SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् २/१/७६ आसेवनशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमिति २, उत्थापयितुं महाव्रतेषु व्यवस्थापयितुं ३ संभोजयितुं भोजनमण्डल्यां निवेशयितुं४ संवासयितुं संस्तारकमण्डल्यां निवेशयितुं ५, सुष्टु आ-मर्यादया अधीयत इति स्वाध्यायः-अङ्गादिस्तमुद्देष्टुं योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टुमिति ६, समुद्देष्टुयोगसामाचार्यैव स्थिरपरिचितं कुर्विदमिति वक्तुमिति७, अनुज्ञातुं तथैव सम्यगेतद् धारय अन्येषां च प्रवेदयेत्येवमभिधातुमिति ८, आलोचयितुं गुरवेऽपराधानिवेदयितुमिति ९,प्रतिक्रमितुं-प्रतिक्रमणकर्तुमिति १०, निन्दितुमतिचारान्स्वसमक्षंजुगुप्सितुं, ____ आह च- “सचरित्तपच्छयावो निंद"त्ति ११, गर्हितुं गुरुसमक्षं तानेव जुगुप्सितुं, आह च-“गरहाऽवि तहाजातीयमेव नवरं परप्पयासणए"त्ति १२, 'विउट्टित्तए'त्ति व्यतिवर्तयितुं वित्रोटयितुं विकुट्टयितुं वा, अतिचारानुबन्ध विच्छेदयितुमित्यर्थः १३, विशोधयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकर्तुमिति १४, अकरणतया-पुनर्न करिष्यामीत्येवमभ्युत्थातुम्अभ्युपगन्तुमिति १५, 'यथार्हम् अतिचाराद्यपेक्षयायथोचितंपापच्छेदकत्वात्प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तं, उक्तं च॥१॥ “पावं छिंदइ जम्हा पायच्छित्तं तु भन्नए तेण। पाएण वाविचित्तं विसोहए तेण पच्छित्तं" (ति), तपः-कर्म-निर्विकृतिकादिकंप्रतिपत्तुम्-अभ्युपगन्तुमिति १६, सप्तदशंसूत्रसाक्षादेवाह'दोदिसे'त्यादि, पश्चिमैवमङ्गलपरिहार्थमपश्चिमा साचासौमरणमेवयोऽन्तस्तत्रभवामारणान्तिकी च सा चासौ संलिख्यतेऽनया शरीरकषायादीति संलेखना-तपोविशेषः सा चेति अपश्चिममारणान्तिकसंलेखना तस्याः 'जूसण'त्तिजोषणा-सेवा तया तल्लक्षणधर्मेणेत्यर्थः 'जूसियाण'न्ति सेवितानां, तधुक्तानामित्यर्थः, तयावा झोषितानां क्षपितानां क्षपितदेहानामित्यर्थः, तथा भक्तपाने प्रत्याख्याते यैस्ते तथा तेषां, पादपवदुपगतानाम्-अचेष्टतया स्थितानामनशनविशेष प्रतिपन्नानामित्यर्थः, 'कालं' मरणकालमनवकाङ्गतां-तत्रानुत्सुकानां विहर्तु-स्थातुमिति १७। एवमेतानि दिक्सूत्राण्यादितोऽष्टादश । सर्वत्र यन्न व्याख्यातं, तत्सुगमत्वादिति॥ स्थान-२- उद्देशकः-१ - समाप्तः स्थान-२, उद्देशकः २:वृ.इहानन्तरोद्देशकेजीवाजीवधर्माद्वित्वविशिष्टा उक्ताः, द्वितीयोद्देशकेतुद्वित्वविशिष्टा एवजीवधर्मा उच्यन्ते, इत्यनेन सम्बन्धेन आयातस्यास्योद्देशकस्येदमादिसूत्रम् मू. (७७) जे देवा उद्दोववन्नगा कप्पोववनगा विमाणोववन्नगा चारोववनगा चारद्वितीया गतिरतियागतिसमावन्नगा, तेसिणंदेवाणंसता समितंजे पावे कम्मे कज्जति तत्थगताविएगतिया वेदणं वेदेति अन्नत्थगतावि एगतिया वेअणं वेदेति, नेरइयाणं सता समियंजे पावे कम्मे कजति तत्थगतावि एगतिया वेयणं वेदेति अन्नत्थगतावि एगतिआ वेयणं वेदेति, जाव पंचेदियतिरिक्खजोणियाणं मणुस्साणंसता समितंजे पावे कम्मे कजति इहगतावि एगतिता वेयणं वेयंति अन्नत्थगतावि एगतिया वेयणं वेयंति, मणुस्सवज्जा सेसा एक गमा॥ वृ. 'जेदेवे'त्यादि, अस्य चानन्तरसूत्रेण सहायमभिसम्बन्धः-प्रथमोद्देशकान्त्यसूत्रेपादपोपगमनमुक्तम्, तस्माच्च देवत्वं केषाञ्चिद्भवतीति देवविशेषभणनेन तत्कर्मबन्धवेदने प्रतिपादयन्नाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy