SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ____६७ स्थानं-२, - उद्देशकः -२ 'जे देवे'त्यादि, ये देवाः-सुराः वक्ष्यमाणविशेषणेभ्योवैमानिका अनशनादेरुत्पन्नाः, किंभूताः'उद्ध'त्ति ऊर्द्धलोकस्तत्रोपपन्नकाः-उत्पन्ना ऊोपपन्नकास्तेच द्विधा-कल्पोपपन्नकाः-सौधर्मादिदेवलोकोत्पन्नास्तथा विमानोपपन्नकाः-अवेयकानुत्तरलक्षणविमानोत्पन्नाः कल्पातीताइत्यर्थः, तथा परे 'चारोववन्नग'त्तिचरन्ति-भ्रमन्तिज्योतिष्कविमानानियत्रसचारो-ज्योतिश्चक्रक्षेत्रंसमस्तमेव, व्युत्पत्त्यर्थमात्रानपेक्षणेन शब्दप्रवृत्तिनिमित्ताश्रयणात्, तत्रोपपन्नकाचारोपपन्नकाः-ज्योतिष्काः, न च पादपोपगमनादेज्योतिष्कत्वं न भवति, परिणामविशेषादिति, तेऽपि च द्विधैव, तथाहिचारे-ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषांतेचारस्थितिकाः-समयक्षेत्रबहिर्वतिनो घण्टाकृतयइत्यर्थः, तथा गतौ रतिर्येषां तेगतिरतिकाः,समयक्षेत्रवर्तिन इत्यर्थः, गतिरतयश्चासततगतयोऽपिभवन्तीत्यत आह-गति-गमनं समिति-सन्ततमापन्नकाः-प्राप्ता गतिसमापन्नकाः, अनुपरतगतय इत्यर्थः, तेषांदेवानां द्विविधानांपुनर्द्धिविधानांसदा-नित्यं समितं-सन्ततं यत्पापकर्म-ज्ञानावरणादि, सततबन्धकत्वात्जीवानां, क्रियते-बध्यते, कर्मकर्तृप्रयोगोऽयं, भवति सम्पद्यत इत्यर्थः, तेदेवास्तस्य-कर्मणःअबाधाकालातिक्रमे सति तत्थगयावित्तिअपिरेवकारार्थस्तस्य चैवंप्रयोगः-तत्रैवदेवभव एवकल्पातीतानां क्षेत्रान्तरादिगमनासम्भवादिह तत्रान्यत्रशब्दाभ्या भव एव विवक्षितः, न क्षेत्रशयनासनादीति, गताः-वर्तमाना ‘एके'केचन देवा वेदनाम्-उदयं विपाकं 'वेदयन्ति' अनुभवन्ति, 'अन्नत्थगयावि'त्ति देवभवादन्यत्रैव भवान्तरे गता-उत्पन्ना वेदनामनुभवन्ति, केचित्तूभयत्रापि, अन्ये विपाकोदयापेक्षया नोभयत्रापीति, एतच्च विकल्पद्वयं सूत्रे नाश्रितं, द्वित्वाधिकारादिति। __ सूत्रोक्तमेव विकल्पद्वयंसर्वजीवेषु चतुर्विंशतिदण्डकेन प्ररूपयन्नाह-'नेरइयाण मित्यादि, प्रायः सुगमम्, नवरं, “तत्थगयाविअन्नत्थगयावि" एवमभिलापेन दण्डको नेयो यावत्पञ्चेन्द्रियतिर्यञ्चेऽत एंवाह-'जावे'त्यादि, मनुष्येषु पुनरभिलापविशेषो दृश्यः, यथा 'इहगतावि एगइया' इति, सूत्रकारोहिमनुष्योऽतस्तत्रेत्येवंभूतंपरोक्षानासन्ननिर्देशं विमुच्य मनुष्यसूत्रेइहेत्येवं निर्दिशति स्म, मनुष्यभवस्य स्वीकृतत्वेन प्रत्यक्षासन्नवाचिन इदंशब्दस्य विषयत्वादिति, अतएवाह मणुस्सवज्जा सेसा एक्कगम'त्तिशेषाः-व्यन्तरज्योतिष्कवैममानिका एकगमाः-तुल्याभिलापाः, ननुप्रथमसूत्र एवज्योतिष्क-वैमानिकदेवानां विवक्षितार्थस्याभिहितत्वात् किं पुनरिह तद्मणनेनेति?,उच्यते, तत्रानुष्ठानफल-दर्शनप्रसङ्गेन भेदतश्चोक्तत्वाद्, इह तु दण्डकक्रमेण सामान्यतश्चोक्तत्वादिति न दोषो, दृश्यते चेह तत्र तत्र विशेषोक्तावपि सामान्योक्तिरितरोक्तौ त्वितरेति ॥ तत्रगतावेदनांवेदयन्तीत्युक्तमतोनारकादीनांगतितद्विपर्यस्तामागतिंच निरूपयन्नाह मू. (७८) नेरतिता दुगतिया दुयागतिया पं० २०-नेरइए २ सु उववजमाणे मणुस्सेहितो वा पंचिंदियतिरिक्खजोणिएहिंतो वा उववजेजा, से चेव णं से नेरइए नेरइयत्तं विप्पजहमाणे मनुस्सत्ताए वा पंचेदियतिरिक्खजोणियत्ताए वा गच्छेजा, एवं असुरकुमारावि, नवरं, से चेवणं से असुरकुमारे असुरकुमारत्तं विप्पजहमाणे मनुस्सत्ताए वा तिरिक्खजोणियत्ताए वा गच्छिज्जा, एवं सव्वदेवा, पुढविकाइया दुगतिया दुयागतिया पं० तं०-पुढविकाइए पुढविकाइएसु उववज्जमाणे पुढविकाइएहिंतो वा नोपुढविकाइएहिंतो वाउववज्जेज्जा, से चेवणं से पुढविकाइए पुढविकाइयत्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy