________________
७४
स्थानाङ्ग सूत्रम् २/३/८४
वृ. 'दुविहे आयारे' इत्यादि सूत्रचतुष्टयं कण्ठयं, नवरं आचारणमाचारो-व्यवहारो ज्ञानंश्रुतज्ञानं तद्विषय आचारः कालादिरष्टविधो ज्ञानाचारः, आह च॥१॥ "काले विनए बहुमाणे उवहाणे चेव तहय निन्हवणे।
वंजणमत्थ तदुभए अट्ठविहो नाणमायारो" (त्ति), नोज्ञानाचारः-एतद्विलक्षणो दर्शनाद्याचार इति, दर्शन-सम्यकत्वं, तदाचारोनिःशङ्कितादिरष्टविध एव, आह च॥२॥ "निस्संकिय १ निक्कंखिय २ निव्वितिगिच्छा ३ अमूढदिट्ठी ४ य ।
उववूह ५ थिरीयकरणे ६ वच्छल्ल ७ पभावणे ८ अट्ठ" (त्ति), नोदर्शनाचारश्चारित्रादिरिति, चारित्राचारः समितिगुप्तिरूपोऽष्टधा, आह च॥३॥ “पणिहाणजोगजुत्तो पंचहिं समिईहिं तीहिंगुत्तीहिं।
एस चरित्तायारो अट्ठविहो होइ नायव्वो" (ति), - नोचारित्राचारस्तपआचारप्रभृतिः, तत्र तपआचारो द्वादशधा, उक्तंच॥४॥ “बारसिहंमिवि तवे सब्भितरबाहिरे कुसलदिखे। . अगिलाइ अणाजीवी नायव्वो सो तवायारो" (त्ति),
- वीर्याचारस्तु ज्ञानादिष्वेव शक्तेरगोपनं तदनतिक्रमश्चेति, उक्तं च - ॥५॥ “अनिगूहियबलविरिओ परक्कमइ जो जहुत्तामाउत्तो।
जुंजइ य जहाथामं नायव्वो वीरियायारो" (त्ति)। अथवीर्याचारस्यैव विशेषाभिधानायषट्सूत्रीमाह-दोपडिमे'त्यादि, प्रतिमा प्रतिपत्तिः प्रतिज्ञेतियावत्, समाधानं समाधिः-प्रशस्तभावलक्षणः तस्य प्रतिमा समाधिप्रतिमा दशाश्रुतस्कन्धोक्ता द्विभेदा-श्रुतसमाधिप्रतिमा सामायिकादिचारित्रसमाधिप्रतिमा च, उपधानंतपस्तत्प्रतिमोपधानप्रतिमा द्वादश भिक्षुप्रतिमा एकादशोपासकप्रतिमाश्चेत्येवंरूपेति ।
विवेचनं विवेकः-त्यागः, स चान्तराणां कषायादीनां बाह्यानां गणशरीरभक्तप्रानादीनामनुचितानां तत्प्रतिपत्तिर्विवेकप्रतिमा, व्युत्सर्गप्रतिमा-कायोत्सर्गकरणमेवेति,
भद्रा-पूर्वादिदिक्चतुष्टये प्रत्येकं प्रहरचतुष्टयकायोत्सर्गकरणरूपा अहोरात्रद्वयमानेति, सुभद्राऽप्येवंप्रकारैव सम्भाव्यते, अष्टत्वेन तु नोक्तेति, महाभद्रापि तथैव, नवरमहोरात्रकायोत्सर्गरूपाअहोरात्रचतुष्टयमाना, सर्वतोभद्रातुदशसुदिक्षु प्रत्येकमहोरात्रकायोत्सर्गरूपाअहोरात्रदशकप्रमाणेति,
मोकप्रतिमाप्रस्रवणप्रतिमा, सा च कालभेदेन क्षुद्रिका महती च भवतीति, यत उक्तं व्यवहारे - “खुड्डियं णं मोयपडिमं पडिवण्णस्से" त्यादि, इयं च द्रव्यतः प्रवणविषया क्षेत्रतो ग्रामादेर्बहिः कालतःशरदि निदाद्ये वा प्रतिपद्यते, भुक्त्वा चेत्प्रतिपद्यतेचतुर्दशभक्तेन समाप्यते, अभुक्त्वा तुषोडशभक्तेन, भावतस्तु दिव्याधुपसर्गसहनमिति, एवंमहत्यपि, नवरंभुक्त्वा चेत् प्रतिपद्यते षोडशभक्तेन समाप्यते, अन्यथा त्वष्टादशभक्तेनेति,
___यवस्येवमध्यं यस्याः सायवमध्या, चन्द्रइव कलावृद्धिहानिभ्यांयाप्रतिमा साचन्द्रप्रतिमा, तथाहि-शुक्लप्रतिपदि एकं कवलमभ्यवहत्य ततः प्रतिदिनं कवलवृद्धया पञ्चदशा पौर्णमास्यां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org