________________
स्थानाङ्ग सूत्रम् २/२/७८
विप्पजहमाणे पुढविकाइयत्ताए वा नापुढविकाइयत्ताए वा गच्छेज्जा, एवं जाव मणुस्सा ॥
वृ. दण्डकः कण्ठ्यो, नवरं नैरयिका - नारका द्वयोः मनुष्यगतितिर्यग्गतिलक्षणयोर्गत्योरधिकरणभूतयोर्गतिर्येषां ते तथा, द्वाभ्यामेताभ्यामेवावधिभूताभ्यामागतिः - आगमनं येषां ते तथा, उदितनारकायुर्नारक एव व्यपदिश्यते, अत उच्यते 'नेरइए नेरइएसु' त्ति, नेरकेषु मध्ये इत्यर्थः, इह चोद्देशक्रमव्यत्ययात् प्रथमवाक्येनागतिरुक्ता, 'से चेव णं से'त्ति यो मानुषत्वादितो नरकं गतः स एवासौ नारको नान्यः, अनेनैकान्तानित्यत्वं निरस्तमिति, 'विप्पजहमाणे 'त्ति विप्रजहन् परित्यजन्, इह च भूतभावतया नारकव्यपदेशः, अनेन वाक्येन गतिरुक्ता, इत्थं च व्याख्यानं 'तेजस्कायिका द्व्यागतयस्तिर्यङ्मनुष्यापेक्षया एकगतयस्तिर्यगपेक्षये'त्ति वाक्यमुपजीव्येति, 'एवं असुरकुमारावि 'त्ति, नारकवद्वक्तव्या इत्यर्थः, 'नवरं' ति केवलमयं विशेषः- तिर्यक्षु न पञ्चेन्द्रियेष्वेवोत्पद्यन्ते पृथिव्यादिष्वपि तदुत्पत्तेरित्यतः सामान्यत आह
'से चेवणं से इत्यादि जाव तिरिक्खजोणियत्ताए वा गच्छेज्ज' त्ति, 'एवं सव्वदेव' त्ति असुरवत् द्वादशापि दण्डकदेवपदानि वाच्यानि तेषामप्येकेन्द्रियेषूत्पत्तेरिति । 'नोपुढविका इएहिंतो त्ति अनेन पृथ्वीकायिकनिषेधद्वारेणाप्कायिकादयः सर्वे गृहीता द्विस्थानकानुपरोधादिति, तेभ्यो वानारकवर्जेभ्यः समुत्पद्यते, 'नोपुढविकाइयत्ताए' त्ति, देवनारकवर्जा'कायादितया गच्छेदिति, 'एवं जाव मणुस' त्ति, यथा पृथिवीकायिका 'दुगतिया' इत्यादिभिरभिलापैरुक्ता एवमेभिरेवाप्कायिकादयो मनुष्यावसानाः पृथिवीकायिकशब्दस्थानेऽप्कायादिव्यपदेशं कुर्वद्भिरभिधातव्या इति व्यन्तरादयस्तु पूर्वमतिदिष्टा एवेति ।
जीवाधिकारादेव भव्यादिविशेषणैः षोडशभिर्दण्डकप्ररूपणायाह
६८
मू. (७९) दुविहा नेरइया पन्नत्ता, तंजहा-भवसिद्धिया चेव अभवसिद्धिया चेव, जाव वेमाणिया १ । दुविहा नेरइया पं० तं० - अनंतरोववन्नगा चेव परंपरोववन्नगा चेव जाव वेमाणिया २ । दुविहा नेरइया पं० तं०-गतिसमावन्नगा चेव अगतिसमावन्नगा चेव, जाव वेमाणिया ३ । दुविहा नेरइया पं० तं०- पढमसमओववन्नगा चेव अपढमसमओववन्नगा चेव जाव वेमाणिया ४ दुविहा नेरइया पं० तं० - आहारगा चेव अणाहारगा चेव, एवं जाव वेमाणिया ५ । दुविहा नेरइया पं० तं०-उस्सासगा चेव नोउस्सासगा चेव, जाव वेमाणिया ६ । दुविहा नेरइया पं० तं०-संइदिया चेव अनिंदिया चेव, जाव वेमाणिया ७ । दुविहा नेरइया पं० तं०-पजत्तगा चेव अपजत्तगा चेव, जाव वेमाणिआ ८ । दुविहा नेरइया पं० तं०- सन्नि चेव असन्नि चेव, एवं पंचेंदिया सव्वे विगलिंदियवज्जा, जाव वाणमंतरा (वेमाणिया ) ९ ।
दुविहा नेरइया पं० तं०-भासगा चेव अभासगा चेव, एवमेगिंदियवज्जा सव्वे १० । दुविहा नेरइया पं० तं० सम्मद्दिट्ठीया चेव मिच्छद्दिट्टिया चेव, एगिदियवज्जा सव्वे ११ । दुविहा नेरइया पं० तं०-परित्तसंसारित्ता चैव अनंतसंसारिया चेव, जाव वेमाणिया १२ । दुविहा नेरइया पं० तं ० - संखेजकालसमयट्ठिताया चेव असंखेज्जकालसमयद्वितीया चेव, एवं पंचेंदिया एगिंदियविगलिंदियवज्जा जाव वाणमंतरा १३ । दुविहा नेरइया पं० तं०-सुलभबोधिया चेव दुलभबोधिया चेव, जाव वेमाणिया १४ । दुविहा नेरइया पं० तं०- कण्हपक्खिया चैव सुक्क पक्खिया चेव, जाव वेमाणिया १५ । दुविहा नेरइया पं० तं० चरिमा चेव अचरिमा चेव, जाव वेमाणिया १६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org