________________
७६
स्थानाङ्गसूत्रम् २/३/८५
निर्वातपित्तादिभिः, निशब्दस्याभावार्थत्वात्, निवरा कन्योत्यादिवत्७, वैक्रियलब्धिमतांविकुर्वणा
गतिपर्यायः-चलनं मृत्वा वा गत्यन्तरगमनलक्षणः, यच्च वैक्रियलब्धिमान् गर्भान्निर्गत्य प्रदेशतो बहिः सङ्ग्रामयति स वा गतिपर्यायः, उक्तं च भगवत्यां- “जीवे णं भंते ! गब्भगए समाणे णेरइएसु उववज्जेज्जा ?, गोतमा!, अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववज्जेज्जा, से केणटेणं०? गोतमा! सेणंसन्नीपंचिंदिएसव्वाहिपज्जत्तीहिंपज्जत्तएवीरियलद्धीए विउव्विअलद्धीए परा-नीयं आगतं सोच्चा निसम्मपएसे निच्छुब्भए २ वेउव्वियसमुग्धाएणं समोहन्नइ२ चउरंगिणिं सेणं विउव्वइ२ चाउरंगिणीए सेनाए परानीएणं सद्धिं संगाम संगामेई" त्यादि ९,
समुद्घातोमारणान्तिकादि: १०, कालसंयोगः-कालकृतावस्था ११,आयातिः-गर्भान्निर्गमो १२, मरणं-प्राणत्यागः १३, ‘दोण्हंछविपव्व'त्ति द्वयानां-उभयेषां छवि'त्तिमतुब्लोपाच्छविमन्तित्वग्वन्ति पव्व'त्तिपर्वाणिसन्धिबन्धनानिछविपणिक्वचित् 'छवियत्त'त्तिपाठः तत्रछवियोगाच्छविः स एवछविकः स चासौ ‘अत्तत्ति आत्मा च-शरीरंछविकात्मेति, छविपत्त'त्तिपाठान्तरे छविःप्राप्ता जातेत्यर्थः, गर्भस्थानामिति सर्वत्र सम्बन्धनीयम् १४, ‘दो सुके'त्यादि, द्वयोः शुक्ररेतः शोणितम्-आर्तवं ताभ्यां सम्भवो येषां ते तथा १५,
'कायट्ठिति'त्तिकाये-निकाये पृथिव्यादिसामान्यरूपेण स्थितिः कायस्थितिः असङ्खयोत्स पिण्यादिका, भवे भवरूपा वा स्थितिः भवस्थितिर्भवकाल इत्यर्थः १६, 'दोण्हंति द्वयानामुभयेषामित्यर्थः, कायस्थितिःसप्ताष्टभवग्रहणरूपा, पृथिव्यादीनामपिसाऽस्ति, नचानेनतद्वयवच्छेदः, अयोगव्यवच्छेदपरत्वात् सूत्राणामिति १७, 'दोण्हे'त्यादि, देवनारकाणां भवस्थितिरेव, देवादेः पुनर्देवादित्वेनानुत्पत्तेरिति १८, दुविहे' इत्यादिअद्धा-कालः तत्प्रधानमायुः-कर्मविशेषोऽद्धायुः, भवात्ययेऽपिकालान्तरानुगामीत्यर्थो, यथा मनुष्यायुः, कस्यापि भवात्यय एव नापगच्छत्यपितु सप्ताष्टभवमात्रंकालमुत्कर्षतोऽनुवर्तत इति, तथा भवप्रधानमायुभवायुः, यद्भावात्यये अवगच्छत्येव न कालान्तरमनुयाति, यथा देवायुरिति, १९, ‘दोण्ह'मित्यादि सूत्रद्वयं भावितार्थमेव २१,
_ 'दुविहे कम्मे इत्यादि, प्रदेशाएवपुद्गलाएव यस्य वेद्यन्तेन यथा बद्धोरसस्तप्रदेशमात्रतया वेद्यं कर्म प्रदेशकर्म यस्यत्वनुभावो यथाबद्धरसोवेद्यते तदनुभावतो वेद्यंकर्मानुभावकर्मेति २२, 'दो' इत्यादि, यथाबद्धमायुर्यथायुः पालयन्ति-अनुभवन्ति नोपक्रम्यते तदितियावदिति, ॥१॥ “देवा नेरइयाविय असंखवासाउया य तिरिमणुया।
उत्तमपुरिसा यतहा चरमसरीरा य निरुवकमा' इति वचने सत्यपि देवनारकयोरेवेह भणनं द्विस्थानकानुरोधादिति । 'दोण्ह' मित्यादि, संवर्तनमपवर्तनं संवतः स एव संवर्तकः, उपक्रम इत्यर्थः, आयुषः संवर्तकः आयुःसंवर्तक इति २३ । पर्यायाधिकारादेव नियतक्षेत्राश्रितत्वात् क्षेत्रव्यपदेश्यान् पुद्गलपर्यायानभिधित्सुः 'जंबूद्दीवे' इत्यादिना क्षेत्रप्रकरणमाह
मू. (८६)जंबूद्दीवे दीवेमंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा (पं० २०-बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नणातिवटृति आयामविक्खंभसंठाणपरिणाहेणंतं०-भरहे चेव एरवए चेव, एवमेएणमहिलावेणं हिमवए चेव हेरन्नवते चेव, हरिवासे चेव रम्मयवासे चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणं दो खित्ता[पं० तं०-बहुसमतुल्ला अविसेस जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org