष्णप्रतिपदिचपञ्चदश भुक्त्वा प्रतिदिनमेकैकहान्याऽमावास्यायामेकमेव यस्यां भुङ्कते सा यवमध्या चन्द्रप्रतिमेति, यस्यां तु कृष्णप्रतिपदि पञ्चदश भुक्त्वा एकैकहान्याऽमावास्यायामेक शुक्लप्रतिपदि चैकमेव ततः पुनरेकैकवृद्धा पूर्णिमायां पञ्चदश भुङ्क्ते सा वज्रस्येव मध्यं यस्यां तन्वित्यर्थः सा वज्रमध्या चन्द्रप्रतिमेति, एवं भिक्षादावपि वाच्यमिति ॥ प्रतिमाश्च सामायिकवतामेव भवन्तीति सामायिकमाह-'दुविहे' इत्यादि, समानां - ज्ञानादीना माय लाभः समायः स एव सामायिकमिति, तद् द्विविधम्-अगारवदनगारस्वामिभेदाद्, देशसर्वविरती इत्यर्थः ।। जीवधर्माधिकार एव तद्धर्मान्तराणि 'दोण्हं उववाए' इत्यादिभिश्चतुर्विंशत्या सूत्रैराह मू. (८५) दोण्हं उववाएं पं० तं०-देवाण चेव नेरइयाण चेव १ दोण्हं उव्वट्टणा पं० तं०नेरइयाण चेव भवणवासीण चेव २ दोण्हं चयणे पं० तं०-जोइसियाण चेव वेमाणियाण चेव ३ दोहं गब्भवक्ती पं० तं०- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव ४ दोण्हं गब्भवत्थाणं आहारे पं० तं०-मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव ५ दोण्हं गब्भत्थाणं वुड्डी पं० - मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव ६ एवं निव्वुड्डी ७ विगुव्वणा ८ गतिपरियाए ९ समुग्धाते १० कालसंजोगे ११ आयाती १२ मरणे १३ दोण्हं छविपव्वा पं० तं०- मणुस्साण चेव पंचिंदियतिरिक्खजोणियाण चेव १४ दो सुक्क सोणितसंभवा पं० तं० मणुस्सा चेव पंचिंदियतिरिक्खजोणिया चेव १५ दुविहा ठिती पं० तं०-कायद्विती चैव भवट्ठिती चेव १६ दोण्हं कायद्विती पं० तं० मणुस्साणं चेव पंचिंदियतिरिक्खजोणियाण चेव १७ दोण्हं भवट्टिती पं० तं०-देवाण चेव नेरइयाण चेव १८ दुविहे आउए पं० तं अद्धाउए चेव भवाउए चेव १९ दोण्हं अद्धाउए पं० तं०- मणुस्साण चेव पंचेदियतिरिक्खजोणियाण चेव २० भवाउए पं० तं०- देवाण चेव नेरइयाण चेव २१ दुविहे कम्मे पं० तं०-पदेसकम्मे चेव अनुभावकम्मे चेव २२ दो अहाउयं पालेति देवच्चेव नेरइयच्चेव २३ दोण्हं आआउयसंवट्टए पं० तं०-मणुस्साण चेव पंचेदियतिरिक्खजोणियाण चेव २४ वृ. सुगमानि चैतानि नवरं 'दोहं' ति द्वयोर्जीवस्थानकयोरुपपतनमुपपातो-गर्भसंमूर्छनलक्षणजन्मप्रकारद्वयविलक्षणो जन्मविशेष इति, दीव्यन्ति इति देवाः चतुर्निकायाः सुरा नैरयिकाः प्राग्वत्तेषाम् १, उद्वर्त्तनमुद्वर्त्तना तत्कायान्निर्गमो मरणमित्यर्थः, तच्च नैरयिकभवनवासिनामेवैवं व्यपदिश्यते, अन्येषां तु मरणमेवेति, नैरयिकाणां नारकाणां तथा भवनेषु अधोलोकदेवावासविशेषेषु वस्तुं शीलमेषामिति भवनवासिनस्तेषाम् २, च्युतिश्चयवनं मरणमित्यर्थः, तच्च ज्योतिष्कवैमानिकानामेव व्यपदिश्यते, ज्योतिष्षुनक्षत्रेषु भवाः ज्योतिष्काः, शब्दव्युत्पत्तिरेवेयं, प्रवृत्तिनिमित्ताश्रयणात्तु चन्द्रादयो ज्योतिष्का इति, विमानेषु-ऊर्द्धलोकवर्त्तिषु भवाः वैमानिकाः-सौधर्मादिवासिनस्तेषां ३, गर्भे गर्भाशये व्युत्क्रान्तिः उत्पत्तिर्गर्भव्युत्क्रान्तिः, मनोरपत्यानि मनुष्यास्तेषां, तिरोऽञ्चन्तिगच्छन्तीति तिर्यञ्चस्तेषां सम्बन्धिनी योनिः - उत्पत्तिस्थानं येषां ते तिर्यग्योनिकाः, ते चैकेन्द्रियादयोऽपि भवन्तीति विशिष्यन्ते-पञ्चेन्द्रियाश्च ते तिर्यग्योनिकाश्चेति पञ्चेन्द्रियतिर्यग्योनिकास्तेषाम् ४, तथा द्वयोरेव गर्भस्थयोराहारोऽन्येषां गर्भस्यैवाभावादिति ५, वृद्धिः - शरीरोपचयः ६, निवृद्धिस्तद्धा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy